॥अथ सिद्धान्तकौमुद्याम् अजन्तपुँल्लिङ्गप्रकरणम्॥
१७८) अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (१.२.४५)॥ धातुं प्रत्ययं
प्रत्ययान्तं च वर्जयित्वार्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात्॥
१७९) कृत्तद्धितसमासाश्च (१.२.४६)॥ कृत्तद्धितान्तौ समासाश्च
प्रातिपदिकसंज्ञाः स्युः। पूर्वसूत्रेण सिद्धे समासग्रहणं नियमार्थम्। यत्र
सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव। तेन वाक्यस्य न॥
१८०) प्रत्ययः (३.१.१)॥ आपञ्चमपरिसमाप्तेः अधिकारः अयम्॥
१८१) परश्च (३.१.२)॥ अयमपि तथा॥
१८२) ङ्याप्प्रातिपदिकात् (४.१.१)॥ ङ्यन्तात् आबन्तात्
प्रातिपदिकात् चेति आपञ्चमपरिसमाप्तेः अधिकारः। प्रातिपदिकग्रहणे
लिङ्गविशिष्टस्यापि ग्रहणम् इत्येव सिद्धे ङ्याब्ग्रहणं ङ्याबन्तात्
तद्धितोत्पत्तिः यथा स्यात् ङ्याब्भ्यां प्राक् मा भूत् इत्येवमर्थम्।
१८३) स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्
(४.१.२)॥ ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः।
सुङस्योरुकारेकारौ जशटङपाश्चेतः॥
१८४) विभक्तिश्च (१.४.१०४)॥ सुप्तिङौ विभक्तिसंज्ञौ स्तः। तत्र
सु औ जस् इत्यादीनां सप्तानां त्रिकाणां प्रथमादयः सप्तम्यन्ताः प्राचां
संज्ञास्ताभिरिहापि व्यवहारः।
१८५) सुपः (१.४.१०३)॥ सुपस्त्रीणि त्रीणि वचनान्येकश
एकवचनद्विवचनबहुवचनसंज्ञानि स्युः॥
१८६) द्व्येकयोर्द्विवचनैकवचने (१.४.२२)॥ द्वित्वैकत्वयोरेते
स्तः॥
१८७) बहुषु बहुवचनम् (१.४.२१)॥ बहुत्वे एतत्स्यात्। रुत्वविसर्गौ।
रामः॥
१८८) सरूपाणामेकशेष एकविभक्तौ (१.२.६४)॥ एकविभक्तौ यानि
सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते। प्रथमयोः पूर्वसवर्णः (कौमुदी-१६४)।
नादिचि (कौमुदी-१६५) वृद्धिरेचि (कौमुदी-७२)। रामौ॥
१८९) चुटू (१.३.७)॥ प्रत्ययाद्यौ चुटू इतौ स्तः। इति
जस्येत्संज्ञायाम्।
१९०) न विभक्तौ तुस्माः (१.३.४)॥ विभक्तिस्थास्तवर्गसकारमकारा
इतो न स्युः। इति सकारस्य नेत्त्वम्॥
१९१) अतो गुणे (६.१.९७)॥ अपदान्तादकाराद्गुणे परतः पररूपमेकादेशः
स्यादिति प्राप्ते। परत्वात्पूर्वसवर्णदीर्घः। अतो गुणे (कौमुदी-१९१) इति हि
[(परिभाषा - ) पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्] इति न्यायेन अकः
सवर्णे (कौमुदी-८५) इत्यस्यैवापवादो नतु प्रथमयो (कौमुदी-१५४) रित्यस्यापि। रामाः॥
१९२) एकवचनं संबुद्धिः (२.३.४९)॥ संबोधने प्रथमाया एकवचनं
संबुद्धिसंज्ञं स्यात्॥
१९३) एङ्ह्रस्वात् सम्बुद्धेः (६.१.६९)॥ एङन्ताद्ध्रस्वान्ताच्चङ्गाद्धल्लुप्यते
संबुद्धेश्चेत्। संबुद्ध्याक्षिप्तस्याङ्गस्यैङ्ह्रस्वाभ्यां विशेषणान्नेह। हे
कतरत्कुलेति। हे राम। हे रामौ। हे रामाः। एङ्ग्रहणं किम्। हे हरे। हे विष्णो। अत्र
हि परत्वान्नित्यत्वाच्च संबुद्धिगुणे कृते ह्रस्वात्परत्वं नास्ति॥
१९४) अमि पूर्वः (६.१.१०७)॥ अकोऽम्यचि परतः पूर्वरूपमेकादेशः
स्यात्। रामम्। रामौ॥
१९५) लशक्वतद्धिते (१.३.८)॥ तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः
स्युः। इति शसः शस्येत्संज्ञा॥
१९६) तस्माच्छसो नः पुंसि (६.१.१०३)॥ पूर्वसवर्णदीर्घात्परो यः
शसः सकारस्तस्य नः स्यात्पुंसि॥
१९७) अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२)॥ अट्कवर्गपवर्ग आङ् नुम्
एतैर्व्यस्तैर्यथासंभवमिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः स्यात्समानपदे।
पदव्यवायेऽपी (कौमुदी-१०५७) ति निषेधं बाधितुमाङ्ग्रहणम्। नुम्ग्रहणमनुस्वारोपलक्षणार्थम्।
तच्चाऽकर्तुं शक्यम्। अयोगवाहानामट्सूपदेशस्योक्तत्वात्। इति णत्वे प्राप्ते॥
१९८) पदान्तस्य (८.४.३७)॥ पदान्तस्य नस्य णत्वं न स्यात्। रामान्॥
१९९) यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१.४.१३)॥ यः
प्रत्ययो यस्मात्क्रियते तदादि शब्दस्वरूपं तस्मिन्प्रत्यये परेऽङ्गसंज्ञं स्यात्।
