सिद्धान्तकौमुद्याः संज्ञाप्रकरणम्
॥अथ सिद्धान्तकौमुद्यां
संज्ञाप्रकरणम्॥
अइउण्॥१॥ ऋऌक्॥२॥ एओङ्॥३॥ ऐऔच्॥४॥ हयवरट्॥५॥ लण्॥६॥ ञमङणनम्॥७॥ झभञ्॥८॥घढधष्॥९॥ जबगडदश्॥१०॥ खफछठथचटतव्॥११॥ कपय्॥१२॥ शषसर्॥१३॥ हल्॥१४॥ इति माहेश्वराणि सूत्राण्यणादिसंज्ञार्थानि। एषामन्त्याः इतः। लण्सूत्रेऽकारश्च। हकारादिष्वकार उच्चारणार्थः।
१) हलन्त्यम् (१.३.३)॥ हल् (माहेश्वरसूत्रम् १४) इति सूत्रेऽन्त्यमित्स्यात्।
२) आदिरन्त्येन सहेता
(१.१.७१)॥ अन्त्येनेता सहित आदिर्मध्यगानां स्वस्य च संज्ञा स्यात्॥ इति हल्संज्ञायाम्॥ उपदेशेऽन्त्यं हलित्स्यात्॥ उपदेश आद्योच्चारणम्॥ ततः अण् अच् इत्यादिसंज्ञासिद्धौ।
३) उपदेशेऽजनुनासिक इत्
(१.३.२)॥ उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात्। प्रतिज्ञानुनासिक्याः
पाणिनीयाः। लण्सूत्रस्थावर्णेन
सहोच्चार्यमाणो रेफो रलयोः संज्ञा।
प्रत्याहारेष्वितां
न ग्रहणम्। अनुनासिक
इत्यादिनिर्देशात्॥ नह्यत्र
ककारे परेऽच्कार्यं दृश्यते।
आदिरन्त्येनेत्येतत्सूत्रेण
कृताः प्रत्याहारशब्देन व्यवह्रियन्ते।
४) ऊकालोऽज्झ्रस्वदीर्घप्लुतः
(१.२.२७)॥ उश्च ऊश्च ऊ३श्च वः। वां काल इव कालो यस्य
सोऽच् क्रमाद्ध्रस्वदीर्घप्लुतसंज्ञः स्यात्। स प्रत्येकमुदात्तादिभेदेन
त्रिधा।
५) उच्चैरुदात्तः (१.२.२९)॥ ताल्वादिषु सभागेषु स्थानेषूर्ध्वभागे निष्पन्नोऽजुदात्तसंज्ञः स्यात्। आ ये।
६) नीचैरनुदात्तः (१.२.३०)॥ स्पष्टम्॥
अ॒र्वाङ्।
७) समाहारः स्वरितः (१.२.३१)॥ उदात्तानुदात्तत्वे वर्णधर्मौ समाह्रियेते यस्मिन्सोऽच् स्वरितसंज्ञः
स्यात्।
८) तस्यादित उदात्तमर्धह्रस्वम्
(१.२.३२)॥ ह्रस्वग्रहणमतन्त्रम्। स्वरितस्यादितोऽर्धमुदात्तं
बोध्यम्। उत्तरार्धं
तु परिशेषादनुदात्तम्।
तस्य
चोदात्तस्वरितपरत्वे श्रवणं स्पष्टम्।
अन्यत्र
तूदात्तश्रुतिः प्रातिशाख्ये प्रसिद्धा। क्व१ वोऽश्वाः। रथानां न ये२राः॥ श॒तच॑क्रं॒ यो॒॑३ ह्यः॥ इत्यादिष्वनुदात्तः॥ अ॒ग्निमी॑ळे इत्यादावुदात्तश्रुतिः॥ स नवविधोऽपि प्रत्येकमनुनासिकाननुनासिकत्वाभ्यां
द्विधा।
९) मुखनासिकावचनोऽनुनासिकः
(१.१.८)॥ मुखसहितनासिकयोच्चार्यमाणो वर्णोऽनुनासिकसंज्ञः स्यात्। तदित्थम् - अ इ उ ऋ एषां
वर्णानां प्रत्येकमष्टादशभेदाः।
लृवर्णस्य
द्वादश,
तस्य दीर्घाभावात्। एचामपि द्वादश, तेषां ह्रस्वाभावात्।
१०) तुल्यास्यप्रयत्नं
सवर्णम् (१.१.९)॥ ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः
सवर्णसंज्ञं स्यात्।
अकुहविसर्जनीयानां
कण्ठः। इचुयशानां
तालु। ऋटुरषाणां
मूर्धा। लृतुलसानां
