Essay on Mobile Phone in Sanskrit
दूरवाणी
विज्ञानस्य
उपायनेषु अन्यतमा इयं दूरवाणी। इयम् आधुनिकी सम्पर्कसाधिका अस्ति। प्रदेशात्
प्रदेशान्तरे वर्तमानेन केनापि सह सम्पर्कं कर्तुं शक्नुमः। पूर्वम् एतया विना अपि
जना जीवनं यापयन्ति स्म। परन्तु अद्यत्वे एतया विना मानवस्य जीवनम् ऊहितुम् अपि दुष्करम्।
इयम् एकाकिनी एव चित्रग्राहकस्य, गणकयन्त्रस्य, घट्याः, ध्वनिमुद्रकस्य,
आकाशवाण्याः, ग्रन्थागारस्य कार्याणि साधयितुं शक्नोति। मधुरगीतं श्रावयित्वा
मनोहरं वृत्तान्तं वस्तु वा दर्शयित्वा मनसः क्लेशान् अपि अपाकरोति। किं बहुना
अन्तर्जालमाध्यमेन समग्रं विश्वमेव हस्तगतं करोति। कप्लतरुस्वरूपा इयं लघुसङ्गणकम्
अस्माकं कोशे एव स्थातुम् अर्हति। तन्त्रीरहिता इयम् इतस्ततः सुनेया।
Read more student essays in Sanskrit
परं बहुकल्याणप्रदा अपि मानवस्य दुरुपयोगेन इयम् अकल्याणमपि करोति। अस्याः अधिकव्यवहारेण कर्कटरोगः, नेत्ररोगः जायते। मार्गस्य अतिक्रमणसमये व्यवहारे विपत्तिरपि जायते। अस्याः साहाय्येन जनानां गोपनीयं तथ्यमपि चोरयन्ति दुष्टाः। अस्याम् आसक्तौ छात्राणां पठने, कर्मकराणां कर्मणि हानिः भवति। तथापि यदि वयं सावधानेन अस्याः सदुपयोगं कुर्मः तर्हि बहुविधोन्नतिम् अपि साधयितुं शक्नुमः इति शम्॥*****
Essay on - A Rainy Day or A Memorable Day , Internet , Corona Virus or COVID-19
No comments:
Post a Comment