भवामि भविष्यामीत्यादौ विकरणविशिष्यस्याऽङ्गसंज्ञार्थं तदादिग्रहणम्। विधिरिति
किम्। स्त्री इयती। प्रत्यये किम्। प्रत्ययविशिष्टस्य ततोऽप्यधिकस्य वा माभूत्॥
२००) अङ्गस्य (६.४.१)॥ इत्यधिकृत्य॥
२०१) टाङसिङसामिनात्स्याः (७.१.१२)॥ अकारान्तादङ्गाट्टादीनां
क्रमादिनादय आदेशाः स्युः। णत्वम्। रामेण॥
२०२) सुपि च (७.३.१०२)॥ यञादौ सुपि परेऽतोऽङ्गस्य दीर्घः स्यात्।
रामाभ्याम्॥
२०३) अतो भिस ऐस् (७.१.९)॥ अकारान्तादङ्गाद्भिस ऐस् स्यात्।
अनेकाल्त्वात्सर्वादेशः। रामैः॥
२०४) ङेर्यः (७.१.१३)॥ अतोऽङ्गात्परस्य ङे इत्यस्य यादेशः स्यात्।
रामाय। इह स्थानिवद्भावेन यादेशस्य सुस्वात् सुपि चेति दीर्घः। [(परिभाषा - )
संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्य] इति परिभाषा तु नेह प्रवर्तते। कष्टाय
क्रमणे (कौमुदी-२६७०) इत्यादिनिर्देशेन तस्या अनित्यत्वज्ञापनात्। रामाभ्याम्॥
२०५) बहुवचने झल्येत् (७.३.१०३)॥ झलादौ बहुवचने सुपि
परेऽतोऽङ्गस्यैकारः स्यात्। रामेभ्यः। बहुवचने किम्। रामः। रामस्य। झलि किम्।
रामाणाम्। सुपि किम्। पचध्वम्। जश्त्वम्।
२०६) वाऽवसाने (८.४.५६)॥ अवसाने झलां चरो वा स्युः। रामात्।
रामाद्। द्वित्वे रूपचतुष्टयम्। रामाभ्याम्। रामेभ्यः। रामस्य। सस्य द्वित्वपक्षे
खरि चे (कौमुदी-१२१) ति चर्त्त्वेऽप्यान्तरतम्यात्सस्य स एव न तु तकारः।
अल्पप्राणतया प्रयत्नभेदात्। अतएव सः सीति तादेश आरम्भ्यते॥
२०७) ओसि च (७.३.१०४)॥ ओसि परेऽतोऽङ्गस्यैकारः स्यात्। रामयोः॥
२०८) ह्रस्वनद्यापो नुट् (७.१.५४)॥ ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो
नुडागमः स्यात्॥
२०९) नामि (६.४.३)॥ नामि परेऽजन्ताङ्गस्य दीर्घः स्यात्।
रामाणाम्। सुपि चे (कौमुदी-२०२) ति दीर्घो यद्यपि परस्तथापीह न प्रवर्तते।
संनिपातपरिभाषाविरोधात्। नामि (कौमुदी-२०९) इत्यनेन त्वारम्भसामर्थ्यात्परिभाषा
बाध्यते। रामे। रामयोः। सुपि एत्वे कृते॥
२१०) अपदान्तस्य मूर्धन्यः (८.३.५५)॥ आ पादपरिसमाप्तेरधिकारोऽयम्॥
२११) इण्कोः (८.३.५७)॥ इत्यधिकृत्य॥
२१२) आदेशप्रत्यययोः (८.३.५९)॥ सहेः साडः सः (कौमुदी-३३५) इति
सूत्रात्स इति षष्ठ्यन्तं पदमनुवर्तते। इण्कवर्गाभ्यां परस्याऽपदान्तस्यादेशः
प्रत्ययावयवश्च यः सकारस्तस्य मूर्धन्यादेशः स्यात्। विवृताघोषस्य सस्य तादृश एव
षः। रामेषु। इण्कोः किम्। रामस्य। आदेशप्रत्यययोः किम्। सुपीः। सुपिसौ। सुपिसः।
अपदान्तस्य किम्। हरिस्तत्र। एवं कृष्णमुकुन्दादयः॥
२१३) सर्वादीनि सर्वनामानि (१.१.२७)॥ सर्वादीनि शब्दस्वरूपाणि
सर्वनामसंज्ञानि स्युः। तदन्तस्यापीयं संज्ञा। द्वन्द्वे चेति ज्ञापकात्। तेन
परमसर्वत्रेति त्रल् परमभवकानित्यत्राऽकच्च सिद्ध्यति॥
२१४) जसः शी (७.१.१७)॥ अदन्तत्सर्वनाम्नः परस्य जसः शी स्यात्।
अनेकाल्त्वात्सर्वादेशः। नचाऽर्वणस्तृ इत्यादाविव [(परिभाषा -
)नानुबन्धकृतमनेकाल्त्वम् इति वाच्यम्]। सर्वादेशत्वात्प्रागित्संज्ञायां
एवाऽभावात्। सर्वे॥
२१५) सर्वनाम्नः स्मै (७.१.१४)॥ अतः सर्वनाम्नो ङे इत्यस्य स्मै
स्यात्। सर्वस्मै॥
२१६) ङसिङ्योः स्मात्स्मिनौ (७.१.१५)॥ अतः सर्वनाम्नो
ङसिङ्योरेतौ स्तः। सर्वस्मात्॥
२१७) आमि सर्वनाम्नः सुट् (७.१.५२)॥ अवर्णान्तात्परस्य
सर्वनाम्नो विहितस्यामः सुडागमः स्यात्। एत्वषत्वे सर्वेषाम्। सर्वस्मिन्। शेषं
रामवत्। एवं विश्वादयोऽप्यदन्ताः। सर्वादयश्च पञ्चत्रिंशत्। सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, त्वत्, त्व नेम, सम, सिम॥ (गणसूत्रम् -) पूर्वपरावरदक्षिणोत्तरापराधराणि
व्यवस्थायामसंज्ञायाम्। (गणसूत्रम् -) स्वमज्ञातिधनाख्यायाम्। (गणसूत्रम् -)
अन्तरं बर्हिर्योगोपसंव्यानयोः। त्यद्,
तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम् - इति। उभशब्दो द्वित्वविशिष्टस्य वाचकः। अतएव नित्यं
द्विवचनान्तः। तस्येहपाठस्तूभकावित्यकजर्थः। नच कप्रत्ययेनेष्टसिद्धिः।
