A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Monday, November 23, 2020

सिद्धान्तकौमुद्याः अच्सन्धिप्रकरणम्

 सिद्धान्तकौमुद्याः अच्सन्धिप्रकरणम्

सिद्धान्तकौमुद्याः परिभाषाप्रकरणम्

॥अथ सिद्धान्तकौमुद्याम् अच्सन्धिप्रकरणम्

४७) इको यणचि (६.१.७७)॥ इकः स्थाने यण् स्यादचि संहितायां विषये सुधी उपास्यः इति स्थिते स्थानत आन्तर्यादीकारस्य यकारः सुध्य् उपास्य इति जाते

४८) अनचि च (८.४.४७)॥ अचः परस्य यरो द्वे वा स्तो न त्वचि इति धकारस्य द्वित्वम्

४९) स्थानिवदादेशोऽनल्विधौ (१.१.५६)॥ आदेशः स्थानिवत्स्यात् न तु स्थान्यलाश्रयविधौ अनेनेह यकारस्य स्थानिवद्भावेनाच्त्वमाश्रित्य अनचि च (कौ.- ४८) इति द्वित्वनिषेधो न शङ्क्योऽनल्विधावितीति तन्निषेधात्

५०) अचः परस्मिन् पूर्वविधौ (१.१.५७)॥ अल्विध्यर्थमिदम् परनिमित्तोऽजादेशः स्थानिवत्स्यात्स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये इति यणः स्थानिद्भावे प्राप्ते

५१) न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु (१.१.५८)॥ पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशो न स्थानिवत् इति स्थानिवद्भावनिषेधः

५२) झलां जश् झशि (८.४.५३)॥ स्पष्टम् इति धकारस्य दकारः

५३) अदर्शनं लोपः (१.१.६०)॥ प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्

५४) संयोगान्तस्य लोपः (८.२.२३)॥ संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात् इति यलोपे प्राप्ते॥ यणः प्रतिषेधो वाच्यः (वा.)। यणो मयो द्वे वाच्ये (वा.)॥ मय इति पञ्चमी यण इति षष्ठी इति पक्षे यकारस्यापि द्वित्वम् तदिह धकारयकारयोर्द्वित्वविकल्पाच्चत्वारि रूपाणि एकधमेकयम् द्विधं द्वियम् द्विधमेकयम् एकधं द्वियम् सुद्ध्युपास्यः मद्ध्वरिः धात्रंशः लाकृतिः

५५) नादिन्याक्रोशे पुत्रस्य (८.४.४८)॥ पुत्रशब्दस्य न द्वे स्त आदिनीशब्दे परे आक्रोशे गम्यमाने पुत्रादिनी त्वमसि पापे आक्रोशे किम् तत्वकथने द्विर्वचनं भवत्येव पुत्त्रादिनी सर्पिणी। तत्परे च (वा.)॥ पुत्रपुत्रादिनी त्वमसि पापे वा हतजग्धयोः (वा.)॥ पुत्रहती पुत्त्रहती पुत्रजग्धी पुत्त्रजग्धी

५६) त्रिप्रभृतिषु शाकटायनस्य (८.४.५०)॥ त्र्यादिषु संयुक्तेषु वा द्वित्वम् इन्न्द्रः इन्द्रः राष्ष्ट्रम् राष्ट्रम्

५७) सर्वत्र शाकल्यस्य (८.४.५१)॥ द्वित्वं न अर्कः ब्रह्मा

५८) दीर्घादाचार्याणाम् (८.४.५२)॥ द्वित्वं न दात्रम् पात्रम्

५९) अचो रहाभ्यां द्वे (८.४.४६)॥ अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः हर्य्यनुभवः नह्य्यस्ति

६०) हलो यमां यमि लोपः (८.४.६४)॥ हलः परस्य यमो लोपः स्याद्वा यमि इति लोपपक्षे द्वित्वाभावपक्षे चैकयं रूपं तुल्यम् लोपारम्भफलं तु, आदित्यो देवताऽस्येत्यादित्यं हविरित्यादौ यमां यमीति यथासङ्ख्यविज्ञानान्नेह माहात्म्यम्

