निपात एकाजनाङ्
भूमिका – शाब्दिकमूर्धन्येन भट्टोजिदीक्षितेन विरचिताया
वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धेः प्रकृतिभावप्रकरणे सूत्रमिदं पठितम्।
षट्प्रकारकेषु सूत्रेषु इदं संज्ञासूत्रम्।
सूत्रार्थः – पदत्रयात्मकेऽस्मिन् सूत्रे निपातः एकाच् अनाङ् इति सूत्रगतपदच्छेदः। निपातः
इति प्रथमैकवचनान्तं पदम्। एकश्चासौ अच् चेति एकाजिति कर्मधारयसमासः। न आङ् इति
अनाङ् इति नञ्तत्पुरुषः। ईदूदेद् द्विवचनं प्रगृह्यम् इति सूत्रात् प्रगृह्यमिति
संज्ञापदमनुवर्तते। ततश्च आङ्भिन्नः एकाच् निपातः प्रगृह्यसंज्ञको भवति इति
सूत्रार्थः फलति। तदुक्तं दीक्षितेन सिद्धान्तकौमुद्यां – ‘एकोऽज्निपात आङ्वर्जः प्रगृह्यः स्यात्’ इति।
उदाहरणम् – आ
(वाक्ये स्मरणे च), इ (विस्मये), उ (वितर्के) इत्यादयः चादयः सन्ति। तेन ’चादयोऽसत्त्वे’ इति
सूत्रेण निपातसंज्ञकाः सन्ति। एते एकाचः च। अतः एषां प्रकृतसूत्रेण प्रगृह्यसंज्ञा
भवति। ततश्च इ इन्द्रः, उ उमेशः इत्यादौ सन्धिर्न भवति।
व्याख्या –
चादिगणे ‘आ’ इति, ‘आङ्’ इति च उभयोः पाठात् उभौ अपि निपातौ। तथापि
प्रस्तुतसूत्रे अनाङ् इति प्रतिषेधात् आङ्-स्थले प्रगृह्यसंज्ञा न भवति। आ-स्थले
तु भवत्येव। अतः आ एवं नु मन्यसे, आ एवं किल तत् इत्यादौ न सन्धिः। ङितः
प्रगृह्यत्वाभावात् भवत्येव सन्धिः। यथा – ईषदुष्णम् ओष्णम् इति। आ उष्णम् इत्यत्र
आकारस्य ङित्त्वात् प्रगृह्यत्वाभावे ‘आद्गुणः’ इति गुणः। ननु प्रयोगदशायां ङकारस्य अश्रवणात् कथं विवेकः –
ईषदर्थे क्रियायोगे
मर्यादाभिविधौ च यः।
एतमातं ङितं विद्याद्
वाक्यस्मरणयोरङित्॥ इति।
एकोऽच् यस्मिन् स एकाच्
इति बहुव्रीहिस्तु न। अन्यथा प्रेदम् इत्यादौ अपि प्रगृह्यत्वं स्यात् इति शम्॥
No comments:
Post a Comment