द्विवचनपरत्वाऽभावेनोभयत उभयत्रेत्यादाविवाऽयच्प्रसङ्गात्। तदुक्तम्।उभयोऽन्यत्र
(वार्तिकम्)॥ अन्यत्रेति द्विवचनपरत्वाऽभावे। उभयशब्दस्य द्विवचनं नास्तीति कैयटः।
अस्तीति हरदत्तः। तस्माज्जस्ययजादेशस्य स्थानिवद्भावेन तयप्प्रत्ययान्ततया
प्रथमचरमे (कौमुदी-२२६) ति विकल्पे प्राप्ते
विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वान्नित्यैव संज्ञा भवति। उभये। डतरडतमौ प्रत्ययौ।
[(परिभाषा - ) प्रत्ययग्रहणे तदन्ता ग्रह्याः]। यद्यपि [(परिभाषा - ) संज्ञाविधौ
प्रत्ययग्रहणे तदन्तग्रहण नास्ति] सुप्तिङन्त (कौमुदी-२९) मिति ज्ञापकात्। तथापीह
तदन्तग्रहणम्। केवलयोः संज्ञायाः प्रयोजनाऽभावात्। अन्यतरान्यतमशब्दावव्युत्पन्नौ
स्वभावाद्द्विबहुविषये निर्धारणे वर्तेते। तत्रान्यतमशब्दस्य गणे पाठाभावान्न
संज्ञा। त्वत्व इति द्वावप्यदन्तावन्यपर्यायौ। एक उदात्तोऽपरोऽनुदात्त इत्येके।
एकस्तान्त इत्यपरे। नेम इत्यर्थे। समः सर्वपर्यायः। तुल्यपर्यायस्तु नेह गृह्यते।
यथासङ्ख्यमनुदेशः समानामिति ज्ञापकात्।अन्तरं बहिर्योगेति (गणसूत्रम् -)
गणसूत्रेऽपुरीति वक्तव्यम् (वार्तिकम्)॥ अन्तरायां पुरि॥
२१८) पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् (१.१.३४)॥
एतेषां व्यवस्थायामसंज्ञायां सर्वनामसंज्ञा गणपाठात्सर्वत्र या प्राप्ता सा जसि वा
स्यात्। पूर्वे। पूर्वाः। स्वाऽभिधेयापेक्षावधिनियमो व्यवस्था। व्यवस्थायां किम्।
दक्षिणा गाथकाः। कुशला इत्यर्थः। असंज्ञायां किम्। उत्तराः कुरवः॥
२१९) स्वमज्ञातिधनाख्यायाम् (१.१.३५)॥ ज्ञातिधनान्यवाचिनः
स्वशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात्। स्वे। स्वाः। आत्मीया इत्यर्थः।
आत्मन इति वा। ज्ञातिधनवाचिनस्तु स्वाः। ज्ञातयोऽर्था वा॥
२२०) अन्तरं बहिर्योगोपसंव्यानयोः (१.१.३६)॥ बाह्ये परिधानीये
चार्थेऽन्तरशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात्। अन्तरे अन्तरा वा गृहाः।
बाह्या इत्यर्थः। अन्तरे अन्तरा वा शाटकाः। परिधानीया इत्यर्थः॥
२२१) पूर्वादिभ्यो नवभ्यो वा (७.१.१६)॥ एभ्यो ङसिङ्योः
स्मात्स्मिनौ वा स्तः। पूर्वस्मात्। पूर्वात्। पूर्वस्मिन्। पूर्वे। एवं
परादीनामपि। शेषं सर्ववत्। एकशब्दः सङ्ख्यायां नित्यैकवचनान्तः॥
२२२) न बहुव्रीहौ (१.१.२९)॥ बहुव्रीहौ चिकीर्षते सर्वनामसंज्ञा न
स्यात्। त्वकं पिता यस्य स त्वत्कपितृकः। अहकं पिता यस्य स मत्कपितृकः। इह
समासात्प्रागेव प्रक्रियावाक्ये सर्वनामसंज्ञा निषिध्यते। अन्यथां लौकिके
विग्रहवाक्ये इव त्राप्यकच् प्रवर्तेत। स च समासेऽपि श्रूयेत। अतिक्रान्तो
भवकन्तमतिभवकानितिवत्। भाष्यकारस्तु त्वकत्पितृको मकत्पितृक इति रूपे इष्टापत्तिं
कृत्वैतत्सूत्रं प्रत्याचख्यौ। यथोत्तरं मुनीनां प्रामाण्यम्॥संज्ञोपसर्जनीभूतास्तु
न सर्वादयः (वार्तिकम्)॥ महासंज्ञाकरणेन तदनुगुणानामेव गणे संनिवेशात्। अतः
संज्ञाकार्यमन्तर्गणकार्यं च तेषां न भवति। सर्वो नाम कश्चित्तस्मै सर्वाय देहि।
अतिक्रान्तः सर्वमतिसर्वस्तस्मै अतिसर्वाय देहि। अतिकतरं कुलम्। अतितत्॥
२२३) तृतीयासमासे (१.१.३०)॥ अत्र सर्वनामता न स्यात्। मासपूर्वाय।
तृतीयासमासाऽर्थवाक्येऽपि न। मासेन पूर्वाय॥
२२४) द्वन्द्वे च (१.१.३१)॥ द्वन्द्वे उक्ता संज्ञा न।
वर्णाश्रमेतराणाम्। समुदायस्यायं निषेधो न त्ववयवानाम्। नचैवं तदन्तविधिना
सुट्प्रसङ्गः। सर्वनाम्नो विहितस्यामः सुडिति व्याख्यातत्वात्॥
२२५) विभाषा जसि (१.१.३२)॥ जसाधारं यत्कार्यं शीभावाख्यं तत्र
कर्तव्ये द्वन्द्वे उक्ता संज्ञा वा स्यात्। वर्णाश्रमेतरे। वर्णाश्रमेतराः।
शीभावं प्रत्येव विभाषेत्युक्तमतो नाकच्। किंतु कप्रत्यय एव। वर्णाश्रमेतरकाः॥
२२६) प्रथमचरमतयाल्पार्धकतिपयनेमाश्च (१.१.३३)॥ एते जसः कार्यं
प्रत्युक्तसंज्ञा वा स्युः। प्रथमे। प्रथमाः। शेषं रामवत्। तयो
