करोणाविषाणुः
करोणाविषाणुः सामान्यपीनसाद् आरभ्य श्वसनतन्त्रे अत्यधिकपीडां यावत् सम्पादयितुं क्षमते इति विश्वस्वास्थ्यसंस्थायाः मतम्। अयं विषाणुः प्राथम्येन २००२ क्रैस्ताब्दे चीनदेशे प्रादुर्भूतः। तदानीं मनुष्येतरप्राणिषु अयं सङ्क्रामति स्म। परं २०१९ क्रैस्ताब्दे चीनदेशस्य वुहाननगरे प्रथमतया मनुष्येऽपि अस्य सङ्क्रमणं दृष्टम्। अतः असौ नवकरोणाविषाणुः (Novel Coronavirus) इत्युच्यते। आविश्वं प्रसृतस्य अस्य विषाणोः सङ्क्रमणे इमानि लक्षणानि प्रायेण अवलोक्यन्ते– प्रवहमाना नासिका, गलवेदना, श्वासक्लेशः, ज्वरः, काशः इत्यादीनि। विषाणुसङ्क्रान्तेः परं यदि उपचारो न विधीयते तर्हि तीव्रश्वासक्लेशः, वृक्कविफलता किञ्च मृत्युरपि भवितुम् अर्हति। वृद्धाः, रोगप्रतिरोधशक्तिशून्याः, कर्कटादिरोगैः पूर्वपीडिताः एव अनेन विषाणुना अधिकाः पीडिताः भवन्ति।
Read more student essays in Sanskrit
ये पुनः सशक्ताः तेषाम् उपचारः सुलभः। अयं विषाणुः काशादिना
संस्पर्शेन च प्रसरति। अतः यत्र सम्मर्दः वर्तते तत्र न गन्तव्यम्। बहिर्गमनसमये
मुखं, हस्तं, शरीरं च आच्छाद्य गन्तव्यम्। प्रत्यागमनात् परं फेनकेन हस्तादिकं
सम्यक् प्रक्षालनीयम्। वार्तालापकाले मनुष्याणां मध्ये परस्परं व्यवधानं भवेत्।
तेन विषाणुप्रसृतिः न्यूना स्यात्। वयं च निरामयाः स्याम।
*****
नमो नमः
ReplyDeleteनमस्ते
Delete