आद्गुणः
भूमिका– वैयाकरणचूडामणिना भट्टोजिदीक्षितेन विरचिताया
वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धिप्रकरणे सूत्रमिदं पठितम्। षट्प्रकारेषु
सूत्रेषु इदं विधिसूत्रम्। अनेन सूत्रेण गुणो विधीयते।
सूत्रार्थः– अस्मिन् सूत्रे पदद्वयं विद्यते। आद् इति
पञ्चम्येकवचनान्तं पदम्। गुणः इति प्रथमान्तं विधेयं पदम्। अचि इति
सप्तम्येकवचनान्तं पदम् ‘इको
यणचि’ इति सूत्रात् अनुवर्तते। ‘एकः
पूर्वपरयोः’ इति अधिकारः। पूर्वस्य परस्य च स्थाने एक एव
आदेश इति तस्य अर्थः। ‘संहितायाम्’ इति
अधिकृतम्। एवञ्च संहितायाम् अवर्णात् अचि परे पूर्वपरयोः अर्थात् अवर्णस्य अचः च
स्थाने एको गुणः अर्थात् अ, ए, ओ इत्येतेषु एको भवति इति सूत्रार्थो लभ्यते।
तदुक्तं दीक्षितेन – ‘अवर्णाद् अचि परे पूर्वपरयोरेको गुण
आदेशः स्यात् संहितायाम्’ इति।
उदाहरणम्– सूत्रस्यास्य उदाहरणानि तावत् – उपेन्द्रः, गङ्गोदकम्,
कृष्णर्द्धिः, तवल्कारः इत्यादीनि।
सूत्रार्थसमन्वयः– उप+इन्द्रः इत्यत्र अकारात् परम् इकारो विद्यते इत्यतः
प्रस्तुतसूत्रेण गुणः अर्थात् अ, ए, ओ इत्येतेषु एकः आदेशः स्यात्। अधुना प्रश्नः
कतमः स्यादिति, तत्र उच्यते यत् पूर्वपरयोः अकार-इकारयोः कण्ठतालुस्थानकयोः स्थाने
स्थानसाम्यात् ‘स्थानेऽन्तरतमः’ इति परिभाषासहायेन कण्ठतालुस्थानकः एकारः आदेशो भवति। ततश्च एकारादेशे
उपेन्द्रः इति रूपं सिद्ध्यति। अत्र सूत्रे ‘आद्’ इत्यत्र अवर्णात् इति अर्थः न तु ह्रस्वात् अकारात् इति अर्थः। अन्यथा
ह्रस्वाद् अकारात् अचि परे एव गुणः स्यात्। अवर्णस्य ग्रहणात् दीर्घादेः अपि गुणः
सम्भवति। ततः रमा+ईश इत्यत्रापि गुणः सिद्ध्यति। तेन रमेशः
इत्यादिरूपसिद्धिर्भवति। एवं गङ्गोदकम् इत्यादौ अपि बोद्ध्यम्। कृष्णर्द्धिः,
तवल्कारः इत्यादौ तु ‘उरण् रपरः’ इति
सूत्रेण रपरत्वं लपरत्वं च भवति इति धेयम्।
No comments:
Post a Comment