नीतिशतकस्य लघुप्रश्नाः
१. किं नाम शतककाव्यम्? उदाहरणम् एकं दीयताम्?
शतसंख्यकानां
श्लोकानां समन्वयेन रचितं मुक्तकजातीयं काव्यं शतककाव्यम्। अमरुकस्य अमरुशतकम्।
२. भर्तृहरिणा कति शतककाव्यानि रचितानि? कानि च तानि?
भर्तृहरिणा
त्रीणि शतककाव्यानि रचितानि। तानि हि– नीतिशतकं, शृङ्गारशतकं, वैराग्यशतकञ्चेति।
३. नीतिशतकस्य मङ्गलश्लोकं लिखत।
दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये।
स्वानुभूत्येकमानाय
नमः शान्ताय तेजसे॥
४. कदा सर्वज्ञोऽस्मीति भाव उत्पद्यते, कदा च मूर्खोऽस्मीति?
यदा मनुष्यः
किञ्चिज्ज्ञः भवति तदा मदमत्तः गज इव भवति, तदानीं सर्वज्ञोऽस्मीति भाव उत्पद्यते।
यदा च बुधजनसकाशात् किञ्चित् किञ्चित् अवगच्छति तदा मूर्खोऽस्मीति भावः सञ्जायते।
५. कस्य शास्त्रविहितम् औषधम् अस्ति, कस्य च नास्ति?
जलेन वह्निः
वारयितुं शक्यः, छत्रेण सूर्यातपः, तीक्ष्णेन अङ्कुशेन मदमत्तः गजः, दण्डेन
गोगर्दभौ, भेषजसंग्रहैः व्याधिः, मन्त्रप्रयोगैः विषम् इति सर्वस्य शास्त्रविहितम्
औषधम् अस्ति, मूर्खस्य नास्ति औषधम्।
६. किं पुरुषं न अलङ्करोति, किं च अलङ्करोति?
केयुराः,
चन्द्रोज्ज्वला हाराः, स्नानं, विलेपनं, कुसुमम्, अलङ्कृता मूर्धजाः न पुरुषम्
अलङ्कुर्वन्ति, एका वाणी या संस्कृता धार्यते सा पुरुषं सततं समलङ्करोति।
७. विद्याधनपार्थिवधनयोः किं पार्थक्यम्?
पार्थिवधनं चोरेण
हर्तुं शक्यते, विद्याधनं तु नेत्रविषयमेव न भवति। पार्थिवधनं मानं वर्धयित्वा
अमङ्गलकारणं भवति, सद्विद्याधनं तु अहङ्कारं निराकृत्य मङ्गलकारणं भवति।
पार्थिवधनं दीयते चेत् क्षीयते, विद्याधनं तु वर्धते। कल्पान्ते पार्थिवधनं नष्टं
भवति, विद्याधनं तु तथैव तिष्ठति। पार्थिवधनं बाह्यवस्तु, विद्या तु अन्तर्धनम्
इति बोद्ध्यम्।
८. के भुवि भारभूता मर्त्यलोके मनुष्यरूपेण मृगाः चरन्ति?
येषां विद्या न,
तपः न, दानं न, ज्ञानं न, शीलं न, गुणः न, धर्मः न सन्ति, ते मृगाः भुवि भारभूता
मर्त्यलोके मनुष्यरूपेण चरन्ति।
९. सुरेन्द्रभवने मूर्खजनसम्पर्कापेक्षया किं वरम्?
सुरेन्द्रभवने
मूर्खजनसम्पर्कापेक्षया पर्वतदुर्गेषु वनेचरैः सह भ्रान्तं वरम्।
१०. पशूनां परमं भागधेयं किम्?
साहित्यसङ्गीतकलाविहीनः
पुच्छविषाणहीनः साक्षात्पशुः तृणं न खादन् अपि जीवमानः इति यत् तत् पशूनां परमं
भागधेयम्।
No comments:
Post a Comment