६१) एचोऽयवायावः (६.१.७८)॥ एचः क्रमादय् अव् आय् आव् एते स्युरचि

६२) तस्य लोपः (१.३.९)॥ तस्येतो लोपः स्यात् इति यवयोर्लोपो न उच्चारणसामर्थ्यात् एवं च इत्संज्ञापीह न भवति हरये विष्णवे नायकः पावकः

६३) वान्तो यि प्रत्यये (६.१.७९)॥ यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः गोर्विकारो गव्यम् गोपयसोर्यत् (कौ.- १५३८) इति यत् नावा तार्यं नाव्यम् नौवयोधर्मं (कौ.- १६४३) इत्यादिना यत्॥ गोर्यूतौ छन्दस्युपसङ्ख्यानम् (वा.)। अध्वपरिमाणे च (वा.) (कौ.- ३५४४) गव्यूतिः ऊतियूति (कौ.- ३२७४) इत्यादिना यूतिशब्दो निपातितः वान्तः इत्यत्र वकाराद्गोर्यूतावित्यत्र छकाराद्वा पूर्वभागे लोपो व्योर्वली (कौ.- ८७३) ति लोपेन वकारः प्रश्लिष्यते तेन श्रूयमाणवकारान्त आदेशः स्यात् वकारो न लुप्यत इति यावत्

६४) धातोस्तन्निमित्तस्यैव (६.१.८०)॥ यादौ प्रत्यये परे धातोरेचश्चेद्वान्तादेशस्तर्हि तन्निमित्तस्यैव नान्यस्य लव्यम् अवश्यलाव्यम् तन्निमित्तस्यैवेति किम् ओयते औयत

६५) क्षय्यजय्यौ शक्यार्थे (६.१.८१)॥ यान्तादेशनिपातनार्थमिदम् क्षेतु शक्यं क्षय्यम् जेतु शक्यं जय्यम् शक्यार्थे किम् क्षेतुं योग्यं क्षेयं पापम् जेयं मनः

६६) क्रय्यस्तदर्थे (६.१.८२)॥ तस्मै प्रकृत्यर्थायेदं तदर्थम् क्रेतारः क्रीणीयुरिति बुद्ध्या आपणे प्रसारितं क्रय्यम् क्रेयमन्यत् क्रयणार्हमित्यर्थः

६७) लोपः शाकल्यस्य (८.३.१९)॥ अवर्णपूर्वयोः पदान्तयोर्यवयोर्वा लोपोऽशि परे पूर्वत्रासिद्धम् (कौ.- १२) इति लोपशास्त्रस्यासिद्धत्वान्न स्वरसन्धिः हर एहि हरयेहि विष्ण इह विष्णविह श्रिया उद्यतः श्रियायुद्यतः गुरा उत्कः गुरावुत्कः कानि सन्ति कौ स्तः इत्यत्रास्तेरल्लोपस्य स्थानिवत्त्वेन यणावादेशौ प्राप्तौ न पदान्ते (कौ.- ५१) ति सूत्रेण पदान्तविधौ तन्निषेधान्न स्तः

६८) एकः पूर्वपरयोः (६.१.८४)॥ इत्यधिकृत्य

६९) आद्गुणः (६.१.८७)॥ अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्संहितायाम् उपेन्द्रः रमेशः गङ्गोदकम्

७०) उरण् रपरः (१.१.५१)॥ ऋ इति त्रिंशतः संज्ञेत्युक्तम् तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते तत्रान्तरतम्यात् कृष्णर्द्धिरित्यत्राऽर् तवल्कार इत्यत्राऽल् अचो रहाभ्याम् (कौ.- ५१) इति पक्षे द्वित्वम्

७१) झरो झरि सवर्णे (८.४.६५)॥ हलः परस्य झरो लोपो वा स्यात्सवर्णे झरि द्वित्वाभावे लोपे सत्येकधम् असति लोपे द्वित्वलोपयोर्वा द्विधम् सति द्वित्वे लोपे चासति त्रिधम् कृष्णर्धिः कृष्णर्द्धिः कृष्णर्द्द्धिः यण इति पञ्चमी मय इति षष्ठीति पक्षे ककारस्य द्वित्वम् लस्य तु अनचि च (कौ.- ४८) इति तेन तवल्कार इत्यत्र रूपचतुष्टयम् द्वित्वं लस्यैव कस्यैव नोभयोरूभयोरपि तवल्कारादिषु बुधैर्बोध्यं रूपचतुष्टयम्

