वरदराजाचार्यप्रणीता
लघुसिद्धान्तकौमुदी
॥अथ लघुसिद्धान्तकौमुद्याम् अजन्तपुंल्लिङ्गाः॥
११५. अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (१.२.४५)॥ धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात्॥
११६. कृत्तद्धितसमासाश्च (१.२.४६)॥ कृत्तद्धितान्तौ समासाश्च तथा स्युः॥
११७. स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् (४.१.२)॥ सु औ जस् इति प्रथमा। अम् औट् शस् इति द्वितीया। टा भ्याम् भिस् इति तृतीया। ङे भ्याम् भ्यस् इति चतुर्थी। ङसि भ्याम् भ्यस् इति पञ्चमी। ङस् ओस् आम् इति षष्ठी। ङि ओस् सुप् इति सप्तमी॥
११८. ङ्याप्प्रातिपदिकात् (४.१.१)॥
११९. प्रत्ययः (३.१.१)॥
१२०. परश्च (३.१.२)॥ इत्यधिकृत्य। ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः॥
१२१. सुपः (१.४.१०३)॥ सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः॥
१२२. द्व्येकयोर्द्विवचनैकवचने (१.४.२२)॥ द्वित्वैकत्वयोरेते स्तः॥
१२३. विरामोऽवसानम् (१.४.११०)॥ वर्णानामभावोऽवसानसंज्ञः स्यात्। रुत्वविसर्गौ। रामः॥
१२४. सरूपाणामेकशेष एकविभक्तौ (१.२.६४)॥ एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते॥
१२५. प्रथमयोः पूर्वसवर्णः (६.१.१०२)॥ अकः प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेशः स्यात्। इति प्राप्ते॥
१२६. नादिचि (६.१.१०४)॥ आदिचि न पूर्वसवर्णदीर्घः। वृद्धिरेचि। रामौ॥
१२७. बहुषु बहुवचनम् (१.४.२१)॥ बहुत्वविवक्षायां बहुवचनं स्यात्॥
१२८. चुटू (१.३.७)॥ प्रत्ययाद्यौ चुटू इतौ स्तः॥
१२९. विभक्तिश्च (१.४.१०४)॥ सुप्तिङौ विभक्तिसंज्ञौ स्तः॥
१३०. न विभक्तौ तुस्माः (१.३.४)॥ विभक्तिस्थास्तवर्गसमा नेतः। इति सस्य नेत्त्वम्। रामाः॥
१३१. एकवचनं संबुद्धिः (२.३.४९)॥ सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात्॥
१३२. यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् (१.४.१३)॥ यः प्रत्ययो यस्मात् क्रियते तदादिशब्दस्वरूपं तस्मिन्नङ्गं स्यात्॥
१३३. एङ्ह्रस्वात् सम्बुद्धेः (६.१.६९)॥ एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते सम्बुद्धेश्चेत्। हे राम। हे रामौ। हे रामाः॥
१३४. अमि पूर्वः (६.१.१०७)॥ अकोऽम्यचि पूर्वरूपमेकादेशः। रामम्। रामौ॥
१३५. लशक्वतद्धिते (१.३.८)॥ तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः॥
१३६. तस्माच्छसो नः पुंसि (६.१.१०३)॥ पूर्वसवर्णदीर्घात्परो यः शसः सस्तस्य नः स्यात्पुंसि॥
१३७. अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२)॥ अट् कवर्गः पवर्गः आङ् नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः समानपदे। इति प्राप्ते॥
१३८. पदान्तस्य (८.४.३७)॥ नस्य णो न। रामान्॥
१३९. टाङसिङसामिनात्स्याः (७.१.१२)॥ अदन्ताट्टादीनामिनादयः स्युः। णत्वम्। रामेण॥
१४०. सुपि च (७.३.१०२)॥ यञादौ सुपि अतोऽङ्गस्य दीर्घः। रामाभ्याम्॥
१४१. अतो भिस ऐस् (७.१.९)॥ अनेकाल्शित्सर्वस्य। रामैः॥
१४२. ङेर्यः (७.१.१३)॥ अतोऽङ्गात्परस्य ङेयदिशः॥
