भूमिका– वैयाकरणचूडामणिना भट्टोजिदीक्षितेन विरचिताया
वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धिप्रकरणे सूत्रमिदं पठितम्। षट्प्रकारेषु
सूत्रेषु इदं विधिसूत्रम्।
सूत्रार्थः– अस्मिन् सूत्रे पदत्रयं विद्यते। इकः, यण्, अचि इति
पदच्छेदः। इकः इति षष्ठ्येकवचनान्तं पदम्। अतः ‘षष्ठी स्थानेयोगा’ इति परिभाषया स्थाने
इति लभ्यते। यण् इति प्रथमान्तं विधेयं पदम्। अचि इति सप्तम्यन्तं पदम्। अतः ‘तस्मिन्निति निर्दिष्टे पूर्वस्य’ इति परिभाषासहायेन
अर्थतः अचि परे इति लभ्यते। ‘संहितायाम्’ इति अधिकारः। एवञ्च अचि परे इकः स्थाने यण् भवति संहितायामिति सूत्रार्थः
फलति। तदुक्तं सिद्धान्तकौमुद्यां दीक्षितेन – ‘इकः स्थाने
यण् स्यादचि संहितायां विषये’ इति।
सोदाहरणं व्याख्यानम्– इक् इति प्रत्याहारः। तेन च इ, उ, ऋ, लृ इति वर्णानां
ग्रहणं, यण् अपि प्रत्याहारः। तेन य्, व्, र्, ल् इति वर्णा गृह्यन्ते। तत्र च
स्थानेऽन्तरतमपरिभाषया निर्णयः यत् इकारस्य स्थाने यकारः एव, उकारस्य स्थाने वकार
एव, ऋकारस्य स्थाने रेफ एव, लृकारस्य स्थाने लकार एवेति। अत्र च इक् अविधीयमानः
अस्ति इत्यतः इकारेण अष्टादशानाम्, उकारेणापि अष्टादशानाम् ऋकारेण त्रिंशतो
ग्रहणम् इति बोद्ध्यम्। अत्र क्रमशः इकारादीनाम् उदाहरणं प्रस्तूयते – दध्यत्र,
मध्वरिः, पित्रादेशः, लाकृतिः इति। दधि+अत्र इति स्थिते धकारोत्तर-इकारस्य परतः अच्
वर्तते इति कारणात् इकारस्य स्थाने यकारे दध्यत्र इति रूपं सिद्ध्यति।
एवमन्येषामपि सिद्धिः ऊह्या।
संहिताधिकारश्च प्राचां
मतानुसारेण इति बोद्ध्यम्। भाष्यकृता तु संहिताधिकारः प्रत्याख्यातः। अधिकारो हि
त्रिविधः – औपश्लेषिकः अभिव्यापकः वैषयिकश्चेति। शब्दस्य शब्दान्तरेण सम्बन्धः
कोऽन्यो भवितुमर्हति, अन्यदुपश्लेषात्। अतः अच्युपश्लिष्टस्येति लभ्यते। एवञ्च
अच्समीपवर्तिनः यण् स्यात्। सामीप्यञ्च कालतो वर्णतश्च व्यवधानाभावः इति शम्॥
No comments:
Post a Comment