Essay on A Rainy Day or A Memorable Day in Sanskrit
कश्चिद् वृष्टिदिवसः/ स्मरणीयदिवसः
आषाढस्य प्रथमदिवसे प्रातः दशवादने अहं महाविद्यालयं गच्छन्ती आसम्। मया सह कानिचन मित्राणि अपि आसन्। अकस्मात् पश्चिमाकाशे कृष्णवर्णीयं मेघम् अपश्यम्। अस्माकं सकाशे छत्रं न आसीत्। झटिति वृष्टिः आरब्धा। पार्श्वे गृहादिकम् अपि नासीत्। अतः जलेन वयं सिक्ताः अभवाम। अस्माकं वस्त्राणि च क्लिन्नानि जातानि। किञ्चिद् दूरं गत्वा एकम् आपणं प्राप्य वयं सर्वे तत्र स्थिताः। परं वर्षणं नैव स्थगितम्। होरात्मकात् कालात् परं वृष्टेः वेगो न्यूनो जातः। ततो वयं सिक्तवेषेण एव महाविद्यालयं गन्तुम् आरब्धवत्यः। मार्गः कर्दममयः संवृत्तः। वयं कथञ्चित् महाविद्यालयं प्राप्ताः।
Read more student essays in Sanskrit
तत्र सर्वेषां वस्त्राणि जलेन सिक्तानि आसन्। महाविद्यालयस्य मार्गाश्च जलपूर्णाः आसन्। तदानीम् अपि वृष्टिः मध्यवेगेन पतन्ती आसीत्। सर्वेषां सिक्तवस्त्राणि दृष्ट्वा अस्माकम् अध्यक्षमहोदया इमं दिवसं वृष्टिदिवसत्वेन उद्घोषितवती। विरामं प्राप्य च वयं नितरां हृष्टाः गृहं प्रत्यागताः। ततः शीघ्रं वस्त्रपरिवर्तनं विधाय मात्रा निर्मितं कृसरान्नं सहर्षं भुक्तवती। अयं दिवसः मम स्मरणीयदिवसेषु अन्यतमः।
*****
Essay on - A Rainy Day or A Memorable Day , Internet , Corona Virus or COVID-19, Mobile Phone
No comments:
Post a Comment