आदिरन्त्येन सहेता
भूमिका– शाब्दिकचूडामणिना भट्टोजिदीक्षितेन विरचिताया
वैयाकरणसिद्धान्तकौमुद्याः संज्ञाप्रकरणे इदं सूत्रं विलसति।
संज्ञा
च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च
षड्विधं सूत्रलक्षणम्॥ इति षट्प्रकारकेषु सूत्रेषु इदं संज्ञासूत्रम्।
सूत्रार्थः–
सूत्रेऽस्मिन् पदचतुष्टयं विराजते। तथाहि आदिः
अन्त्येन सह इता इति पदच्छेदः। आदिः इति प्रथमैकवचनान्तं पदम्। अन्त्येन, इता इति पदद्वयं तृतीयैकवचनान्तम्।
सह इत्यव्ययपदम्। अन्त्येन इता सह आदिः इति सूत्रान्वयः। अन्त्येन इता सहित आदिः
अत्र संज्ञा भवति। तत्र यस्मात् पूर्वं नास्ति परमस्ति स आदिः। यस्मात् परं नास्ति
पूर्वं चास्ति स अन्तः। अन्ते भव अन्त्यः अन्तिम इत्यर्थः। अत्र आद्यन्तशब्दाभ्यां
मध्यगाः आक्षिप्यन्ते। एतेषां मध्यगानाम् अत्र संज्ञित्वम्। किञ्च ‘स्वं रूपं शब्दस्याशब्दसंज्ञा’ इति पूर्वसूत्रात् स्वमिति पदमनुवर्तते। तस्य च अत्र सूत्रे स्वस्य
इत्यर्थः। तस्यापि संज्ञित्वम्। स्वपदेन
आदिः बोध्यते। अतः अन्त्येन इता सहित आदिः मध्यगानां स्वस्य च संज्ञा भवति
इत्यर्थो लभ्यते। तदुक्तं भट्टोजिदीक्षितेन सूत्रवृत्तौ– ‘अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात्’
इति।
उदाहरणम्– अइउण् इत्यत्र णकारः अन्त्यः
इद्वर्णः, तेन युक्तः आदिः अकारः। ततश्च अण् इति संज्ञा सिद्ध्यति। अस्याः च संज्ञायाः
प्रत्याहारपदेन व्यवहारो भवति। तस्याः संज्ञिनः भवन्ति मध्यगाः वर्णाः आदिश्च। तेन
अण् इति अ इ उ इति वर्णत्रयस्य संज्ञा। एवम् अक्, अच्, हल्, अल् इत्यादिष्वपि बोध्यम्।
व्याख्या– अत्रायमाक्षेपः यत् स्वपदेन कथम् आदेः ग्रहणं भवति
अन्त्यस्य कुतो न? अत्रोच्यते यत् स्वमिति सर्वनामपदम्। सर्वनामपदन्तु प्रधानमेव निर्दिशति न तु
अप्रधानम्, सर्वानाम्नां
प्रधानपरामर्शकत्वात्। अन्त्येनेता इत्यत्र आदिः एव प्रधानं न तु अन्त्यः, यतो हि अन्त्येन इति ‘सहयुक्तेऽप्रधाने’ इत्यनेन सूत्रेण
अप्रधाने तृतीया। तस्मात् स्वपदेन आदेरेव ग्रहणं भवति। आदित्वम् अन्त्यत्वं च
बुद्धिपरिकल्पितसमुदायापेक्षं, न तु सूत्रापेक्षम्। अत एव इच्प्रत्याहारः
रप्रत्याहारः इत्यादिसिद्धिः इति शिवम्।
No comments:
Post a Comment