सिद्धान्तकौमुद्याः परिभाषाप्रकरणम्
सिद्धान्तकौमुद्याः संज्ञाप्रकरणम्
॥अथ सिद्धान्तकौमुद्यां
परिभाषाप्रकरणम्॥
३४) इको गुणवृद्धी (१.१.३)॥ गुणवृद्धिशब्दाभ्यां
यत्र गुणवृद्धी विधीयेते तत्रेक इति षष्ठ्यन्तं पदमुपतिष्ठते।
३५) अचश्च (१.२.२८)॥ ह्रस्वदीर्घप्लुतशब्दैर्यत्राज्विधीयते तत्राचेति षठ्यन्तं पदमुपतिष्ठते।
३६) आद्यन्तौ टकितौ (१.१.४६)॥ टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः।
३७) मिदचोऽन्त्यात्परः
(१.१.४७)॥ चेति निर्धारणे षष्ठी। अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो
मित्स्यात्।
३८) षष्ठी स्थानेयोगा
(१.१.४९)॥ अनिर्धारितसम्बन्धविशेषा षष्ठी स्थानेयोगा बोध्या। स्थानं च प्रसङ्गः।
३९) स्थानेऽन्तरतमः (१.१.५०)॥ प्रसङ्गे सति सदृशतम आदेशः स्यात्। यत्रानेकविधमान्तर्यं
तत्र स्थानत आन्तर्यं बलीयः]।
४०) तस्मिन्निति निर्दिष्टे
पूर्वस्य (१.१.६६)॥ सप्तमीनिर्देशेन विधीयमानं कार्यं
वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम्।
४१) तस्मादित्युत्तरस्य
(१.१.६७)॥ पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्।
४२) अलोऽन्त्यस्य (१.१.५२)॥ षष्ठीनिर्दिष्टस्यान्त्यस्याल आदेशः स्यात्।
४३) ङिच्च (१.१.५३)॥ अयमप्यन्त्यस्यैव स्यात्। सर्वस्य (कौ.- ४५) इत्यस्यापवादः।
४४) आदेः परस्य (१.१.५४)॥ परस्य यद्विहितं तत्तस्यादेर्बोध्यम्। अलोऽन्त्यस्य (कौ.- ४२) इत्यस्यापवादः।
४५) अनेकाल्शित्सर्वस्य
(१.१.५५)॥ स्पष्टम्।
अलोऽन्त्यसूत्रापवादः। अष्टाभ्य औश् (कौ.- ३७२) इत्यादौ देः परस्य इत्येतदपि परत्वादनेन बाध्यते।
४६) स्वरितेनाधिकारः (१.३.११)॥ स्वरितत्वयुक्तं शब्दस्वरूपमधिकृतं बोध्यम्॥ परनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः (प.)॥ असिद्धं बहिरङ्गमन्तरङ्गे (प.)॥ अकृतव्यूहाः पाणिनीयाः (प.)॥ निमित्तं विनाशोन्मुखं दृष्ट्वा तत्प्रयुक्तं कार्यं न कुर्वन्तीत्यर्थः॥
No comments:
Post a Comment