अणुदित्सवर्णस्य चाप्रत्ययः
भूमिका– शाब्दिकचूडामणिना भट्टोजिदीक्षितेन विरचिताया
वैयाकरणसिद्धान्तकौमुद्याः संज्ञाप्रकरणे इदं सूत्रं विलसति।
संज्ञा
च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च
षड्विधं सूत्रलक्षणम्॥ इति षट्प्रकारकेषु सूत्रेषु इदं संज्ञासूत्रम्।
सूत्रार्थः– सूत्रेऽस्मिन् पञ्च पदानि सन्ति। अण् उदित् सवर्णस्य च अप्रत्ययः इति सूत्रगतपदच्छेदः।
अस्मिन् सूत्रे विद्यमानस्य अण् इति प्रत्याहारस्य णकारः लण् इति सूत्रस्थः, न तु अइउण् इति सूत्रस्थः। उत् (ह्रस्वः उकारः) इत् यस्य स
उदित्– कुँ चुँ टुँ तुँ पुँ इति। सूत्रस्थेन चकारेण ‘स्वं रूपं शब्दस्याशब्दसंज्ञा’ इति
सूत्रात् स्वम् इति अनुवर्तते। तस्य च षष्ठ्यन्ततया विपरिणामेन स्वस्य इति
गृह्यते। न प्रत्ययः अप्रत्ययः इति नञ्तत्पुरुषसमासः। अप्रत्ययः इत्यस्य अविधीयमानः
इत्यर्थः। तेन सूत्रार्थः भवति अविधीयमानः अण् उदित् च सवर्णस्य बोधकः इति। अत्र
अविधीयमानः इति अण् इत्यस्यैव विशेषणम्, न तु उदित् इत्यस्य।
तेन अविधीयमानः अण् सवर्णस्य बोधकः भवति इति वाक्यम्, उदित्
सवर्णस्य बोधकः भवति इति अपरं वाक्यम्। तदुक्तं भट्टोजिदीक्षितेन– “प्रतीयते विधीयते इति प्रत्ययः। अविधीयमानः अण् उदित् च
सवर्णस्य संज्ञा स्यात्” इति।
सोदाहरणं व्याख्यानम्– दीक्षितेन सूत्रस्यास्य फलम् एवम् उक्तम्– तदेवम् अ
इत्यष्टादशानां संज्ञा। तथेकारोकारौ ऋकारस्त्रिंशतः। एवम् ऌकारोऽपि। एचो
द्वादशानाम् इति।
अस्य सूत्रस्य
उदाहरणं प्रस्तूयते। इको यणचि इति सूत्रेण इकः स्थाने यण् विधीयते। अत्र इक् इति
प्रत्याहारेण इउऋऌवर्णानां ग्रहणं भवति। अत्र सूत्रे इक् अविधीयमानः अस्ति। तेन
इकः इत्येनेन इउऋऌवर्णानां सवर्णानां दीर्घादीनामपि ग्रहणं भवति। तेन यदि+अपि
इत्यत्र ह्रस्वस्य इकारस्य यथा यण् भवति, तेन यद्यपि इति सिद्ध्यति, तथा
सुधी+उपास्य इत्यत्र दीर्घस्य स्थाने यण् भवति, तेन सुध्युपास्यः इति सिद्ध्यति।
अट्कुप्वाङ्नुम्व्यवायेऽपि(अट्-कु-पु-आङ्-नुम्-व्यवाये अपि) इति सूत्रे कु पु इति
एतौ उदितौ। प्रकृतसूत्रेण च कु इत्यनेन सवर्णसंज्ञकानां क्, ख्, ग्, घ्, ङ्
इत्येतेषां ग्रहणं भवति, पु इत्यनेन सवर्णसंज्ञकानां पवर्गीयाणां वर्णानां प्, फ्,
ब्, भ्, म् इत्येतेषां ग्रहणं भवति।
ग्रहणकसूत्रम्
इदम् इति अस्य सूत्रस्य वैशिष्ट्यम्। गृह्णन्ति अकारादयः स्वसवर्णान् येन तद्
ग्रहणकम्। अर्थात् अकारादीनां स्वसवर्णानां ग्रहणम् एतेन सूत्रेणैव भवति।
No comments:
Post a Comment