प्रत्ययस्ततस्तदन्ता ग्राह्याः। द्वितये। द्वितयाः। शेषं रामवत्। नेमे। नेमाः।
शेषं सर्ववत्।विभाषाप्रकरणे तीयस्य ङित्सूपसङ्ख्यानम् (वार्तिकम्)॥ द्वितीयस्मै।
द्वितीयायेत्यादि। एवं तृतीयः। अर्थवद्ग्रहणान्नेह। पटुजातीयाय॥ निर्जरः॥
२२७) जराया जरसन्यतरस्याम् (७.२.१०१)॥ जराशब्दस्य जरस् वा
स्यादजादौ विभक्तौ। [(परिभाषा - ) पदाङ्गाधिकारे तस्य च तदन्तस्य च]।
अनेकाल्त्वात्सर्वादेशे प्राप्ते। [(परिभाषा - ) निर्दिश्यमानस्यादेशा भवन्ति]।
एकदेशविकृतस्यानन्यत्वात् जरशब्दस्य जरस्। निर्जरसौ। निर्जरसः। इनादीन्बाधित्वा
परत्वाज्जरस्। निर्जरसा। निर्जरसे। निर्जरसः। पक्षे हलादौ च रामवत्। वृत्तिकृता तु
पूर्वविप्रतिषेधेन इनातोः कृतयोः संनिपातपरिभाषाया अनित्यत्वमाश्रित्य जरसि कृते
निर्जरसिन निर्जरसादिति रूपे न तु निर्जरसानिर्जरस इति केचिदित्युक्तम्। तथा भिसि
निर्जरसैरिति रूपान्तरमुक्तम्। तदनुसारिभिश्च षष्ठ्येकवचने निर्जरस्येत्येव रूपं
स्वीकृतम्। एतच्च भाष्यविरुद्धम्॥
२२८) पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु
(६.१.६३)॥ पाद, दन्त, नासिका, मास, हृदय, निशा, असृज्, यूष्, दोष्, यकृत्, शकृत्, उदक, आस्य एषां पदादय आदेशाः स्युः शसादौ वा। यत्तु आसनशब्दस्य
आसन्नादेश इति काशिकायामुक्तं तत्प्रामादिकम्। पादः। पादौ। पादाः। पादम्। पादौ।
पदः। पादान्। पदा। पादेन इत्यादि॥
२२९) सुडनपुंसकस्य (१.१.४३)॥ सुट् प्रत्याहारः। स्वादिपञ्चवचनानि
सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य॥
२३०) स्वादिष्वसर्वनामस्थाने (१.४.१७)॥ कप्प्रत्ययवधिषु
स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं पदसंज्ञं स्यात्॥
२३१) यचि भम् (१.४.१८)॥ यकारादिष्वजादिषु च कप्प्रत्ययवधिषु
स्वादिष्वसर्वनामस्थानेषु परतः पूर्वं भसंज्ञं स्यात्॥
२३२) आ कडारादेका संज्ञा (१.४.१)॥ इत ऊर्ध्वं कडाराः कर्मधारये
इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया। या पराऽनवकाशा च। तेन शसादावचि भसंज्ञैव न
पदत्वम्। अतो जश्त्वं न। दतः। दता। जश्त्वम्। दद्भ्यामित्यादि। मासः। मासा। भ्यामि
रुत्वे यत्वे च यलोपः। माभ्याम्। माभिरित्यादि॥
२३३) भस्य (६.४.१२९)॥ अधिकारोऽयम्॥
२३४) अल्लोपोऽनः (६.४.१३४)॥ अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो
योऽन् तस्याऽकारस्य लोपः स्यात्॥
२३५) रषाभ्यां नो णः समानपदे (८.४.१)॥ एकपदस्थाभ्यां
रेफषकाराभ्यां परस्य नस्य णः स्यात्। यूष्णः। यूष्णा। पूर्वस्मादपि विधौ
स्थानिवद्भाव इति पक्षे त्वड्व्यवाय इत्येवात्र णत्वम्॥पूर्वत्रासिद्धीये न
स्थानिवदिति तु इह नास्ति (वार्तिकम्)।तस्य दोषः संयोगादिलोपलत्वणत्वेष्विति
निषेधात् (वार्तिकम्)॥
२३६) नलोपः प्रातिपदिकान्तस्य (८.२.७)॥ नेति प्रातिपदिकेति च
लुप्तषष्ठीके पदे। प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नकारस्य लोपः स्यात्।
नलोपस्याऽसिद्धत्वाद्दीर्घत्वमेत्वमैस्त्वं च न। यूषभ्याम्। यूषभिः। यूषभ्य
इत्यादि॥
२३७) विभाषा ङिश्योः (६.४.१३६)॥ अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो
योऽन् तस्याऽकारस्य लोपो वा स्यात् ङिश्योः परयोः। यूष्णि। यूषणि। पक्षे रामवत्।
पद्दन्न (कौमुदी-२२८) इति सूत्रे प्रभृतिग्रहणं प्रकारार्थम्। तथाच। औङः श्यामपि
दोषन्नादेशो भाष्ये ककुद्दोषणी इत्युदाहृतः। तेन पदद्भिश्चरणोऽस्त्रियाम्, स्वान्तं ह्रन्मानसं मन इति सङ्गच्छते। आसन्यं प्राणमूचुरिति च। आस्ये भव
आसन्यः। दोष्शब्दस्य नपुंसकत्वमप्यत एव भाष्यात्। तेन दक्षिणं दोर्निशाचर इति
सङ्गच्छते। भुजबाहू प्रवेष्टो दोरिति साहचर्यात्पुंस्त्वमपि। दोषं तस्य तथाविधस्य
भजत इति द्वयोरह्नोर्भवो द्व्यह्नः॥
२३८) संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ (६.३.११०)॥ सङ्ख्यादिपूर्वस्याह्नस्याऽहनादेशो
वा स्यान् ङौ। द्व्यह्नि। द्व्यहनि। द्व्यह्ने। विगमहर्व्यह्नः। व्यह्नि। व्यहनि।