दन्ताः। उपूपध्मानीयानामोष्ठौ। ञमङणनानां नासिका च। एदैतोः कण्ठतालु। ओदौतोः कण्ठोष्ठम्। वकारस्य दन्तोष्ठम्॥ जिह्वामूलीयस्य जिह्वामूलम्। नासिकानुस्वारस्य। इति स्थानानि। यत्नो द्विधा - आभ्यन्तरो
बाह्यश्च। आद्यश्चतुर्धा
- स्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात्।
तत्र
स्पृष्टं प्रयतनं स्पर्शानाम्।
ईषत्स्पृष्टमन्तस्थानाम्। विवृतमूष्मणां स्वराणां
च। ह्रस्वस्याऽवर्णस्य
प्रयोगे संवृतम्। प्रक्रियादशायां
तु विवृतमेव। एतच्च
सूत्रकारेण ज्ञापितम्।
तथाहि।
११) अ अ (८.४.६८)॥ इति विवृतमनूद्य संवृतोऽनेन विधीयते। अस्य चाष्टाध्यायीं सम्पूर्णां
प्रत्यसिद्धत्वाच्छास्त्रदृष्ट्या विवृतत्वमस्त्येव। तथा च सूत्रम्।
१२) पूर्वत्रासिद्धम् (८.२.१)॥ अधिकारोऽयम्। तेन सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा त्रिपाद्यमपि पूर्वं प्रति परं शास्त्रमसिद्धं स्यात्। बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषोऽघोषोऽल्पप्राणो महाप्राण उदात्तोऽनुदात्तः स्वरितश्चेति॥
एते श्वासानुप्रदाना अघोषाश्च विवृण्वते॥
कण्ठमन्ये तु घोषाः स्युः संवृता नादभागिनः।
अयुग्मा वर्गयमगा यणश्चाल्पासवः स्मृताः॥
वर्गेष्वाद्यानां
चतुर्णां पञ्चमे परे मध्ये यमो नाम पूर्वसदृशो वर्णः प्रातिशाख्ये प्रसिद्धः। पलिक्क्नीः। चख्ख्नतुः। अग्ग्निः। घ्घ्नन्तीत्यत्र क्रमेण
कखगघेभ्यः परे तत्सदृशा एव यमाः।
तत्र
वर्गाणां प्रथमद्वितीयाः - खयस्तथा तेषामेव यमाः जिह्वामूलीयोपध्मानीयौ विसर्गः शषसाश्चेत्येतेषां
विवारः श्वासोऽघोषश्च।
अन्येषां
तु संवारो नादो घोषश्च।
वर्गाणां
प्रथमतृतीयपञ्चमाः प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः। अन्ये महाप्राणा इत्यर्थः। बाह्यप्रयत्नाश्च यद्यपि
सवर्णसंज्ञायामनुपयुक्तास्तथाप्यान्तरतम्यपरीक्षायामुपयोक्ष्यन्त इति बोध्यम्। कादयो मावसानाः स्पर्शाः। यरलवा अन्तस्थाः। शषसहा ऊष्माणः। अचः स्वराः। ≍क≍पावितीति
कपाभ्यां प्रागर्धविसर्गसदृशौ जिह्वामूलीयोपध्मानीयौ। अं अः इत्यचः परावनुस्वारविसर्गौ। इति स्थानप्रयत्नविवेकः॥ ऋलृवर्णयोर्मिथः सावर्ण्यं
वाच्यम् (वा.)॥ अकारहकारयोरिकारशकारयोर्ऋकारषकारयोर्लृकारसकारयोश्च
मिथः सावर्ण्ये प्राप्ते।
१३) नाज्झलौ (१.१.१०)॥ आकारसहितोऽच् आच् स च हल् चेत्येतौ मिथः सवर्णौ न स्तः। तेन दधीत्यस्य हरति शीतलं
षष्ठं सान्द्रमित्येतेषु परेषु यणादिकं न। अन्यथा दीर्घादीनामिव हकारादीनामपि
ग्रहणकशास्त्रबलादच्त्वं स्यात्॥
तथा
हि।
१४) अणुदित् सवर्णस्य
