सिद्धान्तकौमुद्यां हल्सन्धिप्रकरणम्
॥अथ सिद्धान्तकौमुद्यां हल्सन्धिप्रकरणम्॥
१११) स्तोः श्चुना श्चुः
(८.४.४०)॥ सकारतवर्गयोः
शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः।
हरिश्शेते। रामश्चिनोति। सच्चित्। शार्ङ्गिञ्जय।
११२) शात् (८.४.४४)॥ शात्परस्य तवर्गस्य श्चुत्वं न स्यात्। विश्नः। प्रश्नः।
११३) ष्टुना ष्टुः (८.४.४१)॥ स्तोः ष्टुना योगे ष्टुः स्यात्। रामष्षष्ठः। रामष्टीकते। पेष्टा। तट्टीका। चक्रिण्ढौकसे।
११४) न पदान्ताट्टोरनाम्
(८.४.४२)॥ अनामिति लुप्तषष्ठीकं पदम्। पदान्ताट्टवर्गात्परस्यानामः
स्तोः ष्टुर्न स्यात्।
षट्
सन्तः। षट्
ते। पदान्तात्किम्। ईट्टे। टोः किम्। सर्पिष्टमम्॥अनाम्नवतिनगरीणामिति वाच्यम् (वा.)॥ षण्णाम्। षण्णवतिः। षण्णगर्यः।
११५) तोः षि (८.४.४३)॥ तवर्गस्य षकारे परे न ष्टुत्वम्। सन्षष्ठः। झलां जशोऽन्ते (कौ.- ८४)। वागीशः। चिद्रूपम्।
११६) यरोऽनुनासिकेऽनुनासिको
वा (८.४.४५)॥ यरः पदान्तस्याऽनुनासिके परेऽनुनासिको वा स्यात्। एतन्मुरारिः। एतद्मुरारिः। स्थानप्रयत्नाभ्यामन्तरतमे
स्पर्शे चरितार्थो विधिरयं रेफे न प्रवर्तते। चतुर्मुखः॥ प्रत्यये भाषायां नित्यम्॥ तन्मात्रम्। चिन्मयम्। कथं तर्हि मदोदग्राः ककुद्मन्त
इति। यवादिगणे
दकारनिपातनात्।
११७) तोर्लि (८.४.६०)॥ तवर्गस्य लकारे परे परसवर्णः स्यात्। तल्लयः। विद्वाँल्लिखति। नकारस्याऽनुनासिको लकारः।
११८) उदः स्थास्तम्भोः
पूर्वस्य (८.४.६१)॥ उदः परयोः स्थास्तम्भोः पूर्वसवर्णः
स्यात्॥ आदेः
परस्य (कौ.- ४४)। उत्थानम्। उत्तम्भनम्। अत्राघोषस्य सस्य तादृश
एव थकारः। तस्य
झरो झरि (कौ.- ७१) इति पाक्षिको लोपः।
लोपाभावपक्षे
तु थकारस्यैव श्रवणं न तु खरि च (कौ.- १२१) इति चर्त्त्वम्। चर्त्त्वं प्रति थकारस्याऽसिद्धत्वात्।
११९) झयो होऽन्यतरस्याम्
(८.४.६२)॥ झयः परस्य हस्य पूर्वसवर्णो वा स्यात्। घोषवतो नादवतो महाप्राणस्य
संवृतकण्ठस्य हस्य तादृशो वर्गचतुर्थं एवादेशः। वाग्घरिः। वाग्हरिः।
१२०) शश्छोऽटि (८.४.६३)॥ पदान्तात् झयः परस्य शस्य छो वा स्यादटि। दस्य श्चुत्वेन जकारे
कृते।
१२१) खरि च (८.४.५५)॥ खरि परे झलां चरः स्युः। इति जकारस्य चकारः। तच्छिवः। तच्शिवः।छत्वममीति वाच्यम् (वा.)॥ तच्श्लोकेन। तच्छलोकेन। अमि किम्। वाक् श्च्योतति।
१२२) मोऽनुस्वारः (८.३.२३)॥ मान्तस्य पदस्यानुस्वारः स्याद्धलि॥ अलोऽन्त्यस्य (कौ.- ४२) हरिं वन्दे।
पदस्येति
किम्। गम्यते।
१२३) नश्चापदान्तस्य झलि
(८.३.२४)॥ नस्य मस्य चापदान्तस्य झल्यनुस्वारः। यशांसि। आक्रंस्यते। झलि किम् ? मन्यते।
१२४) अनुस्वारस्य ययि
परसवर्णः (८.४.५८)॥ स्पष्टम्। अङ्कितः। अञ्चितः। कुण्ठितः। शान्तः। गुम्फितः। कुर्वन्तीत्यत्र णत्वे