१४३. स्थानिवदादेशोऽनल्विधौ (१.१.५६)॥ आदेशः स्थानिवत्स्यान्न तु स्थान्यलाश्रयविधौ। इति स्थानिवत्त्वात् सुपि चेति दीर्घः। रामाय। रामाभ्याम्॥
१४४. बहुवचने झल्येत् (७.३.१०३)॥ झलादौ बहुवचने सुप्यतोऽङ्गस्यैकारः। रामेभ्यः। सुपि किम्? पचध्वम्॥
१४५. वाऽवसाने (८.४.५६)॥ अवसाने झलां चरो वा। रामात्, रामाद्। रामाभ्याम्। रामेभ्यः। रामस्य॥
१४६. ओसि च (७.३.१०४)॥ अतोऽङ्गस्यैकारः। रामयोः॥
१४७. ह्रस्वनद्यापो नुट् (७.१.५४)॥ ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः॥
१४८. नामि (६.४.३)॥ अजन्ताङ्गस्य दीर्घः। रामाणाम्। रामे। रामयोः। सुपि एत्त्वे कृते॥
१४९. आदेशप्रत्यययोः (८.३.५९)॥ इण्कुभ्यां परस्यापदान्तस्यादेशस्य प्रत्ययावयवस्य यः सस्तस्य मूर्धन्यादेशः। ईषद्विवृतस्य सस्य तादृश एव षः। रामेषु। एवं कृष्णादयोऽप्यदन्ताः॥
१५०. सर्वादीनि सर्वनामानि (१.१.२७)॥ सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्। स्वमज्ञातिधनाख्यायाम्। अन्तरं बहिर्योगोपसंव्यानयोः। त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम्॥
१५१. जसः शी (७.१.१७)॥ अदन्तात्सर्वनाम्नो जसः शी स्यात्। अनेकाल्त्वात्सर्वादेशः। सर्वे॥
१५२. सर्वनाम्नः स्मै (७.१.१४)॥ अतः सर्वनाम्नो डेः स्मै। सर्वस्मै॥
१५३. ङसिङ्योः स्मात्स्मिनौ (७.१.१५)॥ अतः सर्वनाम्न एतयोरेतौ स्तः। सर्वस्मात्॥
१५४. आमि सर्वनाम्नः सुट् (७.१.५२)॥ अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः। एत्वषत्वे। सर्वेषाम्। सर्वस्मिन्। शेषं रामवत्। एवं विश्वादयोऽप्यदन्ताः॥ उभशब्दो नित्यं द्विवचनान्तः। उभौ उभौ। उभाभ्याम् उभाभ्याम् उभाभ्याम्। उभयोः उभयोः। तस्येह पाठोऽकजर्थः। उभयशब्दस्य द्विवचनं नास्ति। उभयः। उभये। उभयम्। उभयान्। उभयेन। उभयैः। उभयस्मै। उभयेभ्यः। उभयस्मात्। उभयेभ्यः। उभयस्य। उभयेषाम्। उभयस्मिन्। उभयेषु॥ डतरडतमौ प्रत्ययौ, प्रत्ययग्रहणे तदन्तग्रहणमिति तदन्ता ग्राह्याः॥ नेम इत्यर्धे॥ समः सर्वपर्यायस्तुल्यपर्यायस्तु न, यथासंख्यमनुदेशः समानामिति ज्ञापकात्॥
१५५. पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् (१.१.३४)॥ एतेषां व्यवस्थायामसंज्ञायां च सर्वनामसंज्ञा गणसूत्रात्सर्वत्र या प्राप्ता सा जसि वा स्यात्। पूर्वे, पूर्वाः। असंज्ञायां किम्? उत्तराः कुरवः। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। व्यवस्थायां किम्? दक्षिणा गाथकाः, कुशला इत्यर्थः॥
१५६. स्वमज्ञातिधनाख्यायाम् (१.१.३५)॥ ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा। स्वे, स्वाः; आत्मीयाः, आत्मान इति वा। ज्ञातिधनवाचिनस्तु, स्वाः; ज्ञातयोऽर्था वा॥
१५७. अन्तरं बहिर्योगोपसंव्यानयोः (१.१.३६)॥ बाह्ये परिधानीये चार्थऽन्तरशब्दस्य प्राप्ता संज्ञा जसि वा। अन्तरे, अन्तरा वा गृहाः , बाह्या इत्यर्थः। अन्तरे, अन्तरा वा शाटकाः परिधानीया इत्यर्थः॥
