वरदराजाचार्यप्रणीता
लघुसिद्धान्तकौमुदी
नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहम्।
पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्॥
अइउण्॥१॥ ऋऌक्॥२॥ एओङ्॥३॥ ऐऔच्॥४॥ हयवरट्॥५॥ लण्॥६॥ ञमङणनम्॥७॥ झभञ्॥८॥ घढधष्॥९॥ जबगडदश्॥१०॥ खफछठथचटतव्॥११॥ कपय्॥१२॥ शषसर्॥१३॥ हल्॥१४॥
इति माहेश्वराणि सूत्राण्यणादिसंज्ञार्थानि। एषामन्त्याः इतः। हकारादिष्वकार उच्चारणार्थः। लण्मध्ये त्वित्संज्ञकः।
१. हलन्त्यम् (१.३.३)॥ उपदेशेऽन्त्यं हलित्स्यात्। उपदेश आद्योच्चारणम्। सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र॥
२. अदर्शनं लोपः (१.१.६०)॥ प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्॥
३. तस्य लोपः (१.३.९)॥ तस्येतो लोपः स्यात्। णादयोऽणाद्यर्थाः॥
४. आदिरन्त्येन सहेता (१.१.७१)॥ अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात्। यथाऽणिति अ इ उ वर्णानां संज्ञा। एवमच् हल् अलित्यादयः॥
५. ऊकालोऽज्झ्रस्वदीर्घप्लुतः (१.२.२७)॥ उश्च ऊश्च उ३श्च वः; वां काल इव कालो यस्य सोऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात्। स प्रत्येकमुदात्तादि भेदेन त्रिधा॥
६. उच्चैरुदात्तः (१.२.२९)॥
७. नीचैरनुदात्तः (१.२.३०)॥
८. समाहारः स्वरितः (१.२.३१)॥ स नवविधोऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा॥
९. मुखनासिकावचनोऽनुनासिकः (१.१.८)॥ मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात्। तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः। ऌवर्णस्य द्वादश तस्य दीर्घाभावात्। एचामपि द्वादश तेषां ह्रस्वाभावात्॥
१०. तुल्यास्यप्रयत्नं सवर्णम् (१.१.९)॥ ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात्। ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम् (वा.)। अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। ऋटुरषाणां मूर्धा। ऌतुलसानां दन्ताः। उपूपध्मानीयानामोष्ठौ। ञमङणनानां नासिका च। एदैतोः कण्ठतालु। ओदौतोः कण्ठोष्ठम्। वकारस्य दन्तोष्ठम्। जिह्वामूलीयस्य जिह्वामूलम्। नासिकाऽनुस्वारस्य। यत्नो द्विधा - आभ्यन्तरो बाह्यश्च। आद्यः पञ्चधा - स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृतभेदात्। तत्र स्पृष्टं प्रयतनं स्पर्शानाम्। ईषत्स्पृष्टमन्तःस्थानाम्। ईषद्विवृतमूष्मणाम्। विवृतं स्वराणाम्। ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्। प्रक्रियादशायां तु विवृतमेव। बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति। खरो विवाराः श्वासा अघोषाश्च। हशः संवारा नादा घोषाश्च। वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः। वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः। कादयो मावसानाः स्पर्शाः। यणोऽन्तःस्थाः। शल ऊष्माणः। अचः स्वराः। ≍क≍ख इति कखाभ्यां प्रागर्धविसर्गसदृशो जिह्वामूलीयः। ≍प≍फ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः। अं अः इत्यचः परावनुस्वारविसर्गौ॥
११. अणुदित् सवर्णस्य चाप्रत्ययः (१.१.६९)॥ प्रतीयते विधीयत इति प्रत्ययः। अविधीयमानोऽणुदिच्च सवर्णस्य संज्ञा स्यात्। अत्रैवाण् परेण णकारेण। कु चु टु तु पु एते उदितः। तदेवम् - अ इत्यष्टादशानां संज्ञा। तथेकारोकारौ। ऋकारस्त्रिंशतः। एवं ऌकारोऽपि। एचो द्वादशानाम्। अनुनासिकाननुनासिकभेदेन यवला द्विधा; तेनाननुनासिकास्ते द्वयोर्द्वयोस्संज्ञा॥
१२. परः सन्निकर्षः संहिता (१.४.१०९)॥ वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात्॥
१३. हलोऽनन्तराः संयोगः (१.१.७)॥ अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः॥
१४. सुप्तिङन्तं पदम् (१.४.१४)॥ सुबन्तं तिङन्तं च पदसंज्ञं स्यात्॥
॥इति लघुसिद्धान्तकौमुद्यां संज्ञाप्रकरणम्॥
No comments:
Post a Comment