तुल्यास्यप्रयत्नं सवर्णम्
भूमिका– शाब्दिकचूडामणिना भट्टोजिदीक्षितेन विरचिताया
वैयाकरणसिद्धान्तकौमुद्याः संज्ञाप्रकरणे इदं सूत्रं विलसति।
संज्ञा
च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च
षड्विधं सूत्रलक्षणम्॥ इति षट्प्रकारकेषु सूत्रेषु इदं संज्ञासूत्रम्।
सूत्रार्थः– सूत्रेऽस्मिन् पदद्वयं वर्तते। तत्र आस्यं च प्रयत्नः च इति आस्यप्रयत्नौ इति
द्वन्द्वसमासः, तुल्यौ आस्यप्रयत्नौ यस्य तत् तुल्यास्यप्रयत्नम् इति
द्वन्द्वगर्भबहुव्रीहिसमासनिष्पन्नं प्रथमैकवचनान्तम् संज्ञिपदम्। सवर्णम् इति च
प्रथमान्तं संज्ञापदम्। यद्यपि आस्यशब्दस्य अर्थः सामान्यतया मुखम् अर्थात्
ओष्ठात् प्रभृति प्राक् काकलकात् इति गृह्यते तथापि अस्मिन् सूत्रे तस्य अर्थः
ताल्वादि उच्चारणस्थानम्। प्रकृष्टः यत्नः प्रयत्नः अर्थात् आभ्यन्तरप्रयत्नः। एवञ्च
येषां वर्णानाम् उच्चारणस्थानम् आभ्यन्तरप्रयत्नश्च तुल्यम् अर्थात् समानं ते
परस्परं सवर्णसंज्ञका भवन्ति। तदुक्तं भट्टोजिदीक्षितेन– ‘ताल्वादिस्थानम् आभ्यन्तरप्रयत्नः च इति एतद्द्वयं यस्य येन तुल्यं तन्मिथः
सवर्णसंज्ञं स्याद्’ इति।
उदाहरणम्– यथा इकार-ईकारयोः सावर्ण्यम्। तथाहि ‘इचुयशानां तालु’ इति वचनात् उभयोः इकार-ईकारयोः
उच्चारणस्थानं तालु। ‘विवृतमूष्मणां स्वराणाञ्च’ इति वचनात् उभयोः आभ्यन्तरप्रयत्नः विवृतः। तेन उच्चारणस्थानम्
आभ्यन्तरप्रयत्नः च इति एतद् द्वयम् इकार-ईकारयोः तुल्यम् समानम् इति तयोः मिथः
सवर्णसंज्ञा सिध्यति।
व्याख्या– आस्यशब्देन मुखं गृह्यते चेत् समेषां वर्णानाम् उच्चारणं स्थानम्
इत्यतःव्यावृत्तिः न स्यात् इत्यतः ‘शरीरावयवाद्यत्’ इति
सूत्रविहितेन यत्प्रत्ययेन निष्पन्नस्य आस्यशब्दस्य ग्रहणम्। तस्य च आस्ये भवं
ताल्वादिस्थानम् इत्यर्थः। सूत्रस्य वृत्तौ
ताल्वादि इत्यत्र आदिपदेन सर्वाणि वर्णोच्चारणस्थानानि गृह्यन्ते। सूत्रे
प्रयत्नपदे प्रशब्दबलात् प्रयत्नशब्देन आभ्यन्तरप्रयत्नः गृह्यते। तेन
सवर्णसंज्ञायां बाह्ययत्नानाम् उपयोगः न भवति इति बोध्यम्। अत्र
आस्यभवोच्चारणस्थानसाम्यमेव गृह्यते। तेन ककार-ङकारयोः अपि सवर्णसंज्ञा। अन्यथा
ङकारस्य नासिकाधिक्यात् सावर्ण्यं न स्याद् इति शिवम्।
No comments:
Post a Comment