एत्येधत्यूठ्सु
भूमिका– वैयाकरणचूडामणिना भट्टोजिदीक्षितेन विरचिताया
वैयाकरणसिद्धान्तकौमुद्याः अच्सन्धिप्रकरणे सूत्रमिदं पठितम्। षट्प्रकारेषु
सूत्रेषु इदं विधिसूत्रम्। अनेन सूत्रेण वृद्धिः विधीयते।
सूत्रार्थः– अस्मिन् सूत्रे एत्येधत्यूठ्सु इति एकमेव पदं विद्यते।
तच्च सप्तमीबहुवचनान्तम्। एतिः च एधतिः च ऊठ् च इति एत्येधत्यूठः इति
इतरेतरयोगद्वन्द्वः। तेषु एत्येधत्यूठ्सु इति। धातुनिर्देशाय इक् श्तिप् वा
व्यवह्रियते। अत्र इण् गतौ, एध वृद्धौ इति धातू स्तः। तयोः श्तिप्-प्रत्यययोगेन
एतिः एधतिः इति शब्दौ निष्पद्येते। आद्गुणः इत्यस्मात् आद् इति, वृद्धिरेचि
इत्यस्मात् वृद्धिः, एचि इति पदद्वयम् अनुवर्तते। एकः पूर्वपरयोः इति अधिकृतम्।
एवञ्च आद् एचि एत्येधत्यूठ्सु वृद्धिः एकः पूर्वपरयोः इति अर्थो लभ्यते।
एत्येधत्यूठ्सु इत्यस्य विशेषणम् अस्ति एचि इत्यतः तदादिविधिः। ततश्च एजादिः
(एच्+आदि) अर्थात् यस्य आदिः वर्णः एच्प्रत्याहारस्थः तादृशः एतिः एधतिः इति
लभ्यते। एजादिः ऊठ् तु न, यतोहि ऊठ् कदापि एजादिः न भवति। ततश्च सूत्रार्थो भवति –
अवर्णाद् एजाद्योः एत्येधत्योः ऊठि च परे पूर्वपरयोः स्थाने वृद्धिः एकादेशो भवति।
तदुक्तं दीक्षितेन – ‘अवर्णाद्
एजाद्योः एत्येधत्योः ऊठि च परे वृद्धिरेकादेशः स्यात्’ इति।
उदाहरणम्– उपैति, उपैधते, प्रष्ठौहः इति सूत्रस्यास्य क्रमशः
उदाहरणानि।
सूत्रार्थसमन्वयः– इण्-धातोः प्रथमपुरुषे एकवचने रूपम् एति इति। उप+एति इति
अत्र अवर्णात् परम् एकारादिः इण्-धातुः अस्ति इत्यतः प्रस्तुतसूत्रेण अकार-एकारयोः
स्थाने वृद्धौ ‘स्थानेऽन्तरतमः’ इति परिभाषासहायेन स्थानसाम्यात् कण्ठतालुस्थानके अन्तरतमे ऐकारे उपैति
इति रूपं सिद्ध्यति। एवम् उपैधते, इत्यादौ अपि ऊह्यम्।
उप+एति इत्यत्र ‘वृद्धिरेचि’ इति
सूत्रेणैव वृद्धिसम्भवे एतत्सूत्रं किमर्थम् इति प्रश्नः स्यात्। तत्र उच्यते यत् अवर्णान्ताद्
उपसर्गाद् एङादौ धातौ परे पररूपम् इत्यर्थकम् ‘एङि पररूपम्’ इति सूत्रम् अग्रे अस्ति। अतः उप+एति इत्यत्र पररूपं स्यात्। तद्
प्रबाध्य वृद्धिं विधातुम् प्रस्तुतसूत्रं भगवता पाणिनिना प्रणीतम् इति बोद्ध्यम्।
अतः सूत्रमिदं पररूपापवादभूतम् इति आयातम् इति शम्॥
No comments:
Post a Comment