प्राप्ते तस्यासिद्धत्वादनुस्वारे परसवर्णे च कृते तस्यासिद्धत्वान्न णत्वम्।
१२५) वा पदान्तस्य (८.४.५९)॥ पदान्तस्यानुस्वारस्य ययि परे परसवर्णो वा स्यात्। त्वङ्करोषि। त्वंकरोषि। सय्ँयन्ता। संयन्ता। सव्ँवत्सरः। संवत्सरः। यल्ँलोकम्। यंलोकम्। अत्राऽनुस्वारस्य पक्षेऽनुनासिका
यवलाः।
१२६) मो राजि समः क्वौ
(८.३.२५)॥ क्विबन्ते राजतौ परे समो मस्य म एव स्यात्। सम्राट्।
१२७) हे मपरे वा (८.३.२६)॥ मपरे हकारे परे मस्य म एव स्याद्वा। ह्नल ह्वल चलने। किम् ह्मलयति। किं ह्नलयति।यवलपरे यवला वेति वक्तव्यम् (वा.)।
१२८) यथासंख्यमनुदेशः
समानाम् (१.३.१०)॥ समसम्बन्धी विधिर्यथासङ्ख्यं स्यात्। कियूँह्यः। किंह्यः। किब्ँह्वलयति। किंह्वलयति। किल्ँह्लादयति। किंह्लादयति।
१२९) नपरे नः (८.३.२७)॥ नपरे हकारे मस्य नः स्याद्वा। किन्ह्नुते। किंह्नुते।
१३०) ङ्णोः कुक्टुक् शरि
(८.३.२८)॥ ङकारणकारयोः कुक्टुकावागमौ वा स्तः शरि। कुक्टुकोरसिद्धत्वाज्जश्त्वं
न।चयो
द्वितीयाः शरि पौष्करसादेरिति वाच्यम् (वा.)॥ प्राङ्ख्षष्ठः। प्राङ्क्षष्ठः। प्राङ्षष्ठः। सुगण्ठ्षष्ठः। सुगण्टषष्ठः। सुगण्षष्ठः।
१३१) डः सि धुट् (८.३.२९)॥ डात्परस्य सस्य धुड्वा स्यात्। षट्त्सन्तः। षट्सन्तः।
१३२) नश्च (८.३.३०)॥ नकारान्तात्सस्य धुड्वा। सन्त्सः। सन्सः।
१३३) शि तुक् (८.३.३१)॥ नस्य पदान्तस्य शे परे तुग्वा स्यात्। शश्छोऽटी (कौ.- १२०) ति छत्वविकल्पः।
पक्षे
झरो झरी ७ति चलोपः। सञ्छंभुः। सञ्च्छंभुः। सञ्चशंभुः। सञ्शंभुः॥ ञछौ ञचछा ञचशा ञशाविति
चतुष्टयम्। रूपाणामिह
तुक्छत्वचलोपानां विकल्पनात्।
१३४) ङमो ह्रस्वादचि ङमुण्नित्यम्
(८.३.३२)॥ ह्रस्वात्परो यो ङम् तदन्तं यत्पदं तस्मात्परस्याऽचो नित्यं ङमुडागमः
स्यात्। प्रत्यङ्ङात्मा। सुगण्णीशः। सन्नच्युतः।
१३५) समः सुटि (८.३.५)॥ समो रुः स्यात् सुटि। अलोऽन्त्यस्य (कौ.- ४२)।
१३६) अत्रानुनासिकः पूर्वस्य
तु वा (८.३.२)॥ अत्र रुप्रकरणे रोः पूर्वस्याऽनुनासिको वा स्यात्।
१३७) अनुनासिकात् परोऽनुस्वारः
(८.३.४)॥ अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः स्यात्। खरवसानयोर्विसर्जनीयः
(कौ.- ७६)।
१३८) विसर्जनीयस्य सः
(८.३.३४)॥ खरि विसर्जनीयस्य सः स्यात्। एतदपवादे वा शरी (कौ.- १५१) ति पाक्षिके विसर्गे प्राप्ते - संपुंकानां सो वक्तव्यः (वा.)॥ संस्स्कर्ता, सँस्स्कर्ता॥
समो
वा लोपमेके इति भाष्यम्।
लोपस्यापि
रुप्रकरणस्थत्वादनुस्वारानुनासिकाभ्यामेकसकारं रूपद्वयम्। द्विसकारं तूक्तमेव। तत्र अनचि च (कौ.- ४८) इति सकारस्य द्वित्वपक्षे त्रिसकारमपि रूपद्वयम्। अनुस्वारविसर्गजिह्वामूलीयोपध्यमानीययमानामकारोपरि
