सिद्धान्तकौमुद्यां विसर्गसन्धिप्रकरणम्
॥अथ सिद्धान्तकौमुद्यां
विसर्गसन्धिप्रकरणम्॥
१५०) शर्परे विसर्जनीयः
(८.३.३५)॥ विसर्जनीयस्य
सः (कौ.- १३८) विष्णुस्त्राता। शर्परे
खरि विसर्जनीयस्य विसर्जनीयः न त्वन्यत्। कः त्सरुः। घनाघनः क्षोभणः। इह यथायथं सत्वं जिह्वामूलीयश्च
न।
१५१) वा शरि (८.३.३६)॥ शरि परे विसर्जनीयस्य विसर्जनीय एव वा स्यात्। हरिः शेते। हरिश्शेते।खर्परे शरि वा विसर्गलोपो वक्तव्यः (वा.)॥ रामस्थाता। हरिस्फुरति। पक्षे विसर्गे सत्वे च
त्रैरूप्यम्॥ कुप्वोᳲ
कᳲ पौ च (कौ.- १४२)॥ क करोति। कः करोति। क खनति। कः खनति। क पचति। कः पचति। क फलति। कः फलति।
१५२) सोऽपदादौ (८.३.३८)॥ विसर्जनीयस्य सः स्यादपदाद्योः कुप्वोः परयोः॥पाशकल्पककाम्येष्विति वाच्यम् (वा.)॥ पयस्पाशम्। यशस्कल्पम्। यशस्कम्। यशस्काम्यति।अनव्ययस्येति वाच्यम् (वा.)॥ प्रातः
कल्पम् (वा.)।काम्ये रोरेवेति वाच्यम् (वा.)॥ नेह। गीः काम्यति।
१५३) इणः षः (८.३.३९)॥ इणः परस्य विसर्गस्य षकारः स्यात्पूर्वविषये। सर्पिष्पाशम्। सर्पिष्कल्पम्। सर्पिष्कम्। सर्पिष्काम्यति।
१५४) नमस्पुरसोर्गत्योः
(८.३.४०)॥ गतिसंज्ञयोरनयोर्विसर्गस्य सः कुप्वोः परयोः। नमस्करोति। साक्षात्प्रभृतित्वात्कृञो
योगे विभाषा गतिसंज्ञा।
तदभावे
नमः करोति। पुरोऽव्ययम्
(कौ.- ७६८) इति नित्यं गतिसंज्ञा।
पुरस्करोति। अगतित्वान्नेह। पूः पुरौ पुरः प्रवेष्टव्याः।
१५५) इदुदुपधस्य चाप्रत्ययस्य
(८.३.४१)॥ इकारोकारोपधस्याप्रत्ययस्य विसर्गस्य षः स्यात्कुप्वोः। निष्प्रत्यूहम्। आविष्कृतम्। दुष्कृतम्। अप्रत्ययस्य किम्। अग्निः करोति। वायुः करोति॥एकादेशशास्त्रनिमित्तकस्य न षत्वम् (वा.)॥ कस्कादिषु
भ्रातुष्पुत्रशब्दस्य पाठात्।
तेनेह
न। मातुः
कृपा।मुहुसः
प्रतिषेधः (वा.)॥
मुहुः
कामा।
१५६) तिरसोऽन्यतरस्याम्
(८.३.४२)॥ तिरसः सो वा स्यात् कुप्वोः। तिरस्कर्ता। तिरः कर्ता।
१५७) द्विस्त्रिश्चतुरिति
कृत्वोऽर्थे (८.३.४३)॥ कृत्वोऽर्थे वर्तमानानामेषां विसर्गस्य
षकारो वा स्यात् कुप्वोः।
द्विष्करोति। द्विः करोतीत्यदि। कृत्वोऽर्थे किम्। चतुष्कपालः।
१५८) इसुसोः सामर्थ्ये
(८.३.४४)॥ एतयोर्विसर्गस्य षः स्याद्वा कुप्वोः। सर्पिष्करोति। सर्पिःकरोति। धनुष्करोति। धनुः करोति। सामर्थ्यमिह व्यपेक्षा। सामर्थ्ये किम्। तिष्ठतु सर्पिः, पिब त्वमुदकम्।
१५९) नित्यं समासेऽनुत्तरपदस्थस्य
(८.३.४५)॥ इसुसोर्विसर्गस्यानुत्तरपदस्थस्य नित्यं षः स्यात् कुप्वोः परयोः। सर्पिष्कुण्डिका। धनुष्कपालकम्। अनुत्तरपदस्थस्येति किम्। परमसर्पि कुण्डिका। कस्कादिषु सर्पिष्कुण्डिकाशब्दोऽसमासे
व्यपेक्षाविरहेऽपि षत्वार्थः।
व्यपेक्षायां
नित्यार्थश्च।
१६०) अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य
(८.३.४६)॥ अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सकारादेशः स्यात्करोत्यादिषु
परेषु न तूत्तरपदस्थस्य।
अयस्कारः। अयस्कामः। अयस्कंसः। अयस्कुम्भः। अयस्पात्रम्। अयःसहिता कुशा अयस्कुशा। अयस्कर्णी। अतः किम्। गीःकारः। अनव्ययस्य किम्। स्वःकामः। समासे किम्। यशःकरोति। अनुत्तरपदस्थस्य किम्। परमयशःकारः।
१६१) अधःशिरसी पदे (८.३.४७)॥ एतयोर्विसर्गस्य सादेशः स्यात्पदशब्दे परे। अधस्पदम्। शिरस्पदम्। समास इत्येव। अधःपदम्। शिरःपदम्। अनुत्तरपदस्थस्येत्येव। परमशिरःपदम्। कस्कादिषु च (वा.)॥ भास्करः॥
No comments:
Post a Comment