व्यह्ने। अह्नः सायः सायाह्नः। सायाह्नि। सायाहनि। सायाह्ने। इत्यदन्ताः॥ विश्वपाः॥
२३९) दीर्घाज्जसि च (६.१.१०५)॥ दीर्घाज्जसि इचि च परे प्रथमयोः
पूर्वसवर्णदीर्घो न स्यात्। वृद्धिः। विश्वपौ। सवर्णदीर्घः। विश्वपाः। यद्यपीह औङि
नादिची (कौमुदी-१६५) त्येव सिद्धं जसि तु सत्यपि पूर्वसवर्णदीर्घे क्षतिर्नास्ति
तथापि गौर्यौ गौर्य इत्याद्यर्थं सूत्रमिहापि न्याय्यत्वादुपन्यस्यम्॥
२४०) आतो धातोः (६.४.१४०)॥ आकारान्तो यो धातुस्तदन्तस्य
भस्याऽङ्गस्य लोपः स्यात्। अलोऽन्त्यस्य (कौमुदी-४२)। विश्वपः।
विश्वपाभ्यामित्यादि। एवं शङ्खाध्मादयः। धातोः किम्। हाहान्। टा सवर्णदीर्घः। हाहा।
ङे वृद्धिः। हाहै। ङसिङसोदीर्घः। हाहाः। ओसि वृद्धिः। हाहौः। ङौ आद्गुणः। हाहे।
शेषं विश्वपावत्। आत इति योगाविभागादधातोरप्याकारलोपः क्वचित्। क्त्त्वः। श्नः॥
इत्यादन्ताः॥ हरिः। प्रथमयोः पूर्वसवर्णः (कौमुदी-१६४) हरी॥
२४१) जसि च (७.३.१०९)॥ ह्रस्वान्तस्याऽङ्गस्य गुणः स्याज्जसि परे।
हरयः॥
२४२) ह्रस्वस्य गुणः (७.३.१०८)॥ ह्रस्वस्य गुणः स्यात्संबुद्धौ।एङ्ह्रस्वा
(कौमुदी-१९३) दिति संबुद्धिलोपः। हे हरे। हरिम्। हरी। हरीन्॥
२४३) शेषो घ्यसखि (१.४.७)॥ अनदीसंज्ञौ ह्रस्वौ याविदुतौ तदन्तं
सखिवर्जं घिसंज्ञं स्यात्। शेषः किम्। मत्यै। एकसंज्ञाधिकारात्सिद्धे शेषग्रहणं
स्पष्टार्थमिति तत्वम्। ह्रस्वौ किम्। वातप्रम्ये। इदुतौ किम्। मात्रे॥
२४४) आङो नाऽस्त्रियाम् (७.३.१२०)॥ घेः परस्याङो ना
स्यादस्त्रियाम्। आङिति टासञ्ज्ञा प्राचाम्। हरिणा। अस्त्रियां किम्। मत्या॥
२४५) घेर्ङिति (७.३.१११)॥ घिसंज्ञकस्य ङिति सुपि गुणः स्यात्।
हरये। घेः किम्। सख्ये। ङिति किम्। हरिभ्याम्। सुपि किम्। पट्वी। घेर्ङिती
(कौमुदी-२४५) ति गुणे कृते॥
२४६) ङसिङसोश्च (६.१.११०)॥ एङो ङसिङसोरति परे पूर्वरूपमेकादेशः
स्यात्। हरेः। हर्योः। हरीणाम्॥
२४७) अच्च घेः (७.३.११९)॥ इदुद्भ्यामुत्तरस्य ङेरौत्स्याद्
घेरन्तादेशश्चाकारः। हरौ। हर्योः। हरिषु। एवं श्रीपत्यग्निरविकव्यादयः॥
२४८) अनङ् सौ (७.१.९३)॥ सख्युरङ्गस्याऽनङादेशः स्यादसंबुद्धौ सौ
परे। ङिच्च (कौमुदी-४३) इत्यन्तादेशः॥
२४९) अलोऽन्त्यात् पूर्व उपधा (१.१.६५)॥ अन्त्यादलः पूर्वो वर्ण
उपधासंज्ञः स्यात्॥
२५०) सर्वनामस्थाने चासम्बुद्धौ (६.४.८)॥ नान्तस्योपधाया दीर्घः
स्यादसंबुद्धौ सर्वनामस्थाने परे॥
२५१) अपृक्त एकाल् प्रत्ययः (१.२.४१)॥ एकाऽल्प्रत्ययो यः
सोऽपृक्तसंज्ञः स्यात्॥
२५२) हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८)॥ हलन्तात्परं
दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते। हल्ङ्याब्भ्यः
किम्। ग्रामणीः। दीर्घात्किम्। निष्कौशाम्बिः। अतिखट्वः। सुतिसीति किम्। अभैत्सीत्।
तिपा सहचरितस्य सिपो ग्रहणात्सिचो ग्रहणं नास्ति। अपृक्तमिति किम्। बिभर्ति।
हल्किम्। बिभेद। प्रथमहल् किम्। राजा। नलोपो न स्यात् संयोगान्तलोपस्यासिद्धत्वात्।
सखा। हे सखे॥
२५३) सख्युरसम्बुद्धौ (७.१.९२)॥ सख्युरङ्गात्परं संबुद्धिवर्जं
सर्वनामस्थानं णिद्वत्स्यात्॥
२५४) अचो ञ्णिति (७.२.११५)॥ ञिति णिति च प्रत्यये
परेऽजन्ताङ्गस्य वृद्धिः स्यात्। सखायौ। सखायः। सखायम्। सखायौ। घिसंज्ञाऽभावान्न
तत्कार्यम्। सख्या। सख्ये॥
२५५) ख्यत्यात् परस्य (६.१.११२)॥ खितिशब्दाभ्यां खीतीशब्दाभ्यां
कृतयणादेशाभ्यां परस्य ङसिङसोरत उत्स्यात्। सख्युः॥
२५६) औत् (७.३.११८)॥ इदुद्भ्यां परस्य ङेरौत्स्यात्।
उकारानुवृत्तिरुत्तरार्था। सख्यौ। शेषं हरिवत्॥ शोभनः सखा सुसखा। सुसखायौ। सुसखायः।
अनङ्णिद्वद्भावयोराङ्गत्वात्तदन्तेऽपि प्रवृत्तिः। समुदायस्य सखिरूपत्वाभावात्
असखि (कौमुदी-२४३) इति निषेधाप्रवृत्तेर्घिसंज्ञा। सुसखिना। सुसखये। ङसिङसोर्गुणे
कृते कृतयणादेशत्वाभावात् ख्यत्यात् (कौमुदी-२५५) इत्युत्त्वं न। सुसखेः।
