वान्तो यि प्रत्यये
भूमिका– वैयाकरणमूर्धन्येन
भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धिप्रकरणे सूत्रमिदं
वर्तते। षट्प्रकारकेषु सूत्रेषु इदं विधिसूत्रम्।
सूत्रार्थः–
सूत्रेऽस्मिन् पदत्रयं विद्यते। वान्तः यि प्रत्यये इति सूत्रगतपदच्छेदः। वः
(वकारः) अन्ते यस्य सः वान्तः इति बहुव्रीहिसमासनिष्पन्नं प्रथमैकवचनान्तं विधेयं
पदम्। यि प्रत्यये इति पदद्वयं सप्तम्यन्तं वर्तते। तयोः यि इति अल्बोधकम् अस्ति।
अतः ‘यस्मिन् विधिः तदादौ अल्ग्रहणे’ इति परिभाषया तदादिविधिः भवति। तेन अर्थो लभ्यते यकारादौ प्रत्यये परे
इति। वान्तः इत्यनेन ‘एचोऽयवायावः’ इति
सूत्रोपात्तः अवादेशः आवादेशश्च विवक्षितः। तौ च कयोर्भवत इत्याकाङ्क्षायाम्
औदोतोरित्यर्थात् लभ्यते। तदुक्तं दीक्षितेन – ‘यकारादौ
प्रत्यये परे ओदौतोरव् आव् एतौ स्तः’ इति।
उदाहरणम्–
गव्यम्, नाव्यम् इति। गोर्विकारः इति विग्रहे ‘गोपयसोर्यत्’ इति सूत्रेण गोशब्दात् यत्प्रत्यये गो
+ य इति स्थितिः भवति। ततः गकारात् परं यः ओकारः अस्ति यकारादिप्रत्ययात्
अव्यवहितपूर्वः अस्ति। अतः प्रकृतसूत्रेण अवादेशे प्रक्रियया गव्यम् इति रूपं
सिद्ध्यति। एवं नावा तायम् इति विग्रहे ‘नौवयोधर्म...’ इत्यादिसूत्रेण यत्प्रत्यये नौ+य इति स्थिते आवादेशे नाव्यम् इति रूपं
सिद्ध्यति।
व्याख्या– सूत्रेऽस्मिन् ‘गोर्यूतौ छन्दस्युपसंख्यानम्’,
‘अध्वपरिमाणे च’ इति वार्तिकद्वयं पठितम्। ततः गव्यूतिः इति
रूपसिद्धिर्भवति। ‘ऊतियूति...’ इत्यादिना यूतिशब्दो निपातितः। सिद्धप्रक्रियस्य निर्देशो
निपातनम्। वान्तः इत्यत्र वकारात् ‘गोर्यूतौ...’ इत्यत्र छकाराद्वा पूर्वभागे ‘लोपो व्योर्वलि’ इति लोपेन वकारः प्रश्लिष्यते। तेन श्रूयमाणवकारान्त आदेशः
स्यात्। वकारो न लुप्यते इति तत्त्वम् इति शम्।
No comments:
Post a Comment