१५८. पूर्वादिभ्यो नवभ्यो वा (७.१.१६)॥ एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः। पूर्वस्मात्, पूर्वात्। पूर्वस्मिन्, पूर्वे। एवं परादीनाम्। शेषं सर्ववत्॥
१५९. प्रथमचरमतयाल्पार्धकतिपयनेमाश्च (१.१.३३)॥ एते जसि उक्तसंज्ञा वा स्युः। प्रथमे, प्रथमाः॥तयः प्रत्ययः। द्वितये, द्वितयाः। शेषं रामवत्॥नेमे, नेमाः। शेषं सर्ववत्॥ तीयस्य ङित्सु वा (वार्तिकम्)। द्वितीयस्मै, द्वितीयायेत्यादि। एवं तृतीयः॥निर्जरः॥
१६०. जराया जरसन्यतरस्याम् (७.२.१०१)॥ अजादौ विभक्तौ। पदाङ्गाधिकारे तस्य च तदन्तस्य च (परिभाषा)। निर्दिश्यमानस्यादेशा भवन्ति (परिभाषा)। एकदेशविकृतमनन्यवत् (परिभाषा), इति जरशब्दस्य जरस्। निर्जरसौ। निर्जरस इत्यादि। पक्षे हलादौ च रामवत्॥विश्वपाः॥
१६१. दीर्घाज्जसि च (६.१.१०५)॥ दीर्घाज्जसि इचि च परे पूर्वसवर्णदीर्घो न स्यात्। विश्वपौ। विश्वपाः। हे विश्वपाः। विश्वपाम्। विश्वपौ॥
१६२. सुडनपुंसकस्य (१.१.४३)॥ स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य॥
१६३. स्वादिष्वसर्वनामस्थाने (१.४.१७)॥ कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात्॥
१६४. यचि भम् (१.४.१८)॥ यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसंज्ञं स्यात्॥
१६५. आ कडारादेका संज्ञा (१.४.१)॥ इत ऊर्ध्वं कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया। या परानवकाशा च॥
१६६. आतो धातोः (६.४.१४०)॥ आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः। अलोऽन्त्यस्य। विश्वपः। विश्वपा। विश्वपाभ्यामित्यादि। एवं शङ्खध्मादयः। धातोः किम्? हाहान्॥हरिः। हरी॥
१६७. जसि च (७.३.१०९)॥ ह्रस्वान्तस्याङ्गस्य गुणः। हरयः॥
१६८. ह्रस्वस्य गुणः (७.३.१०८)॥ सम्बुद्धौ। हे हरे। हरिम्। हरी। हरीन्॥
१६९. शेषो घ्यसखि (१.४.७)॥ शेष इति स्पष्टार्थम्। ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञम्॥
१७०. आङो नाऽस्त्रियाम् (७.३.१२०)॥ घेः परस्याङो ना स्यादस्त्रियाम्। आङिति टासंज्ञा। हरिणा। हरिभ्याम्। हरिभिः॥
१७१. घेर्ङिति (७.३.१११)॥ घिसंज्ञस्य ङिति सुपि गुणः। हरये। हरिभ्याम्। हरिभ्यः॥
१७२. ङसिङसोश्च (६.१.११०)॥ एङो ङसिङसोरति पूर्वरूपमेकादेशः। हरेः हरेः। हर्योः हर्योः। हरीणाम्॥
१७३. अच्च घेः (७.३.११९)॥ इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च। हरौ। हरिषु। एवं कव्यादयः॥
१७४. अनङ् सौ (७.१.९३)॥ सख्युरङ्गस्यानङादेशोऽसम्बुद्धौ सौ॥
१७५. अलोऽन्त्यात् पूर्व उपधा (१.१.६५)॥ अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः॥
१७६. सर्वनामस्थाने चासम्बुद्धौ (६.४.८)॥ नान्तस्योपधाया दीर्घोऽसम्बुद्धौ सर्वनामस्थाने॥
१७७. अपृक्त एकाल् प्रत्ययः (१.२.४१)॥ एकाल् प्रत्ययो यः सोऽपृक्तसंज्ञः स्यात्॥
१७८. हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६८)॥ हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते॥
१७९. नलोपः प्रातिपदिकान्तस्य (८.२.७)॥ प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नस्य लोपः। सखा॥