सुसखावित्यादि। एवमतिशयितः सखा अतिसखा। परमः सखा यस्येति विग्रहे। परमसखा।
परमसखायावित्यादि। गौणत्वेऽप्यनङ्णित्त्वे प्रवर्तेते। सखीमतिक्रान्तोऽतिसखिः।
लिङ्गविशिष्टपरिभाषाया अनित्यत्वान्न टच्। हरिवत्। इहाऽनङ्णित्त्वे न भवतः।
गोस्त्रियो (कौमुदी-६५६) रिति ह्रस्वत्वेन सखिशब्दस्य लाक्षणिकत्वात्। [(परिभाषा -
) लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणात्]॥
२५७) पतिः समास एव (१.४.८)॥ पतिशब्दः समास एव घिसंज्ञः स्यात्।
पत्या। पत्ये। पत्युः। पत्युः। पत्यौ। शेषं हरिवत्। समासे तु भूपतिना। भूपतये।
कतिशब्दो नित्यं बहुवचनान्तः॥
२५८) बहुगणवतुडति संख्या (१.१.२३)॥ एते सङ्ख्यासंज्ञाः स्युः॥
२५९) डति च (१.१.२५)॥ डत्यन्ता सङ्ख्या षट्संज्ञा स्यात्॥
२६०) प्रत्ययस्य लुक्श्लुलुपः (१.१.६१)॥ लुक्श्लुलुप्शब्दैः कृतं
प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात्॥
२६१) षड्भ्यो लुक् (७.१.२२)॥ षड्भ्यः परयोर्जश्शसोर्लुक्स्यात्॥
२६२) प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२)॥ प्रत्यये लुप्तेऽपि
तदाश्रितं कार्यं स्यात्। इति जसि चेति गुणे प्राप्ते॥
२६३) न लुमताङ्गस्य (१.१.६३)॥ लुक् श्लु लुप् एते लुमन्तः। लुमता
शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्। कति। कति। कतिभिः। कतिभ्यः। कतीभ्यः।
कतीनाम्। कतिषु। अस्मद्युष्मत्षट्संज्ञकास्त्रिषु सरूपाः। त्रिशब्दो नित्यं
बहुवचनान्तः। त्रयः। त्रीन्। त्रिभिः। त्रिभ्यः॥
२६४) त्रेस्त्रयः (७.१.५३)॥ त्रिशब्दस्य त्रयादेशः स्यादामि।
त्रयाणाम्। परमत्रयाणाम्। गौणत्वे तु नेति केचित्। प्रियत्रीणाम्। वस्तुतस्तु
प्रियत्रयाणाम्। त्रिषु। द्विशब्दो नित्यं द्विवचनान्तः॥
२६५) त्यदादीनामः (७.२.१०२)॥ एषामकारोऽन्तादेशः स्याद्विभक्तौ॥द्विपर्यन्तानामेवेष्टिः
(वार्तिकम्)॥ द्वौ २। द्वाभ्याम् ३। द्वयोः २। द्विपर्यन्तानां किम्। भवान्।
भवन्तौ। भवन्तः। संज्ञायामुपसर्जनत्वे च नात्वम्। सर्वाद्यन्तर्गणकार्यत्वात्।
द्विर्नाम कश्चित्। द्विः। द्वी। द्वावतिक्रान्तोऽतिद्विः। हरिवत्। प्राधान्ये तु
परमद्वावित्यादि॥ औडुलोमिः। औडुलोमी। बहुवचने तु उडुलोमाः।लोम्नोऽपत्येषु
बहुष्वकारो वक्तव्यः (वार्तिकम्)॥ बाह्वादीञोऽपवादः। औडुलोमिम्। औडुलोमी।
उडुलोमान्॥ इतीदन्ताः॥ वातप्रमीरित्युणादिसूत्रेण माङ ईप्रत्ययः स च कित्। वातं
प्रमिमीते वातप्रमीः। दीर्घज्जसि च। वातप्रम्यौ। वातप्रम्यः। हे वातप्रमीः। अमि
पूर्वः (कौमुदी-१९४)। वातप्रमीम्। वातप्रम्यौ। वातप्रमीन्। वातप्रम्या।
वातप्रमीभ्याम् ३। वातप्रम्ये। वातप्रम्यः २। वातप्रम्योः २। वातप्रम्याम्।
दीर्घत्वान्न नुट्। ङौ तु सवर्ण दीर्घः। वातप्रमी। वातप्रमीषु। एवं ययीपप्यादयः।
यान्त्यनेनेति ययीर्मार्गः। पाति लोकमिति पपीः सूर्यः। यापोः किद्द्वे च उ.
(कौमुदी-४३९) इति ईप्रत्ययः। क्विबन्तवातप्रमीशब्दस्य तु अमि शसि ङौ च विशेषः।
वातप्रम्यम्। वातप्रम्यः। वातप्रम्यि। एरनेकाचः (कौमुदी-२७२) इति वक्ष्यमाणो यण्
प्रधीवत्। बह्वयः श्रेयस्यो यस्य स बहुश्रेयसी। दीर्घङ्यन्तत्वात् हल्ङ्याब्
(कौमुदी-२५२) इति सुलोपः॥
२६६) यू स्त्र्याख्यौ नदी (१.४.३)॥ ईदूदन्तौ नित्यस्त्रीलिङ्गौ
नदीसंज्ञौ स्तः।प्रथमलिङ्गग्रहणं च (वार्तिकम्)॥ पूर्व
स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः॥
२६७) अम्बाऽर्थनद्योर्ह्रस्वः (७.३.१०७)॥ अम्बार्थानां
नद्यन्तानां च ह्रस्वः स्यात्संबुद्धौ। हे बहुश्रेयसि। शसि बहुश्रेयसीन्॥
२६८) आण्नद्याः (७.३.११२)॥ नद्यन्तात्परेषां ङितामाडागमः स्यात्॥
२६९) आटश्च (६.१.९०)॥ आटोऽचि परे वृद्धिरेकादेशः स्यात्।
बहुश्रेयस्यै। बहुश्रेयस्याः। नद्यन्तात्परत्वान्नुट्। बहुश्रेयसीनाम्॥
२७०) ङेराम्नद्याम्नीभ्यः (७.३.११६)॥ नद्यन्तादाबन्तान्नीशब्दाच्च
ङेराम् स्यात्। इह परत्वादाटा नुड्बाध्यते। बहुश्रेयस्याम्।
