उपदेशेऽजनुनासिक इत्
भूमिका– शाब्दिकचूडामणिना भट्टोजिदीक्षितेन विरचिताया
वैयाकरणसिद्धान्तकौमुद्याः संज्ञाप्रकरणे इदं सूत्रं विलसति।
संज्ञा
च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च
षड्विधं सूत्रलक्षणम्॥ इति षट्प्रकारकेषु सूत्रेषु इदं संज्ञासूत्रम्।
सूत्रार्थः–
सूत्रेऽस्मिन् पदचतुष्टयं विद्यते। उपदेशे अच् अनुनासिकः इत् इति सूत्रगतपदच्छेदः।
उपदेशे इति सप्तम्येकवचनान्तं पदम्। अच्, अनुनासिकः, इत् इति पदत्रयं प्रथमैकवचनान्तं
पदम्। इत् इति संज्ञापदम्। उपदेशे अनुनासिकः अच् इति संज्ञिदलम्। एवञ्च उपदेशे यः
अच् अनुनासिकः भवति स इत्संज्ञको भवति इति सूत्रार्थो लभ्यते। तदुक्तं सूत्रवृत्तौ
दीक्षितेन– “उपदेशेऽनुनासिकोऽजित्संज्ञः
स्यात्” इति।
सोदाहरणं व्याख्यानम्– उपदेशनम् उपदेशः। उपशब्द
आद्यर्थकः। दिशिरुच्चारणक्रियः। ततश्च आद्योच्चारणम् इति अर्थः फलति।
मुखसहितनासिकया उच्चार्यमाणो वर्णः अनुनासिकः। ननु शास्त्रकारेण क्वचिदेव तथा
वर्णा उच्चारिताः। बहुत्र तु मुखेन उच्चारिताः इति कथम् अवगन्तव्यमिति प्रश्ने
समाधानम् “प्रतिज्ञानुनासिक्याः
पाणिनीयाः” इति।
अर्थात् पाणिनिशिष्यानां व्यवहारात् ज्ञायते। यद्यपि सूत्रकारकृतः अनुनासिकपाठो
नष्टः, तथापि वृत्तिकारादिव्यवहारबलेन अनुमीयते इति भावः। यथा – लण्-सूत्रे अकारः।
माहेश्वरसूत्रे पाठात् उपदेशत्वम् अस्ति, परम्परया अनुनासिकत्वमपि वर्तते, अच् अपि
अस्ति इति हेतोः प्रकृतसूत्रेण तस्य इत्संज्ञा भवति। तस्य फलं भवति
रप्रत्याहारसिद्धिः। तथाहि ‘आदिरन्त्येन सहेता’ इति सूत्रसहायेन अन्त्येन इता लण्सूत्रस्थेन अवर्णेन सह हयवरट्सूत्रस्थस्य
रेफेन सह र्+अ=र
प्रत्याहारः सिध्यति। ततः रप्रत्याहारेण रेफलकारयोः ग्रहणं भवति इति शिवम्।
No comments:
Post a Comment