अनेनेह यकारस्य स्थानिवद्भावेनाच्त्वमाश्रित्य ‘अनचि’ इति द्वित्वनिषेधो न शङ्क्यः, ‘अनल्विधौ’ इति तन्निषेधात्
भट्टोजिदीक्षितेन
विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धिप्रकरणे ‘स्थानिवदादेशोऽनल्विधौ’ इति सूत्रव्याख्यानावसरे पङ्क्तिरियं दीक्षितेन उपन्यस्ता।
सुधी+उपास्य इत्यत्र ‘इको यणचि’ इति
सूत्रेण यणादेशे सुध्य् उपास्य इति जाते ‘अनचि च’ इति सूत्रेण धकारस्य द्वित्वं
भवति। अचः परस्य यरो हि द्वित्वं भवति, अच् परतः नास्ति चेत्। अत्र उकारात् परं
धकारः तस्मात् परं यकारः वर्तते, यकारः च न अच् अतः द्वित्वं ततः सुध् ध् य्
उपास्य इति जायते। अत्र पूर्वपक्षी आक्षिपति यत् यकारः ईकारस्य स्थाने भवति इत्यतः
ईकारः स्थानी, यकारश्च आदेशः। यस्य स्थाने अन्यद् विधीयते तत् स्थानि। येन
विधीयमानेन अन्यत् प्रसक्तं निवर्तते स आदेशः। अत्र ईकारस्य स्थाने यकारो विधीयते
इत्यतः ईकारः स्थानी। विधीयमानेन यकारेण ईकारो निवर्तते इति यकारः आदेशः। आदेशश्च
स्थानितुल्यो भवति ‘स्थानिवदादेशोऽनल्विधौ’ इति सूत्रेण। स्थानिना तुल्यः
स्थानिवत्। आदेशः स्थानिना तुल्यो भवति, स्थानिधर्मको भवति इति भावः। अतः ईकारे
यत् अच्त्वं वर्तते तद् यकारे अपि अस्ति। अतः यकारः अपि अच्। ततश्च अच् परतः अस्ति
इति कृत्वा द्वित्वं न स्यात्। एवञ्च सुध् ध् य् उपास्य इति न सिद्ध्येत्।
तदा सिद्धान्ती कथयति यत् ‘स्थानिवदादेशोऽनल्विधौ’ इत्यत्र अनल्विधौ इति अस्ति इत्यतः न दोषः। तथाहि – अलाश्रयो विधिः अल्विधिः,
न अल्विधिः – अनल्विधिः, तस्मिन् अनल्विधौ। ततश्च सूत्रार्थो भवति आदेशः स्थानिवद्
भवति अनल्विधौ। एवञ्च अलाश्रये कार्ये कर्तव्ये आदेशः स्थानिवत् न भवति। अल् इति
वर्णपर्यायः। अत्र च यकारादेशस्य स्थानिभूतो यः अल् ईकारः तद्गतम् अच्त्वम्
आश्रित्य निषेधः प्रवर्तते इत्यतः इदम् अलाश्रयं कार्यम्। ततश्च आदेशः स्थानिवत् न
स्यात्। तेन यकारे अच्त्वं न स्यात्। ततश्च परतः अचः अभावात् यकारस्य हल्त्वात्
द्वित्वं सिद्ध्यति इति शम्।
No comments:
Post a Comment