७२) वृद्धिरेचि (६.१.८८)॥ आदेचि परे वृद्धिरेकादेशः स्यात् गुणापवादः कृष्णैकत्वम् गङ्गौघः देवैश्वर्यम् कृष्णौत्कण्ठ्यम्

७३) एत्येधत्यूठ्सु (६.१.८९)॥ अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् पररूपगुणापवादः उपैति उपैधते प्रष्ठौहः एजाद्योः किम् उपेतः मा भवान्प्रेदिधत् पुरस्तादपवादन्यायेनेयं वृद्धिः एङि पररूपम् (कौ.- ७८) इत्यस्यैव बाधिका न तु ओमाङोश्च (कौ.- ८०) इत्यस्य तेनावैहीति वृद्धिरसाधुरेवअक्षादूहिन्यामुपसङ्ख्यानम् (वा.)॥ अक्षौहिणी सेना स्वादीरेरिणोः (वा.)॥ स्वेनेरितुं शीलमस्येति स्वैरी लिङ्विशिष्टपरिभाषया स्वैरिणी। प्रादूहोढोढ्येषैष्येषु (वा.)॥ प्रौहः प्रौढः अर्थवद्ग्रहणे नानर्थकस्य ग्रहणम् (प.)। व्रश्चे (कौ.- २९४) ति सूत्रे राजेः पृथग्भ्राजिग्रहणाज्ज्ञापकात् तेन ऊढग्रहणेन क्तान्तमेव गृह्यते न तु क्तवत्वन्तस्यैकदेशः प्रोढवान् प्रौढिः इष इच्छायां तुदादिः इष गतौ दिवादिः इष आभीक्ष्ण्ये क्र्यादिः एषां घञि ण्यति च एषः एष्यः इति रूपे तत्र पररूपे प्राप्तेऽनेन वृद्धिः प्रैषः प्रैष्यः यस्तु ईष उञ्छे यश्च ईष गतिहिंसादर्शनेषु तयोर्दीर्घोपधत्वात् ईषः ईष्यः तत्राद्गुणे प्रेषः प्रेष्यः॥ ऋते च तृतीयासमासे (वा.)॥ सुखेन ऋतः सुखार्तः तृतीयेति किम् परमर्तः॥ प्रवत्सतरकम्बलवसनार्णदशानामृणे (वा.)॥ प्रार्णम् वत्सतरार्णमित्यादि ऋणस्यापनयनाय यदन्यदृणं क्रियते तदृणार्णम् दशार्णो देशः नदी च दशार्णा ऋणशब्दो दुर्गभूमौ जले च

७४) उपसर्गादृति धातौ (६.१.९१)॥ अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात् उपार्च्छति प्रार्च्छति

७५) अन्तादिवच्च (६.१.८५)॥ योऽयमेकादेशः पूर्वस्यान्तवत्परस्यादिवत्स्यात् इति रेफस्य पदान्तत्वे

७६) खरवसानयोर्विसर्जनीयः (८.३.१५)॥ खरि अवसाने च परे रेफस्य विसर्जनीयः स्यात्पदान्ते इति विसर्गे प्राप्ते अन्तवद्भावेन पदान्तरेफस्य न विसर्गः उभयथर्क्षु (कौ.- ३६३०) कर्तरि चर्षिदेवतयो (कौ.- ३१६७) रित्यादिनिर्देशात् उपसर्गेणैव धातोराक्षेपे सिद्धे धाताविति योगविभागेन पुनर्वृद्धिविधानार्थम् तेन ऋत्यकः (कौ.- ९२) इति पाक्षिकोऽपि प्रकृतिभावोऽत्र न भवति

७७) वा सुप्यापिशलेः (६.१.९२)॥ अवर्णान्तादुपसर्गादृकारादौ सुब्धातौ परे वृद्धिर्वा स्यात् आपिशलिग्रहणं पूजार्थम् प्रार्षभीयति प्रर्षभीयति सावर्ण्यात् लृवर्णस्य ग्रहणम् प्राल्कारीयति प्रल्कारीयति तपरत्वाद्दीर्घे न उपऋकारीयति उपर्कारीयति