शेषमीप्रत्ययान्तवातप्रमीवत्। अङ्यन्तत्वान्न सुलोपः। अतिलक्ष्मीः। शेषं
बहुश्रेयसीवत्। कुमारीमिच्छन् कुमारीवाचरन्वा ब्राह्मणः कुमारी।
क्यजन्तादाचारक्विबन्ताद्वा कर्तरि क्विप्। हल्ङ्याब् (कौमुदी-२५२) इति सुलोपः॥
२७१) अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७)॥ श्नुप्रत्ययान्तस्य
इवर्णोवर्णान्तधातोर्भ्रू इत्यस्य चाङ्गस्येयङुवङौ स्तोऽजादौ प्रत्यये परे।
ङिच्चेत्यन्तादेशः। आन्तरतम्यादेरियङ् ओरुवङ्। इतीयङि प्राप्ते॥
२७२) एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२)॥ धात्ववयवसंयोगपूर्वो न भवति
य इवर्णस्तदन्तो यो धातुस्तदन्तस्याऽनेकाचोऽङ्गस्य यण्स्यादजादौ प्रत्यये परे। इति
यण्। कुमार्यौ कुमार्यः। हे कुमारि। अमि शसि च। कुमार्यम्। कुमार्यः। कुमार्यै।
कुमार्याः २। कुमारीणाम्। कुमार्याम्। प्रधीः। प्रध्यौ। प्रध्यः। प्रध्यम्।
प्रध्यः। उन्नयतीत्युन्नीः। धातुना संयोगस्य विशेषणादिह स्यादेव यण्। उन्न्यौ।
उन्न्यः। हे उन्नीः। उन्न्यम्। ङेराम्। उन्न्याम्। एवं ग्रामणीः। अनेकाचः किम्।
नीः। नियौ। नियः। अमि शसि च परत्वादियङ्। नियम्। नियः। ङेराम्। नियाम्।
असंयोगपूर्वस्य किम्। सुश्रियौ। यवक्रियौ॥गतिकारकेतरपूर्वपदस्य यण्नेष्यते
(वार्तिकम्)॥ शुद्धधियौ। परमधियौ। कथं तर्हि दुर्धियो वृश्चिकभियेत्यादि। उच्यते।
दुःस्थिता धीर्येषामिति विग्रहे दुरित्यस्य धीशब्दं प्रति गतित्वमेव नास्ति।
यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसंज्ञाः। वृश्चिकशब्दस्य
बुद्धिकृतमपादानत्वं नेह विवक्षितम्। वृश्चिकसंबन्धिनी
भीर्वृश्चिकभीरित्युत्तरपदलोपो वा॥
२७३) न भूसुधियोः (६.४.८५)॥ एतयोर्यण्न स्यादचि सुपि। सुधियौ।
सुधियः इत्यादि॥ सखायमिच्छति सखीयति। ततः क्विप्। अल्लोपयलोपौ। अल्लोपस्य स्थानिवत्त्वाद्यणि
प्राप्ते॥क्वौ लुप्तं न स्थानिवत् (वार्तिकम्)॥ एकदेशविकृतस्यानन्यतयाऽनङ्णित्त्वे।
सखा। सखायौ। सखायः। हे सखीः। अमि पूर्वरूपात्परत्वाद्यणि प्राप्ते ततोऽपि
परत्वात्सख्युरसंबुद्धा (कौमुदी-२५३) विति प्रवर्त्तते। सखायम्। सखायौ। शसि यण्। सख्यः।
सह खेन वर्तत इति सखः। तमिच्छतीति सखीः। सुखमिच्छतीति सुखीः। सुतमिच्छतीति सुतीः।
सख्यौ। सुख्यौ। सुत्यौ। ख्यत्या (कौमुदी-२५५) दिति दीर्घस्यापि ग्रहणादुकारः।
सख्युः। सुख्युः। सुत्युः। लूनमिच्छतीति लूनीः। क्षाममिच्छतीति क्षामीः।
प्रस्तीममिच्छतीति प्रस्तीमीः। एषां ङसिङसोर्यण्। नत्वमत्वयोरसिद्धत्वात् ख्यत्या
(कौमुदी-२५५) दित्युत्वम्। लून्युः। क्षाम्युः। प्रस्तीम्युः। शुष्क्रीयतेः क्विप्।
शुष्कीः। इयङ्। शुष्कियौ। शुष्कियः। ङसिङसोः। शुष्किय इत्यादि। इतीदन्ताः॥
शम्भुर्हरिवत्। एवं विष्णुवायुभान्वादयः॥
२७४) तृज्वत् क्रोष्टुः (७.१.९५)॥ क्रोष्टुशब्दस्तृजन्तेन तुल्यं
वर्तते असंबुद्धौ सर्वनामस्थाने परे। क्रोष्टुशब्दस्य स्थाने क्रोष्ट्टशब्दः
प्रयोक्तव्य इत्यर्थः॥
२७५) ऋतो ङिसर्वनामस्थानयोः (७.३.११०)॥ ङौ सर्वनामस्थाने च परे
ऋदन्ताङ्गस्य गुणः स्यात्। इति प्राप्ते॥
२७६) ऋदुशनस्पुरुदंसोऽनेहसां च (७.१.९४)॥ ऋदन्तानामुशनसादीनां
चाऽनङ् स्यादसंबुद्धौ सौ परे॥
२७७) अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्
(६.४.११)॥ अबादीनामुपधाया दीर्घः स्यादसंबुद्धौ सर्वनामस्थाने परे। नप्त्रादिग्रहणं
व्युत्पत्तिपक्षे नियमार्थम्। उणादिनिष्पन्नानां तृन्तृजन्तानां चेद्भवति तर्हि
नप्त्रादीनामेव॥ तेन पितृभ्रातृप्रभृतीनां न। उद्गातृशब्दस्य तु भवत्येव। समर्थ
(कौमुदी-६४७) सूत्रे उद्गातार इति भाष्यप्रयोगात्। क्रोष्टा। क्रोष्टारौ।
क्रोष्टारः। क्रोष्टारम्। क्रोष्टारौ। क्रोष्टून्॥
२७८) विभाषा तृतीयादिष्वचि (७.१.९७)॥ अजादिषु तृतीयादिषु
क्रोष्टुर्वा तृज्वत्। क्रोष्ट्रा। क्रोष्ट्रे॥
२७९) ऋत उत् (६.१.१११)॥ ऋदन्तान्ङसिङसोरति परे उकार एकादेशः
स्यात्। रपरत्वम्॥
२८०) रात्सस्य (८.२.२४)॥ रेफात्संयोगान्तस्य सस्यैव लोपो
