A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Sunday, May 17, 2020

वैयाकरणसिद्धान्तकौमुदी | अच्सन्धिप्रकरणम् | अकः सवर्णे दीर्घः | पङ्क्तिव्याख्या | Sanskrit Kutir | Srimanta Bhadra


अचि किम्। कुमारी शेते। नाज्झलौ इति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः, ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः

भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धिप्रकरणे अकः सवर्णे दीर्घः इति सूत्रव्याख्यानावसरे पङ्क्तिरियं दीक्षितेन उपन्यस्ता।अकः सवर्णे दीर्घः इति सूत्रेइको यणचि इति सूत्रात् अचि इति पदमनुवर्तते। ततः अकः सवर्णे अचि परे दीर्घः भवति इति सूत्रार्थः फलति।
तत्र पूर्वपक्षी आक्षिपति यत् अचीति अनुवृत्तिर्मास्तु इति। तुल्यस्थानप्रयत्नयोरेव सावर्ण्यं भवति इत्यतः दोषो न स्यात्। स्वरव्यञ्जनयोः तुल्यस्थानप्रयत्नत्वेऽपि नाज्झलौ इति निषेधात् सावर्ण्याभावः स्यात् ततश्च स्वरसवर्णे एव दीर्घः स्यात् न तु व्यञ्जनसवर्णे परे इति। एवञ्चअचि इति अनुवृत्तिः सर्वथा व्यर्था इति पूर्वपक्षिणः।
अचि इति अनुवृत्तिः न क्रियते चेत् कुमारी शेते इत्यत्रापि सवर्णदीर्घापत्तिः स्यात्। ननु ईकारशकारयोः स्थानप्रयत्नसाम्येऽपि न सावर्ण्यम्, नाज्झलौ इति निषेधात् इति कुमारी शेते इत्यत्र अकः सवर्णे दीर्घः इत्यस्याप्रसक्तेः अचीत्यनुवृत्तिर्व्यर्थेति चेन्न। तत्समाहितं दीक्षितेन - नाज्झलौ इति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः, ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेःइति। नाज्झलौ इति सावर्ण्यनिषेधो वार्णसमाम्नायिकानामेव, न तु दीर्घप्लुतानाम् अपि, आदिरन्त्येन सहेता इत्यनेन हि वार्णसमाम्नायिका एव अच्शब्दवाच्याः इति बोध्यते। अत ईकारशकारयोः सावर्ण्यनिषेधाभावात् अस्ति अतिप्रसङ्गः इति तद्वारणाय अचीति अनुवृत्तिरपेक्षिता। ननु वार्णसमाम्नायिकानामेव अच्शब्दवाच्यत्वेऽपि अणुदित्सूत्रबलात् अच्शब्दोपस्थितैः अकारादिभिः ह्रस्वदीर्घप्लुतानामपि ग्रहणं सम्भवति। अत ईकारशकारयोर्न सावर्ण्यप्रसक्तिरिति चेन्न।अणुदित्सवर्णस्य इति ग्रहणकसूत्रं हि लब्धात्मकं सदेव अस्य च्वौ इत्यादौ प्रवर्तते।नाज्झलौ इति प्रवृत्तिदशायाम् शास्त्रमिदं न लब्धात्मकम्। अणुदित्सूत्रज्ञानाय हि सवर्णपदार्थज्ञानमपेक्षते। सवर्णबोधकंतुल्यास्यप्रयत्नं सवर्णम् इति सूत्रं सामान्यतः स्वार्थं बोधयदपि नाज्झलौ इति अपवादविषयं परिहृत्यैव स्वकार्यक्षमतां लभते। तदुक्तं–प्रकल्प्यापवादविषयम् उत्सर्गोऽभिनिविशते इति। एवञ्च सवर्णबोधकसूत्रज्ञानायनाज्झलौ इति सूत्रमपेक्षते, अणुदित्... इति सूत्रज्ञानाय सवर्णबोधकं शास्त्रमपेक्षते इति नाज्झलौ इति सूत्रज्ञानवेलायाम् अणुदित्सूत्रमलब्धात्मकम्। अतः अज्ग्रहणेन दीर्घप्लुतानां ग्रहणाभावेन ईकारशकारयोः सावर्ण्यनिषेधाभावेन कुमारी शेते इत्यत्र अस्ति दीर्घप्राप्तिः, तद्वारणाय अचि इति अनुवृत्तिराश्रयणीया इति शम्॥

No comments:

Post a Comment