A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Monday, November 23, 2020

सिद्धान्तकौमुद्यां स्वादिसन्धिप्रकरणम्

 सिद्धान्तकौमुद्यां स्वादिसन्धिप्रकरणम्


॥अथ सिद्धान्तकौमुद्यां स्वादिसन्धिप्रकरणम्॥

स्वौजसमौड् (कौ.- १८३) इति सुप्रत्यये शिवस् अर्च्यः इति स्थिते

१६२) ससजुषो रुः (८.२.६६)॥ पदान्तस्य सस्य सजुष्शब्दस्य च रुः स्यात् जश्त्वापवादः

१६३) अतो रोरप्लुतादप्लुते (६.१.११३)॥ अप्लुतादतः परस्य रोरुः स्यादप्लुतेऽति भोभगोअघो (कौ.- १६७) इति प्राप्तस्य यत्वस्यापवादः उत्वं प्रति रुत्वस्यासिद्धत्वं तु न भवति रुत्वमनूद्य उत्वविधेः सामर्थ्यात्

१६४) प्रथमयोः पूर्वसवर्णः (६.१.१०२)॥ अकः प्रथमाद्वितीययोरचि परे पूर्वसवर्णदीर्घ एकादेशः स्यात् इति प्राप्ते

१६५) नादिचि (६.१.१०४)॥ अवर्णादिचिपरे न पूर्वसवर्णदीर्घः आद्गुणः (कौ.- ६९) एङः पदान्तादति (कौ.- ८६) शिवोऽर्च्यः अत इति तपरः किम् देवा अत्र अतीति तपरः किम् श्व आगन्ता अप्लुतात्किम् एहि सुस्रोत३ अत्र स्नाहि प्लुतस्यासिद्धत्वादतः परोऽयम् अप्लुतादिति विशेषणे तु तत्सामर्थ्यान्नासिद्धत्वम् तपरकरणस्य तु न सामर्थ्यं दीर्घनिवृत्त्या चरितार्थत्वात् अप्लुते इति किम् तिष्ठतु पय अ३ग्निदत्त गुरोरनृत (कौ.- ९७) इति प्लुतः

१६६) हशि च (६.१.११४)॥ अप्लुतादतः परस्य रोरुः स्याद्धशि शिवो वन्द्यः रोरित्युकारानुबन्धग्रहणान्नेह प्रातरत्र भ्रातर्गच्छ देवास् इह इति स्थिते रुत्वम्

१६७) भोभगोअघोअपूर्वस्य योऽशि (८.३.१७)॥ एतत्पूर्वस्य रोर्यादेशः स्यादशि परे असन्धिः सौत्रः लोपः शाकल्यस्य (कौ.- ६७०) देवा इह देवायिह अशि किम् देवाः सन्ति यद्यपीह यत्वस्यासिद्धत्वाद्विसर्गो लभ्यते तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् नह्ययमल्विधिः रोरिति समुदायरूपाश्रयणात् भोस् भगोस् अघोस् इति सकारान्ता निपाताः तेषां रोर्यत्वे कृते

१६८) व्योर्लघुप्रयत्नतरः शाकटायनस्य (८.३.१८)॥ पदान्तयोर्वकारयकारयोर्लघूच्चारणौ वयौ वा स्तोऽशि परे यस्योच्चारणे जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं जायते स लघूच्चारणः

१६९) ओतो गार्ग्यस्य (८.३.२०)॥ ओकारात्परस्य पदान्तस्यालघुप्रयत्नस्य यकारस्य नित्यं लोपः स्यात् गार्ग्यग्रहणं पूजार्थम् भो अच्युत लघुप्रयत्नपक्षे भोयच्युत पदान्तस्य किम् तोयम्

१७०) उञि च पदे (८.३.२१)॥ अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोप उञि पदे स उ एकाग्निः पदे किम् तन्त्रयुतम् वेञः संप्रसारणे रूपम् यदि तु प्रतिपदोक्तो निपात उञिति ग्रहीष्यते तर्ह्युत्तरार्थं पदग्रहणम्

१७१) हलि सर्वेषाम् (८.३.२२)॥ भोभगोअघोअपूर्वस्य लघ्वलघूच्चारणस्य यकारस्य लोपः स्याद्धलि सर्वेषां मतेन भो देवाः भो लक्ष्मि भो विद्वद्वृन्द भगो नमस्ते अघो याहि देवा नम्याः देवा यान्ति हलि किम् देवायिह

१७२) रोऽसुपि (८.२.६९)॥ अह्नो रेफादेशः स्यान्न तु सुपि रोरपवादः अहरहः अहर्गणः असुपि किम् अहोभ्याम् अत्राहन्निति रुत्वम्रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् (वा.)॥ अहोरूपम् गतमहोरात्रिरेषा एकदेशविकृतस्यानन्यत्वादहोरात्रः अहोरथन्तरम्अहरादीनां पत्यादिषु वा रेफः (वा.)॥ विसर्गापवादः अहर्पतिः गीर्पतिः धूर्पतिः पक्षे विसर्गोपध्मानीयौ

१७३) रो रि (८.३.१४)॥ रेफस्य रेफे परे लोपः स्यात्

१७४) ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११)॥ ढरेफौ लोपयतीति तथा तस्मिन्वर्णेऽर्थाद् ढकाररेफात्मके परे पूर्वस्याणो दीर्घः स्यात् पुनारमते हरीरम्यः शंभूराजते अणः किम् तृढः वृढः तृहू हिंसायाम् वृहू उद्यमने पूर्वग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् लीढः अजर्घाः मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते

१७५) विप्रतिषेधे परं कार्यम् (१.४.२)॥ तुल्यबलविरोधे परं कार्यं स्यात् इति लोपे प्राप्ते पूर्वत्रासिद्धम् (कौ.- १२) इति रोरि (कौ.- १७३) इत्यस्यासिद्धत्वादुत्वमेव मनोरथः

१७६) एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (६.१.१३२)॥ अककारयोरेतत्तदोर्यः सुस्तस्य लोपः स्याद्धलि न तु नञ्समासे एष विष्णुः स शंभुः अकोः किम् एषको रुद्रः अनञ्समासे किम् असःशिवः हलि किम् एषोऽत्र

१७७) सोऽचि लोपे चेत् पादपूरणम् (६.१.१३४)॥ सस् इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्येत सेमामविड्ढि प्रभृतिं य ईशिषे इह ऋक्पाद एव गृह्यत इति वामनः अविशेषाच्छ्लोकपादोऽपीत्यपरे सैष दाशरथी रामः लोपे चेदिति किम् स इत् क्षेति स एव मुक्त्वा सत्येवेत्यवधारणं तु स्यश्छन्दसि बहुलम् (कौ.- ३५२६) इति पूर्वसूत्राद्बहुलग्रहणानुवृत्त्या लभ्यते तेनेह न सोऽहमाजन्मशुद्धानाम्

॥ इति सिद्धान्तकौमुद्यां स्वादिसन्धिप्रकरणम्॥

No comments:

Post a Comment