७८) एङि पररूपम् (६.१.९४)॥ आदुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यात् प्रेजते उपोषति इह वासुपीत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् तेन एङादौ सुब्धातौ वा उपेडकीयति उपैडकीयति प्रोघीयति प्रौघीयति एवे चानियोगे (वा.)॥ नियोगोऽवधारणम् क्वेव भोक्ष्यसे अनवक्लृप्तावेवशब्दः अनियोगे किम् तवैव

७९) अचोऽन्त्यादि टि (१.१.६४)॥ अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात्। शकन्ध्वादिषु पररूपं वाच्यम् (वा.)॥ तच्च टेः शकन्धुः कर्कन्धुः कुलटा। सीमन्तः केशवेशे (वा.)॥ सीमान्तोऽन्यः मनीषा हलीषा लाङ्गलीषा पतञ्जलिः सारङ्गः पशुपक्षिणोः सारङ्गोऽन्यः आकृतिगणोऽयम् मर्ताण्डः। ओत्वोष्ठयोः समासे वा (वा.)॥ स्थूलोतुः स्थूलौतुः बिम्बोष्ठः बिम्बौष्ठः समासे किम् तवौष्ठः

८०) ओमाङोश्च (६.१.९५)॥ ओमि आङि चात्परे पररूपमेकादेशः स्यात् शिवायों नमः शिव एहि शिवेहि

८१) अव्यक्तानुकरणस्यात इतौ (६.१.९८)॥ ध्वनेरनुकरणस्य योऽच्छब्दस्तस्मादितौ पररूपमेकादेशः स्यात् पटत् इति पटिति। एकाचो न (वा.)॥ श्रदिति

८२) नाम्रेडितस्यान्त्यस्य तु वा (६.१.९९)॥ आम्रेडितस्य प्रागुक्तं न स्यादन्त्यस्य तु तकारमात्रस्य वा स्यात्॥ डाचि बहुलं द्वे भवत ति बहुलवचनाद्द्वित्वम् (वा.)।

८३) तस्य परमाम्रेडितम् (८.१.२)॥ द्विरुक्तस्य परं रूपमाम्रेडितसंज्ञं स्यात् पटत्पटेति

८४) झलां जशोऽन्ते (८.२.३९)॥ पदान्तेझलां जशः स्युः पटत्पटदिति

८५) अकः सवर्णे दीर्घः (६.१.१०१)॥ अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् दैत्यारिः श्रीशः विष्णूदयः अचि किम् कुमारी शेते नाज्झलाविति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः अकः किम् हरये अकोऽकि दीर्घ इत्येव सुवचम्। ऋति सवर्णे ऋ वा (वा.)॥ होतृकारः॥ लृति सवर्णे लृ वा (वा.)॥ होत्लृकारः पक्षे ऋकारः सावर्ण्यात् ऋति ऋ वा लृति लृ वा इत्युभयत्रापि विधेयं वर्णद्वयं द्विमात्रम् आद्यस्य मध्ये द्वौ रेफौ तयोरेका मात्रा अभितोऽज्भक्तेरपरा द्वितीयस्य तु मध्ये द्वौ लकारौ शेषं प्राग्वत् इहोभयत्रापि ऋत्यकः (कौ.- ९२) इति पाक्षिकः प्रकृतिभावो वक्ष्यते

८६) एङः पदान्तादति (६.१.१०९)॥ पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् हरेऽव विष्णोऽव

८७) सर्वत्र विभाषा गोः (६.१.१२२)॥ लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः स्यात्पदान्ते गो अग्रम् गोऽग्रम् एङन्तस्य किम् चित्रग्वग्रम् पदान्ते किम् गोः

८८) अवङ् स्फोटायनस्य (६.१.१२३)॥ अतीति निवृत्तम् अचि परे पदान्ते गोरवङ् वा स्यात् गवाग्रम् पदान्ते किम् गवि व्यवस्थितविभाषया गवाक्षः

८९) इन्द्रे च नित्यम् (६.१.१२४)॥ गोरवङ् स्यादिन्द्रे गवेन्द्रः

॥इति सिद्धान्तकौमुद्याम् अच्सन्धिप्रकरणम्

No comments:

Post a Comment