रूपयौवनसम्पन्ना
विशालकुलसम्भवाः।विद्याहीना न शोभन्ते
निर्गन्धा इव किंशुकाः॥ (हितोपदेशः- ४९)
भूमिका–
नारायणशर्मणा विरचितस्य हितोपदेशाख्यस्य कथाग्रन्थस्य प्रस्तावनायाम् अयं श्लोको
विद्यते।
अन्वयार्थः–
निर्गन्धाः – गन्धरहिताः किंशुकाः – पलाशपुष्पाणि इव विद्याहीनाः – ज्ञानवर्जिताः रूपयौवनसम्पन्नाः
– रूपवन्तो युवानः विशालकुलसम्भवाः – उन्नतवंशसद्भूता अपि न शोभन्ते – राजन्ते इत्यन्वयार्थः।
भावार्थः–
प्रस्तुतश्लोके अविद्यानिन्दनेन विद्यां प्रशंसति, रूपादीनां च निःसारत्वं
प्रतिपादयति नारायणशर्मा। सौन्दर्यं तारुण्यं सत्कुलोद्भवत्वं च न शोभाकारणम्, अपि
तु विद्या एव शोभाकारिणी इति दृष्टान्तमुखेन प्रतिपादयति। यथा पलाशपुष्पाणि
सुरूपाणि भवन्ति, तथापि तेषां सौरभाभावात् तानि समादृतानि न भवन्ति। एवमेव सुन्दरः
तरुणः सत्कुलोद्भवोऽपि विवेकवर्जितत्वात् न शोभते समाद्रियते। अविद्यस्य रूपं यौवनं
सत्कुलोद्भवत्वादिकं सर्वमेव विफलम् इति भावः।
व्याकरणविमर्शः–
रूपञ्च यौवनञ्च इति रूपयौवने, ताभ्यां सम्पन्नाः – रूपयौवनसम्पन्नाः इति द्वन्द्वगर्भतृतीयातत्पुरुषः।
विद्यया हीनाः इति विद्याहीनाः इति तृतीयातत्पुरुषसमासः। विशालञ्च तत् कुलम् इति
विशालकुलम्, विशालकुलम् सम्भवः येषां ते विशालकुलसम्भवाः इति कर्मधारयगर्भबहुव्रीहिः।
छन्दः– अत्र अनुष्टुप्
छन्दः।
No comments:
Post a Comment