वृद्धिरादैच्
भूमिका– शाब्दिकचूडामणिना भट्टोजिदीक्षितेन विरचिताया
वैयाकरणसिद्धान्तकौमुद्याः संज्ञाप्रकरणे इदं सूत्रं विलसति।
संज्ञा
च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च
षड्विधं सूत्रलक्षणम्॥ इति षट्प्रकारकेषु सूत्रेषु इदं संज्ञासूत्रम्।
सूत्रार्थः–
सूत्रेऽस्मिन् पदद्वयं विद्यते। वृद्धिः आदैच् इति पदच्छेदः। वृद्धिः इति
प्रथमैकवचनान्तं संज्ञापदम्। आत् च ऐच् च इति आदैच् इति समाहारद्वन्द्वनिष्पन्नं
प्रथमैकवचनान्तं संज्ञिपदम्। इतरेतरद्वन्द्वपक्षे तु सौत्रम् एकवचनम् इति बोध्यम्।
आदैच् इत्यत्र तः परः आकारात् इत्यतः तपरः आकारः दीर्घमेव गृह्णाति, तथैव तात् परः
ऐच् अपि दीर्घौ ऐकारौकारौ गृह्णाति इति बोध्यम्। ततश्च दीर्घः आकारः दीर्घौ ऐकारौकारौ
च वृद्धिसंज्ञकाः भवन्ति इति सूत्रस्य सामान्यः अर्थो लभ्यते। तदुक्तं दीक्षितेन– ‘आदैच्च वृद्धिसंज्ञः स्यात्’ इति।
सोदाहरणं व्याख्यानम्– सूत्रमिदम् अष्टाध्याय्याः आदिमं सूत्रम्। मङ्गलादीनि
शास्त्राणि हि जयन्ते। अतः परम्परामनुसृत्य वृद्धिपदस्य आदौ स्थापनेन मङ्गलम्
आचरितं भगवता पाणिनिना। अतः यद्यपि सामान्यतः संज्ञापदानि परतः भवति, यथा –
अदेङ्गुणः इत्यादिषु तथापि मङ्गलार्थम् अत्र पूर्वं स्थापनम् इति बोध्यम्। आदैच्
इत्यत्र समासान्तविधेः अनित्यत्वात् समासान्तः न भवति। आदैच् इत्यत्र कुत्वमपि न
भवति, ‘अयस्मयादीनि च्छन्दसि’
इति भत्वात्। ‘छन्दोवत्सूत्राणि भवन्ति’ इति वचनात् सूत्राणामपि छान्दसत्वात्। छन्दसि उभयसंज्ञा दृश्यते इति
हेतोः जश्त्वं भवति। ‘वृद्धिरेचि’
इत्यादिस्थलेषु अस्याः संज्ञाया उपयोग इति बोध्यम् इति शम्।
No comments:
Post a Comment