नान्यस्य। रेफस्य विसर्गः। क्रोष्टुः। आमि परत्वात्तृज्वद्भावे प्राप्ते।नुमचिरतृज्वद्भावेभ्यो
नुट् पूर्वविप्रतिषेधेन (वार्तिकम्)॥ क्रोष्टूनाम्। क्रोष्टरि। क्रोष्ट्रोः। पक्षे
हलादौ च शम्भुवत्॥ इत्युदन्ताः॥ हूहूः। हूह्वौ। हूह्वः। हूहूम्। हूह्वौ।
हूहूनित्यादि। अतिचमूशब्दे तु नदीकार्यं विशेषः। हे अतिचमु। अतिचम्वै। अतिचम्वाः।
अतिचम्वाः। अतिचमूनाम्। अतिचम्वाम्। खलपूः॥
२८१) ओः सुपि (६.४.८३)॥ धात्ववयवसंयोगपूर्वो न भवति य
उवर्णस्तदन्तो यो धातुस्तदन्तस्याऽनेकाचोऽङ्गस्य यण् स्यादजादौ सुपि॥गतिकारकेतरपूर्वपदस्य
यण्नेष्यते (वार्तिकम्)॥ खलप्वौ। खलप्व इत्यादि। एवं सुल्वादयः। अनेकाचः किम्। लूः
लुवौ। लुवः। धात्ववयवेति किम्। उल्लूः। उल्ल्वौ। उल्ल्वः। असंयोगपूर्वस्य किम्।
कटप्रुवौ। कटप्रुवः। गतीत्यादि किम्। परमलुवौ। सुपि किम्। लुलुवतुः। स्वभूः। न
भूसुधियोः (कौमुदी-२७३)। स्वभुवौ। स्वभुवः॥
२८२) वर्षाभ्वश्च (६.४.८४)॥ अस्योवर्णस्य यण् स्यादचि सुपि।
वर्षाभ्वौ। वर्षाभ्वः। दृम्भतीति दृम्भूः। अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषू
(कौमुदी-९३) रित्युणादिसूत्रेण व्युत्पादितः। दृम्भ्वौ। दृम्भ्वः। दृम्भूम्।
दृम्भ्वौ। दृम्भून्। शेषं हूहूवत्। दृन्निति नान्ते हिंसार्थेऽव्यये भुवः क्विप्।
दृन्भूः।दृन्करपुनः पूर्वस्य भुवो यण्वक्तव्यः (वार्तिकम्)॥ दृन्भ्वौ। दृन्भ्व
इत्यादि खलपूवत्। करभ्वौ। करभ्वः। दीर्घपाठे तु कर एव कारः। स्वार्थिकः प्रज्ञाद्यण्।
कारभ्वौ। कारभ्वः। पुनर्भूर्यौगिकः पुंसि। पुनर्भ्वावित्यादि। दृग्भूकाराभूशब्दौ
स्वम्भूवत्॥ इत्यूदन्ताः॥ धाता। हे धातः। धातारौ। धातारः।ऋवर्णान्नस्य णत्वं
वाच्यम् (वार्तिकम्)॥ धातॄणामित्यादि। एवं नप्त्रादयः। उद्गातारौ। पिता व्युत्पत्तिपक्षे
नप्त्रादिग्रहणस्य नियमार्थत्वान्नदीर्घः। पितरौ। पितरः। पितरम्। पितरौ। शेषं
धातृवत्। एवं जामातृभ्रात्रादयः॥ ना। नरौ। नरः। हे नः॥
२८३) नृ च (६.४.६)॥ नृ इत्येतस्य नामि वा दीर्घः स्यात्। नॄणाम्।
नृणाम्। इति ऋदन्ताः॥ कॄ तॄ अनयोरनुकरणे [(परिभाषा - ) प्रकृतिवदनुकरणम्] इति
वैकल्पिकातिदेशादित्त्वे रपरत्वम्। कीः। किरौः। किरः। तीः। तिरौ। तिरः। इत्यादि
गीर्वत्। इत्त्वाऽभावपक्षे तु ऋदुशन सू (कौमुदी-२७६) इति ऋतो ङी (कौमुदी-२७५) ति च
तपरकरणादनङ्गुणौ न। कॄः। क्रौ। क्रः। कॄम्। क्रौ। कॄन्। क्रा। क्रे इत्यादि।
इत्यॄदन्ताः॥ गम्लृ शक्लृ अनयोरनुकरणेऽनङ्। गमा। शका। गुणविषये तु लपरत्वम्। गमलौ।
गमलः। गमलम्। गमलौ। गमॄन्। गम्ला। गम्ले। ङसिङसोस्तु ऋत उ (कौमुदी-२७९)
दित्युत्त्वे लपरत्वे संयोगान्तस्य लोपः। गमुल्। शकुलित्यादि। इति लृदन्ताः॥ सेः।
सयौ। सयः। स्मृतेः। स्मृतयौ। स्मृतयः। इत्येदन्ताः॥
२८४) गोतो णित् (७.१.९०)॥ गोशब्दात्परं सर्वनामस्थानं णिद्वत्
स्यात्। गौः। गावौ। गावः॥
२८५) औतोऽम्शसोः (६.१.९३)॥ आ ओत इति छेदः। ओकारादम्शसोरचि परे
आकार एकादेशः स्यात्। शसा साहचर्यात्सुबेव अम् गृह्यते। नेह। अचिनवम्। असुनवम्।
गाम्। गावौ। गाः। गवा। गवे। गोः। गोः। इत्यादि॥ओतो णिदिति वाच्यम् (वार्तिकम्)॥
विहितविशेषणं च। तेन सुद्यौः। सुद्यावौ। सुद्यावः इत्यादि। ओकारान्ताद्विहितं
सर्वनामस्थानमिति व्याख्यानान्नेह। हे भानो। हे भानवः। उः शम्भुः स्मृतो येन सः
स्मृतौः। स्मृतावौ। स्मृतावः। स्मृताम्। स्मृतावौ। स्मृताः। इत्यादि। इत्योदन्ताः॥
२८६) रायो हलि (७.२.८५)॥ रैशब्दस्याऽऽकारोऽन्तादेशः स्याद्धलि
विभक्तौ। अचि आयादेशः। राः। रायौ। रायः। रायम्। रायौ। रायः। राया। राभ्यामित्यादि।
इत्यैदन्ताः। ग्लौः। ग्लावौ। ग्लावः। ग्लावम्। ग्लावौ। ग्लावः। इत्यादि।
औतोऽम्शसोरितीह न प्रवर्तते। ऐऔजिति सूत्रेण ओदौतोः सावर्ण्याऽभावज्ञापनात्। इत्यौदन्ताः॥
॥इति सिद्धान्तकौमुद्याम्
अजन्तपुंल्लिङ्गप्रकरणम्॥
No comments:
Post a Comment