विद्या शस्त्रं च शास्त्रं
च द्वे विद्ये प्रतिपत्तये।
आद्या हास्याय वृद्धत्वे
द्वितीयाद्रियते सदा॥ (हितोपदेशः- ७)
भूमिका–
नारायणशर्मणा विरचितस्य हितोपदेशाख्यस्य कथाग्रन्थस्य प्रस्तावनायाम् अयं श्लोको
विद्यते।
अन्वयार्थः– शस्त्रं
– खड्गादि शास्त्रम् – अङ्गसहितवेदादि च विद्या – विद्याशब्दवाच्यम्, द्वे –
शस्त्रशास्त्रे विद्ये – ज्ञानभूते प्रतिपत्तये – यशसे (भवतः)। आद्या –
शस्त्रविद्या वृद्धत्वे – वार्धक्ये हास्याय – उपहासाय (भवति), द्वितीया –
शास्त्रविद्या सदा – सततम् आद्रियते - अभिनन्द्यते इत्यन्वयार्थः।
भावार्थः–
प्रस्तुतश्लोके शस्त्रविद्यापेक्षया शास्त्रविद्यायाः अभ्यर्हितत्वं दर्शयति
नारायणशर्मा। तत्र यद्यपि हिंसासाधनं खड्गादिकं षडङ्गसहितवेदादिशास्त्रम् उभयमपि
विद्यापदवाच्यम् तथापि शस्त्रविद्या वयोविशेषे यौवने इति यावत् एव फलप्रदा, परं
शास्त्रविद्या सर्वदैव सर्वस्मिन् देशे काले च फलप्रदा प्रशस्ता इति यावत्। अतः
सर्वत्र सर्वदा च लौकैः प्रशस्ता शास्त्रविद्या राजकुमारैः अवश्यम् अर्जनीया इति तात्पर्यम्।
छन्दः– अत्र अनुष्टुप्
छन्दः।
No comments:
Post a Comment