वृद्धिरेचि
भूमिका– वैयाकरणचूडामणिना भट्टोजिदीक्षितेन विरचिताया
वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धिप्रकरणे सूत्रमिदं पठितम्। षट्प्रकारेषु
सूत्रेषु इदं विधिसूत्रम्। अनेन सूत्रेण वृद्धिः विधीयते।
सूत्रार्थः– अस्मिन् सूत्रे पदद्वयं विद्यते। वृद्धिः एचि इति
पदच्छेदः। वृद्धिः इति प्रथमान्तं विधेयं पदम्। एचि इति सप्तम्येकवचनान्तं पदम्। ‘आद्गुणः’ इति सूत्रात्
आद् इति पञ्चम्येकवचनान्तं पदम् अनुवर्तते। ‘एकः पूर्वपरयोः’ इति अधिकृतम्। अवर्णाद् एचि परे पूर्वपरयोः अर्थात् अवर्णस्य एचः च
स्थाने वृद्धिः अर्थात् आ, ऐ, औ इत्येतेषु एकः आदेशः भवति इति सूत्रार्थः फलति।
तदुक्तं दीक्षितेन – ‘आदेचि परे वृद्धिरेकादेशः स्यात्’ इति।
उदाहरणम्– सूत्रस्यास्य उदाहरणानि हि – कृष्णैकत्वम्, गङ्गौघः,
देवैश्वर्यम्, कृष्णौत्कण्ठ्यम् इति।
सूत्रार्थसमन्वयः– कृष्णस्य एकत्वम् इति लौकिकविग्रहे समासे विभक्तिलोपे
कृष्ण+एकत्व इति स्थिते अवर्णात् परम् एचः एकारस्य सत्त्वात् प्रस्तुतसूत्रेण
वृद्धिः अर्थात् आ, ऐ, औ इत्येतेषु एकः आदिश्यते। तत्र च ‘स्थानेऽन्तरतमः’ इति
परिभाषासहायेन स्थानसाम्यात् पूर्वपरयोः अकार-एकारयोः स्थाने कण्ठतालुस्थानके
ऐकारे कृते कृष्णैकत्व इति जाते सुविभक्तौ प्रक्रियया कृष्णैकत्वम् इति रूपं भवति।
‘आद्’ इत्यनेन अवर्णस्य ग्रहणात्
गङ्गा+ओघ इत्यत्रापि वृद्धिः भवति। ततः गङ्गौघः इति रूपं सिद्ध्यति। एवम्
देवैश्वर्यम् इत्यादौ अपि सिद्धिप्रक्रिया बोद्ध्या।
सूत्रमिदम् ‘आद्गुणः’ इति सूत्रस्य
अपवादभूतम्। निरवकाशो विधिः हि अपवादः। अवर्णाद् अचि परे गुणः भवति इति उक्तम्
इत्यतः एचि परे वृद्धिः इत्यस्य अवकाशः एव नास्ति। अतः ‘वृद्धिरेचि’ इति निरवकाशो विधिः। ततश्च अपवादः। अपवादभूतत्वात् ‘वृद्धिरेचि’ इति ‘आद्गुणः’ इति सूत्रं बाधते। ततश्च एचं विहाय अन्यत्र गुणः, एचि तु वृद्धिरेव इति
लभ्यते इति शम्॥
No comments:
Post a Comment