A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Monday, November 23, 2020

सिद्धान्तकौमुद्याम् अच्सन्धौ प्रकृतिभावः

 सिद्धान्तकौमुद्याम् अच्सन्धौ प्रकृतिभावः



॥अथ सिद्धान्तकौमुद्याम् अच्सन्धौ प्रकृतिभावः

९०) प्लुतप्रगृह्या अचि नित्यम् (६.१.१२५)॥ प्लुताः प्रगृह्याश्च वक्ष्यन्ते तेऽचि परे नित्यं प्रकृत्या स्युः एहि कृष्ण३ अत्र गौश्चरति हरी एतौ नित्यम् इति किम् हरी एतावित्यादावयमेव प्रकृतिभावो यथा स्यात् इकोऽसवर्णे (कौ.- ९१) इति ह्रस्वसमुच्चितो माभूत्

९१) इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (६.१.१२७)॥ पदान्ता इकोऽसवर्णेऽचि परे प्रकृत्या स्युर्ह्रस्वश्च वा अत्र ह्रस्वविधिसामर्थ्यादेव प्रकृतिभावे सिद्धे तदनुकर्षणार्थश्चकारोन कर्तव्यः इति भाष्ये स्थितम् चक्रि अत्र चक्र्यत्र पदान्ताः इति किम् गौर्यौ। न समासे (वा.)॥ वाप्यश्वः। सिति च (वा.)॥ पार्श्वम्

९२) ऋत्यकः (६.१.१२८)॥ ऋति परेऽकः प्राग्वत् ब्रह्म ऋषिः ब्रह्मर्षिः पदान्ताः इत्येव आर्च्छत् समासेऽप्ययं प्रकृतिभावः सप्तऋषीणाम् - सप्तर्षीणाम्

९३) वाक्यस्य टेः प्लुत उदात्तः (८.२.८२)॥ इत्यधिकृत्य

९४) प्रत्यभिवादेऽशूद्रे (८.२.८३)॥ अशूद्रविषये प्रत्यभिवादे यद्वाक्यं तस्य टेः प्लुतः स्यात् स चोदात्तः अभिवादये देवदत्तोऽहम् भो आयुष्मानेधि देवदत्त३। स्त्रियां न (वा.)॥ अभिवादये गार्ग्यहम् भो आयुष्मती भव गार्गि नाम गोत्रं वा यत्र प्रत्यभिवादवाक्यान्ते प्रयुज्यते तत्रैव प्लुत इष्यते नेह आयुष्मानेधिभोराजन्यविशां वेति वाच्यम् (वा.)॥ आयुष्मानेधि भोः३ आयुष्मानेधीन्द्रवर्म३न् आयुष्मानेधीन्द्रपालित३

९५) दूराद्धूते च (८.२.८४)॥ दूरात्संबोधने यद्वाक्यं तस्य टेः प्लुतः स्यात् सक्तून्पिब देवदत्त३

९६) हैहेप्रयोगे हैहयोः (८.२.८५)॥ एतयोः प्रयोगे दूराद्धूते यद्वाक्यं तत्र हैहयोरेव प्लुतः स्यात् हे३ राम राम है३

९७) गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् (८.२.८६)॥ दूराद्धूते यद्वाक्यं तस्य ऋद्भिन्नस्यानन्त्यस्यापि गुरोर्वा प्लुतः स्यात् दे३ वदत्त देवद३त्त देवदत्त३ गुरोः किम् वकारात्परस्याकारस्य मा भूत् अनृतः किम् कृष्ण३ एकैकग्रहणं पर्यायार्थम् इह प्राचाम् इति योगो विभज्यते तेन सर्वः प्लुतो विकल्प्यते

९८) अप्लुतवदुपस्थिते (६.१.१२९)॥ उपस्थितोऽनार्ष इति शब्दः तस्मिन्परे प्लुतोऽप्लुतवद्भवति अप्लुतकार्यं यणादिकं करोतीत्यर्थः सुश्लोकेति वत्किम् अप्लुत इत्युक्तेऽप्लुत एव विधीयेत प्लुतश्च निषिध्येत तथा च प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणंन स्यात् अग्नी३ इति

९९) ई३ चाक्रवर्मणस्य (६.१.१३०)॥ ई३ प्लुतोऽचि परेऽप्लुतवद्वा स्यात् चिनुही३ इति चिनुहीति चिनुही३ इदम् चिनु हीदम् उभयत्रविभाषेयम्

१००) ईदूदेद्द्विवचनं प्रगृह्यम् (१.१.११)॥ ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञं स्यात् हरी एतौ विष्णू इमौ गङ्गे अमू पचेते इमौ मणीवोष्ट्रस्येति तु इवार्थे वशब्दो वाशब्दो वा बोध्यः

१०१) अदसो मात् (१.१.१२)॥ अस्मात्परावीदूतौ प्रगृह्यौ स्तः अमी ईशाः रामकृष्णावमू आसाते मात् किम् अमुकेऽत्र असति माद्ग्रहणे एकारोऽप्यनुवर्तेत

१०२) शे (१.१.१३)॥ अयं प्रगृह्यः स्यात् अस्मे इन्द्राबृहस्पती

१०३) निपात एकाजनाङ् (१.१.१४)॥ एकोऽज्निपात आङ्वर्जः प्रगृह्यः स्यात् इ विस्मये इ इन्द्रः उ वितर्के उ उमेशः अनाङित्युक्तेरङिदाकारः प्रगृह्य एव आ एवं नु मन्यसे आ एवं किल तत् ङित्तु न प्रगृह्यः ईषदुष्णम् ओष्णम् ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः एतमातं ङितं विद्याद्वाक्यस्मरणयोरङित्

१०४) ओत् (१.१.१५)॥ ओदन्तो निपातः प्रगृह्यः स्यात् अहो ईशाः

१०५) सम्बुद्धौ शाकल्यस्येतावनार्षे (१.१.१६)॥ सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे विष्णो इति विष्ण इति विष्णविति आनर्ष इति किम् ब्रह्मबन्धवित्यब्रवीत्

१०६) उञः (१.१.१७)॥ उञ इतौ वा प्रागुक्तम् उ इति विति

१०७) ऊँ (१.१.१८)॥ उञ इतौ दीर्घोऽनुनासिकः प्रगृह्यश्च ऊँ इत्ययमादेशो वा स्यात् ऊँ इति

१०८) मय उञो वो वा (८.३.३३)॥ मयः परस्य उञो वो वा स्यादचि किमु उक्तम् किम्वुक्तम् वत्वस्यासिद्धत्वान्नानुस्वारः

१०९) ईदूतौ च सप्तम्यर्थे (१.१.१९)॥ सप्तम्यर्थे पर्यवसन्नमीदूदन्तं प्रगृह्यं स्यात् सोमो गौरी अधिश्रितः मामकी तनू इति सुपां सुलुक् (कौ.- ३५६१) इति सप्तम्या लुक् अर्थग्रहणं किम् वृत्तावर्थान्तरोपसङ्क्रान्ते माभूत् वाप्यामश्वो वाप्यश्वः

११०) अणोऽप्रगृह्यस्यानुनासिकः (८.४.५७)॥ अप्रगृह्यस्याणोऽवसानेऽनुनासिको वा स्यात् दधिं दधि अप्रगृह्यस्य किम् अग्नी

॥इति सिद्धान्तकौमुद्याम् अच्सन्धौ प्रकृतिभावः

No comments:

Post a Comment