यत्रानेकविधमान्तर्यं तत्र स्थानत आन्तर्यं बलीयः
शाब्दिककेसरिणा
भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरणे ‘स्थानेऽन्तरतमः’ इति सूत्रस्य व्याख्यानावसरे इयं परिभाषा दीक्षितेन उपन्यस्ता।
एकस्य
स्थानिनः अनेकादेशप्रसङ्गे सति अनियमः प्रसज्यते, तत्र ‘स्थानेऽन्तरतमः’ इति परिभाषा नियमयति यत् स्थान-अर्थ-गुण-प्रमाणतः
स्थानिना सदृशतमः आदेश एव भवतीति। स्थानशब्देन उच्चारणस्थानं बोध्यते। अभिधेयवचनः
अर्थशब्दः। गुणशब्देन बाह्यप्रयत्नो गृह्यते। प्रमाणशब्देन
एकद्विमात्रादिपरिमाणम्। यद्यपि, क्रोष्टा, वाग्घरिः, अमुम् इति क्रमशः उदाहरणानि।
तत्र चेता इत्यत्र चिधातोः तृच्प्रत्यये चि+तृ इति स्थिते ‘सार्वधातुकार्धधातुकयोः’ इति सूत्रेण इकारस्य
स्थाने गुणो विहितः। गुणो नाम अदेङ् अर्थात् अ ए ओ इति त्रयो वर्णाः। तत्र
तालुस्थानसाम्यात् एकारः प्राप्नोति, मात्रापरिमाणरूपप्रमाणसाम्यात्अकारः
प्राप्नोति इति पुनः अनियमः। अतः तत्र नियमार्थं ज्ञापकसिद्धा परिभाषा अवतारिता
दीक्षितेन –‘यत्रानेकविधमान्तर्यं
तत्र स्थानत आन्तर्यं बलीयः’ इति।
एवञ्च स्थानत आन्तर्यस्य बलीयस्त्वात् इकारस्य स्थाने
एकारो भवति न तु अकारः। ततः एकारे चेतृ इति जाते पितृशब्दवत् प्रथमैकवचने चेता इति
रूपं सिद्ध्यति। ननु इकारस्य उच्चारणस्थानं तालु, परन्तु एकारस्य तु कण्ठतालु इति
कथं स्थानसाम्यम् इति चेत् कथञ्चित् स्थानसाम्यस्यैव आन्तरतम्यपरीक्षायां
प्रयोजकत्वात् न दोषः।
तत्र‘षष्ठी स्थानेयोगा’ इति सूत्रात् स्थानेशब्दस्य अनुवृत्त्या एव सिद्धे‘स्थानेऽन्तरतमः’ इति सूत्रे पुनः
स्थानेग्रहणमेव अत्र मानम्। तथाहि – अन्तरतमः इति एकं सूत्रम्, स्थाने इति अपरम्।
तत्र अन्तरतमः इति सूत्रे ‘षष्ठी स्थानेयोगा’ इति सूत्रात् स्थाने इति पदमनुवर्तते, ततः प्रसङ्गे सति सदृशतमः आदेशो
भवति इति अर्थो लभ्यते। ततः स्थाने इति सूत्रे अन्तरतमः इति पदम्, पुनः‘षष्ठी स्थानेयोगा’ इति सूत्रात्
शब्दाधिकारमहिम्ना उच्चारणस्थानपरः स्थानशब्दः तृतीयान्ततया अनुवर्तते। ततः स्थाने
= प्रसङ्गे सति
स्थानेन = उच्चारणस्थानेन
सदृशतमः आदेशः भवति इति अर्थो लभ्यते। तत्र प्रथमवाक्येन एव सिद्धे पुनर्विधानं
स्थानतः आन्तर्यस्य बलीयस्त्वं बोधयति इति सिद्धा परिभाषा इति शम्॥
No comments:
Post a Comment