१८०. सख्युरसम्बुद्धौ (७.१.९२)॥ सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात्॥
१८१. अचो ञ्णिति (७.२.११५)॥ अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे। सखायौ। सखायः। हे सखे। सखायम्। सखायौ। सखीन्। सख्या। सख्ये॥
१८२. ख्यत्यात् परस्य (६.१.११२)॥ खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः। सख्युः॥
१८३. औत् (७.३.११८)॥ इतः परस्य ङेरौत्। सख्यौ। शेषं हरिवत्॥
१८४. पतिः समास एव (१.४.८)॥ घिसंज्ञः। पत्युः पत्युः। पत्यौ। शेषं हरिवत्। समासे तु भूपतये। कतिशब्दो नित्यं बहुवचनान्तः॥
१८५. बहुगणवतुडति संख्या (१.१.२३)॥
१८६. डति च (१.१.२५)॥ डत्यन्ता संख्या षट्संज्ञा स्यात्॥
१८७. षड्भ्यो लुक् (७.१.२२)॥ जश्शसोः॥
१८८. प्रत्ययस्य लुक्श्लुलुपः (१.१.६१)॥ लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात्॥
१८९. प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२)॥ प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्। इति जसि चेति गुणे प्राप्ते -
१९०. न लुमताङ्गस्य (१.१.६३)॥ लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्। कति कति। कतिभिः। कतिभ्यः कतिभ्यः। कतीनाम्। कतिषु। युष्मदस्मत् षट् संज्ञकास्त्रिषु सरूपाः॥त्रिशब्दो नित्यं बहुवचनान्तः। त्रयः। त्रीन्। त्रिभिः। त्रिभ्यः त्रिभ्यः॥
१९१. त्रेस्त्रयः (७.१.५३)॥ त्रिशब्दस्य त्रयादेशः स्यादामि। त्रयाणाम्। त्रिषु। गौणत्वेऽपि प्रियत्रयाणाम्॥
१९२. त्यदादीनामः (७.२.१०२)॥ एषामकारो विभक्तौ। द्विपर्य्यन्तानामेवेष्टिः (वार्तिकम्)। द्वौ द्वौ। द्वाभ्याम् द्वाभ्याम् द्वाभ्याम्। द्वयोः द्वयोः॥पाति लोकमिति पपीः सूर्यः॥दीर्घाज्जसि च (लघुकौमुदी-१६१)॥ - पप्यौ पप्यौ। पप्यः। हे पपीः। पपीम्। पपीन्। पप्या। पपीभ्याम् पपीभ्याम् पपीभ्याम्। पपीभिः। पप्ये। पपीभ्यः पपीभ्यः। पप्यः पप्यः। पप्योः। दीर्घत्वान्न नुट्, पप्याम्। ङौ तु सवर्णदीर्घ। पपी। पप्योः। पपीषु। एवं वातप्रम्यादयः॥बह्व्यः श्रेयस्यो यस्य स बहुश्रेयसी॥
१९३. यू स्त्र्याख्यौ नदी (१.४.३)॥ ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः। प्रथमलिङ्गग्रहणं च (वार्तिकम्)। पूर्वं स्त्र्याख्यस्योपसर्जनत्वेऽपि नदीत्वं वक्तव्यमित्यर्थः॥
१९४. अम्बाऽर्थनद्योर्ह्रस्वः (७.३.१०७)॥ सम्बुद्धौ। हे बहुश्रेयसि॥
१९५. आण्नद्याः (७.३.११२)॥ नद्यन्तात्परेषां ङितामाडागमः॥
१९६. आटश्च (६.१.९०)॥ आटोऽचि परे वृद्धिरेकादेशः। बहुश्रेयस्यै। बहुश्रेयस्याः। बहुश्रेयसीनाम्॥
१९७. ङेराम्नद्याम्नीभ्यः (७.३.११६)॥ नद्यन्तादाबन्तान्नीशब्दाच्च परस्य डेराम्। बहुश्रेयस्याम्। शेषं पपीवत्॥ अङ्यन्तत्वान्न सुलोपः। अतिलक्ष्मीः। शेषं बहुश्रेयसीवत्॥प्रधी:॥
१९८. अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७)॥ श्नु प्रत्ययान्तस्येवर्णोवर्णान्तस्य धातोर्भ्रू इत्यस्य चाङ्गस्येयङुवङौ स्तोऽजादौ प्रत्यये परे। इति प्राप्ते -