शर्षु च पाठस्योपसङ्ख्यातत्वेनानुस्वारस्याप्यच्त्वात्। अनुनासिकवतां त्रयाणां।शरः खयः (वा.)॥ इति
कद्वित्वे षट्। अनुस्वारवतामनुस्वारस्यापि
द्वित्वे द्वादश। एषामष्टादशानां
तकारस्य द्वित्वे वचनान्तरेण पुनर्द्वित्वे चैकतं द्वितं त्रितमिति चतुष्पञ्चाशत्। अणोऽनुनासिकत्वेऽष्टोत्तरशतम्।
१३९) पुमः खय्यम्परे (८.३.६)॥ अम्परे खयि पुम्शब्दस्य रुः स्यात्। व्युत्पत्तिपक्षे अप्रत्ययस्ये
(कौ.- १५५) ति षत्वपर्युदासात् क पयोः प्राप्तौ। अव्युत्पत्तिपक्षे तु
षत्वप्राप्तौ। संपुंकानामिति
सः। पुँस्कोकिलः। पुंस्कोकिलः। पुँस्पुत्रः। पुंस्पुत्रः। अम्परे किम्। पुंक्षीरम्। खयि किम्। पुंदासः॥ख्याञादेशे न (वा.)॥ पुंख्यानम्।
१४०) नश्छव्यप्रशान् (८.३.७)॥ अम्परे छवि नकारान्तस्य पदस्य रुः स्यान्न तु प्रशान्शब्दस्य। विसर्गः। सत्वम्। श्चुत्वम्। शार्ङ्गिँश्छिन्धि। शार्ङ्गिंश्छिन्धि। चक्रिँस्त्रायस्व। चक्रिंस्त्रायस्व। पदस्य किम्। हन्ति। अम्परे किम्। सन्त्सरुः खड्गमुष्टिः। अप्रशान् किम्। प्रशान्तनोति।
१४१) नॄन् पे (८.३.१०)॥ नॄनित्यस्य रुः स्याद्वा पकारे परे।
१४२) कुप्वोः ≍क≍पौ च (८.३.३७)॥ कवर्गे पवर्गे च परे विसर्जनीयस्य क्रमाज्जिह्वामूलीयोपध्मानीयौ स्तः। चाद्विसर्गः। येन नाप्राप्त इति न्यायेन
विसर्जनीयस्य स (कौ.- १३८) इत्यस्यापवादोऽयम्।
न
तु शर्परे विसर्जनीय (कौ.- १५०) इत्यस्य।
तेन
वासः क्षौममित्यादौ विसर्ग एव।
नॄँ≍ पाहि। नॄं≍ पाहि। नॄँःपाहि। नॄंःपाहि। नॄन्पाहि।
१४३) कानाम्रेडिते (८.३.१२)॥ कान्नकारस्य रुः स्यादाम्रेडिते परे। संपुंकानामिति सः। यद्वा।
१४४) कस्कादिषु च (८.३.४८)॥ एष्विण उत्तरस्य विसर्गस्य षः स्यादन्यत्र तु सः। ≍क≍पयोरपवादः। इति सः। काँस्कान्। कांस्कान्। कस्कः। कौतस्कुतः। सर्पिष्कुण्डिका। धनुष्कपालम्। आकृतिगणोऽयम्।
१४५) संहितायाम् (६.१.७२)॥ इत्यधिकृत्य।
१४६) छे च (६.१.७३)॥ ह्रस्वस्य छे परे तुगागमः स्यात्संहितायाम्। श्चुत्वस्यासिद्धत्वाज्जशत्वेन
दः। ततश्चर्त्वस्यासिद्धत्वात्पूर्वं
श्चुत्वेन जः। तस्य
चर्त्वेन चः। चुत्वस्यासिद्धत्वात्
चोः कु (कौ.- ३७८) रिति कुत्वं न।
स्वच्छाया। शिवच्छाया।
१४७) आङ्माङोश्च (६.१.७४)॥ एतयोश्छे परे तुक्स्यात्। पदान्ताद्वे (कौ.- १४९) ति विकल्पापवादः।
आच्छादयति। माच्छिदत्।
१४८) दीर्घात् (६.१.७५)॥ दीर्घाच्छे परे तुक्स्यात्। दीर्घस्यायं तुक् न तु
छस्य। सेनासुराच्छाया
(कौ.- ८२८) इति ज्ञापकात्।
चेच्छिद्यते।
१४९) पदान्ताद्वा (६.१.७६)॥ दीर्घात्पदान्ताच्छे परे तुग्वा स्यात्। लक्ष्मीच्छाया। लक्ष्मीछाया॥
॥इति सिद्धान्तकौमुद्यां
हल्सन्धिप्रकरणम्॥
No comments:
Post a Comment