अन्तर्जालम्
वयम् अन्तर्जालयुगे वसामः। अद्यत्वे अन्तर्जालं विना मनुष्यजीवनं दुःशकमिव प्रतिभाति। अन्तर्जालं मनुष्याणां सकाशे कल्पवृक्षः इव। सर्वं कार्यं सरलतया वेगेन च सम्पादयितुं क्षमते इदम् अन्तर्जालम्। अस्य साहाय्येन यत्र कुत्रचिदपि उपविश्य विश्वस्य सकलतथ्यानि आहर्तुं शक्नोति अन्तर्जालव्यवहर्ता। अनेन शिक्षणं, गवेषणं, लेखनं, प्रेरणं, ग्रहणम्, अन्वेषणम् इत्यादीनि कार्याणि अनायासेन साध्यन्ते। पूर्वं वित्तकोशव्यवहाराय धूमशकटादीनां चीटिकाप्राप्तये महान् समयः अपेक्षते स्म। परमधुना गृहे उपविश्य दूरवाणीतः अन्तर्जालमहिम्ना क्षणेन साधयितुं शक्यते। पूर्वं कार्यालयादिषु विद्यालयादिषु सर्वत्र कर्गजव्यवहारः भवति स्म। परम् अस्मिन् अन्तर्जालयुगे वैद्युतिनवार्तया व्यवहारः भवति, वैद्युतिनपाठ्यसामग्र्या पठनपाठनादिकं प्रचलति। तेन कर्गजव्यवहारे न्यूनता आगता।
Read more student essays in Sanskrit
ततः वृक्षच्छेदनेऽपि न्यूनता जाता। एतेन अन्तर्जालं परिवेषसहायकमपि इत्यागतम्। ज्ञानाकरभूतमिदम् अन्तर्जालं प्रायेण सर्वाः शङ्काः परिहर्तुं पारयति। यथा अन्तर्जालं मानवजीवने गतिमयतां सुलभताम् आनयति तथैव समस्याः अपि सृजति। अधिकाः मानवाः अत्र आसक्ताः भवन्ति, वृथा समयव्ययं कुर्वन्ति। अन्तर्जालमहिम्ना अद्यत्वे वयं गृहात् अधिकं बहिः न गच्छामः, आत्मीयान् न मिलामः, दूरवाण्या एव कार्याणि साधयामः, कुशलवार्तां च स्वीकुर्मः। तेन अस्माकं जीवने शारीरिकव्याधिः, मानसिकपीडा च समुद्भवति।
No comments:
Post a Comment