चाप्रत्ययः (१.१.६९)॥ प्रतीयते विधीयत इति प्रत्ययः। अविधीयमानोऽण् उदिच्च
सवर्णस्य संज्ञा स्यात्।
अत्राण्
परेण णकारेण। कु
चु टु तु पु एते उदितः।
तदेवम्। अ इत्यष्टादशानां संज्ञा। तथेकारोकारौ। ऋकारस्त्रिंशतः। एवम् लृकारोऽपि। एचो द्वादशानाम्। एदैतोरोदौतोश्च न मिथः
सावर्ण्यम्। ऐऔजिति
सूत्रारम्भसामर्थ्यात्।
तेनैचश्चतुर्विंशतेः
संज्ञाः स्युरिति नापादनीयम्।
नाज्झलौ
(कौ.- १३) इति निषेधो यद्यप्याक्षरसमाम्नायिकानामेव तथापि हकारस्याऽऽकारो न सवर्णः। तत्राऽऽकारस्यापि प्रश्लिष्टत्वात्। तेन विश्वपाभिः इत्यत्र
हो ढः (कौ.- ३२४) इति ढत्वं न भवति।
अनुनासिकाननुनासिकाभेदेन
यवला द्विधा। तेनाननुनासिकास्ते
द्वयोर्द्वयोः संज्ञा।
१५) तपरस्तत्कालस्य (१.१.७०)॥ तः परो यस्मात्स च तात्परश्चोच्चार्यमाणः समकालस्यैव संज्ञा स्यात्। तेन अत् इत् उत् इत्यादयः
षण्णां संज्ञा। ऋदिति
द्वादशानाम्।
१६) वृद्धिरादैच् (१.१.१)॥ आदैच्च वृद्धिसंज्ञः स्यात्।
१७) अदेङ् गुणः (१.१.२)॥ अदेङ् च गुणसंज्ञः स्यात्।
१८) भूवादयो धातवः (१.३.१)॥ क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः।
१९) प्राग्रीश्वरान्निपाताः
(१.४.५६)॥ इत्यधिकृत्य।
२०) चादयोऽसत्त्वे (१.४.५७)॥ अद्रव्यार्थाश्चादयो निपातसंज्ञाः स्युः।
२१) प्रादयः (१.४.५८)॥ अद्रव्यार्थाः प्रादयस्तथा।
२२) उपसर्गाः क्रियायोगे
(१.४.५९)॥ २३) गतिश्च (१.४.६०)॥ प्रादयः क्रियायोगे उपसर्गसंज्ञा
गतिसंज्ञाश्च स्युः॥
प्र
परा अप समनु अव निस् निर् दुस् दुर् वि आङ् नि अधि अपि अति सु उद् अभि प्रति परि उप
- एते प्रादयः।
२४) न वेति विभाषा (१.१.४४)॥ निषेधविकल्पयोर्विभाषा संज्ञा स्यात्।
२५) स्वं रूपं शब्दस्याशब्दसंज्ञा
(१.१.६८)॥ शब्दस्य स्वं रूपं संज्ञि शब्दशास्त्रे या संज्ञा तां विना।
२६) येन विधिस्तदन्तस्य
(१.१.७२)॥ विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य च रूपस्य। समासप्रत्ययविधौ प्रतिषेधः (वा.)। उगिद्वर्णग्रहणवर्जम् (वा.)।
२७) विरामोऽवसानम् (१.४.११०)॥ वर्णानामभावोऽवसानसंज्ञः स्यात्।
२८) परः संनिकर्षः संहिता
(१.४.१०९)॥ वर्णानामतिशयितः सन्निधिः संहितासंज्ञः स्यात्।
२९) सुप्तिङन्तं पदम्
(१.४.१४)॥ सुबन्तं तिङन्तं च पदसंज्ञं स्यात्।
३०) हलोऽनन्तराः संयोगः
(१.१.७)॥ अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः।
३१) ह्रस्वं लघु (१.४.१०)॥ ३२) संयोगे गुरु (१.४.११)॥ संयोगे परे ह्रस्वं
गुरुसंज्ञं स्यात्।
३३) दीर्घं च (१.४.१२)॥ दीर्घं च गुरुसंज्ञं स्यात्॥
No comments:
Post a Comment