तेन विश्वपाभिः इत्यत्र ‘हो ढः’ इति ढत्वं न
भवति
शाब्दिकचूडामणिना भट्टोजिदीक्षितेन
विरचिताया वैयाकरणसिद्धान्तकौमुद्याः संज्ञाप्रकरणे ‘अणुदित्सवर्णस्य चाप्रत्ययः’ इति सूत्रव्याख्यानावसरे इयं
पङ्क्तिः पठ्यते।
यदि उच्चारणस्थानम्
आभ्यन्तरप्रयत्नश्च तुल्यौ भवतः तर्हि ‘तुल्यास्यप्रयत्नं सवर्णम्’ इति सूत्रेण सवर्णसंज्ञा भवति।
ततश्च हकारस्य आकारस्य च उभयोः उच्चारणस्थानं कण्ठः, आभ्यन्तरप्रयत्नश्च विवृतम्
इति कारणात् सवर्णसंज्ञा स्यात्। तत्रोच्यते यत् न स्यात्, ‘नाज्झलौ’ इति सूत्रं वर्तते। तेन सूत्रेण
अचः हलश्च सवर्णसंज्ञा निषिध्यते। आकारश्च अच्, हकारश्च हल् इति सवर्णसंज्ञा न
स्यात्।
तत्रोच्यते यत् ‘नाज्झलौ’ इति सूत्रे अच्पदेन वर्णसमाम्नाये
अर्थात् माहेश्वरसूत्रे पठिता एव गृह्यन्ते। तत्र च अकारः पठ्यते न आकारः इति
निषेधो न स्यात्। ननु ‘अणुदित्सवर्णस्य चाप्रत्ययः’ इति सूत्रेण सवर्णाः गृह्यन्ते। ततश्च यद्यपि माहेश्वरसूत्रे अकारः पठ्यते,
तथापि अणुदित्सूत्रेण अष्टादशानाम् अकाराणां ग्रहणं स्यात्। ततश्च निषेधः भवेत्।
सत्यम्, अष्टादश अकाराः गृह्येरन् यदि ‘नाज्झलौ’ इति सूत्रप्रवृत्तिसमये अणुदित्सूत्रं लब्धं स्यात्। परन्तु ‘नाज्झलौ’ इति सूत्रप्रवृत्तिवेलायाम्
अणुदित्सूत्रं न लभ्यते।
तदुक्तं भाष्ये– ‘वर्णानाम् उपदेशः तावत्।
उपदेशोत्तरकाला इत्संज्ञा। इत्संज्ञोत्तरकालः आदिरन्त्येनेति प्रत्याहारः।
प्रत्याहारोत्तरकाला सवर्णसंज्ञा। तदुत्तरकालम् अणुदित्सूत्रमित्येतेन समुदितेन
वाक्येनान्यत्र सवर्णानां ग्रहणं भवति’ इति। अर्थात् आदौ सवर्णसंज्ञा अनन्तरम्
अणुदित्सूत्रप्रवृत्तिः। सवर्णसंज्ञायाः अपवादभूतः ‘नाज्झलौ’ इति सावर्ण्यनिषेधः। ततश्च ‘प्रकल्प्य अपवादविषयम्
उत्सर्गोऽभिनिविशते’ इति
न्यायेन सवर्णसंज्ञाविधायकं तुल्यास्यसूत्रं सामान्यतः स्वार्थं बोधयद् अपि ‘नाज्झलौ’ इत्यपवादविषयं परिहृत्य अन्यत्रैव
प्रवर्तते। एवञ्च तुल्यास्यसूत्रेण सवर्णसंज्ञाया विधानात् प्राक् अणुदित्सूत्रं न
प्रवर्तते, अपवादसूत्रत्वात् च ‘नाज्झलौ’ इति सूत्रं
सवर्णसंज्ञायाः पूर्वं प्रवर्तते। ततश्च ‘नाज्झलौ’ इति सूत्रस्य प्रवृत्तिवेलायाम्
अणुदित्सूत्रं न लब्धात्मकम्। अतः न अष्टादशानां ग्रहणम्। ततश्च सवर्णसंज्ञा
निषेधः न स्यात्। ततश्च दोषः स्यात्। अतः दोषवारणाय ‘नाज्झलौ’ इति सूत्रे आकारः अपि
प्रश्लिष्यते। तथाहि – आसहितः अच् इति आच्, आच् च हल् च इति आज्झलौ, न आज्झलौ इति
नाज्झलौ इति। एवञ्च आकारसहितस्य अचः हलः सवर्णसंज्ञा नास्ति। ततः विश्वपाभिः
इत्यत्र दोषो न भवति। तथाहि – विश्वपा+भिस् इति स्थिते, आकारहकारयोः सावर्ण्ये
आकारेण हकारस्य ग्रहणात् ‘हो ढः’ इति
सूत्रेण हकारस्य स्थाने विधीयमानः ढकारः आकारस्यापि स्थाने स्यात्। परन्तु
सावर्ण्यनिषेधात् तु न भवति। ततः विश्वपाभिः इति इष्टं रूपं सिध्यति इति शम्।
No comments:
Post a Comment