१९९. एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२)॥ धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यणजादौ प्रत्यये। प्रध्यौ। प्रध्यः। प्रध्यम्। प्रध्यौ। प्रध्यः। प्रध्यि। शेषं पपीवत्। एवं ग्रामणीः। ङौ तु ग्रामण्याम्॥ अनेकाचः किम्? नीः। नियौ। नियः। अमि शसि च परत्वादियङ्, नियम्। ङेराम्; नियाम्॥असंयोगपूर्वस्य किम्? सुश्रियौ। यवक्रियौ॥
२००. गतिश्च (१.४.६०)॥ प्रादयः क्रियायोगे गतिसंज्ञाः स्युः। गतिकारकेतरपूर्वपदस्य यण् नेष्यते (वार्तिकम्)। शुद्धधियौ॥
२०१. न भूसुधियोः (६.४.८५)॥ एतयोरचि सुपि यण्न। सुधियौ। सुधिय इत्यादि॥सुखमिच्छतीति सुखीः। सुतीः। सुख्यौ। सुत्यौ। सुख्युः। सुत्युः। शेषं प्रधीवत्। शम्भुर्हरिवत्। एवं भान्वादयः॥
२०२. तृज्वत् क्रोष्टुः (७.१.९५)॥ असम्बुद्धौ सर्वनामस्थाने परे। क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः॥
२०३. ऋतो ङिसर्वनामस्थानयोः (७.३.११०)॥ ऋतोऽङ्गस्य गुणो ङौ सर्वनामस्थाने च। इति प्राप्ते -
२०४. ऋदुशनस्पुरुदंसोऽनेहसां च (७.१.९४)॥ ऋदन्तानामुशनसादीनाम् चानङ् स्यादसम्बुद्धौ सौ॥
२०५. अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् (६.४.११)॥ अबादीनामुपधाया दीर्घः असंबुद्धौ सर्वनामस्थाने। क्रोष्टा। क्रोष्टारौ। क्रोष्टारः। क्रोष्टून्॥
२०६. विभाषा तृतीयादिष्वचि (७.१.९७)॥ अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत्। क्रोष्ट्रा। क्रोष्ट्रे॥
२०७. ऋत उत् (६.१.१११)॥ ऋतो ङसिङसोरति उदेकादेशः। रपरः॥
२०८. रात्सस्य (८.२.२४)॥ रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य। रस्य विसर्गः। क्रोष्टुः क्रोष्टुः। क्रोष्ट्रोः क्रोष्ट्रोः। नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन (वार्तिकम्)। क्रोष्टूनाम्। क्रोष्टरि। पक्षे हलादौ च शम्भुवत्॥ हूहूः। हूह्वौ। हूह्वः। हूहूम् इत्यादि॥ अतिचमूशब्दे तु नदीकार्य्यं विशेषः। हे अतिचमु। अतिचम्वै। अतिचम्वाः। अतिचमूनाम्॥ खलपूः॥
२०९. ओः सुपि (६.४.८३)॥ धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचोऽङ्गस्य यण् स्यादचि सुपि। खलप्वौ। खलप्वः। एवं सुल्वादयः॥स्वभूः। स्वभुवौ। स्वभुवः॥वर्षाभूः॥
२१०. वर्षाभ्वश्च (६.४.८४)॥ अस्य यण् स्यादचि सुपि। वर्षाभ्वावित्यादि॥ दृन्भूः। दृन्करपुनः पूर्वस्य भुवो यण् वक्तव्यः (वार्तिकम्)। दृन्भ्वौ। एवं करभूः॥ धाता। हे धातः। धातारौ। धातारः। ऋवर्णान्नस्य णत्वं वाच्यम् (वार्तिकम्)। धातॄणाम्। एवं नप्त्रादयः॥ नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम्। तेनेह न। पिता। पितरौ। पितरः। पितरम्। शेषं धातृवत्। एवं जामात्रादयः॥ ना। नरौ॥
२११. नृ च (६.४.६)॥ अस्य नामि वा दीर्घः। नृणाम्। नॄणाम्॥
२१२. गोतो णित् (७.१.९०)॥ ओकाराद्विहितं सर्वनामस्थानं णिद्वत्। गौः। गावौ। गावः॥
२१३. औतोऽम्शसोः (६.१.९३)॥ ओतोऽम्शसोरचि आकार एकादेशः। गाम्। गावौ। गाः। गवा। गवे। गोः। इत्यादि॥
२१४. रायो हलि (७.२.८५)॥ असयाकारादेशो हलि विभक्तौ। राः। रायौ। रायः। राभ्यामित्यादि॥ग्लौः। ग्लावौ। ग्लावः। ग्लौभ्यामित्यादि॥
No comments:
Post a Comment