अचश्च
भूमिका – शाब्दिककेसरिणा भट्टोजिदीक्षितेन विरचिताया
वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरणे इदं सूत्रं राजते।
संज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्॥ इति
षट्प्रकारकेषु सूत्रेषु इदं परिभाषासूत्रम्।
सूत्रार्थः – सूत्रेऽस्मिन्
पदद्वयं वर्तते।अचः इति षष्ठ्यन्तशब्दः प्रथमैकवचनान्तः। चेति अव्ययपदम्। “ऊकालोऽज्झ्रस्वदीर्घप्लुतः” इति सूत्रात् अच्
ह्रस्वदीर्घप्लुतः इति अनुवर्तते।इतिशब्दः अध्याह्रियते। यत्र विधीयते तत्रेति
अध्याहार्यम्। एवञ्च ह्रस्वदीर्घप्लुतशब्दमुच्चार्य यत्र अच् विधीयते तत्र अचः इति
षष्ठ्यन्तं पदम् उपतिष्ठते इति सूत्रस्य सामान्यार्थो लभ्यते। तदेव उक्तं
दीक्षितेन सिद्धान्तकौमुद्यां –“ह्रस्वदीर्घप्लुतशब्दैर्यत्राज्विधीयते
तत्र ‘अचः’ इति षष्ठ्यन्तं
पदमुपतिष्ठते” इति।
व्याख्या – अनियमे नियमकारिणी हि
परिभाषा। तथाहि “शमामष्टानां दीर्घः श्यनि” इति सूत्रेण दीर्घपदमुच्चार्य अच् विहितः इत्यतः तस्मिन् सूत्रे अचः इति
पदमुपतिष्ठते। ततः शमादीनां यः अच् तस्य दीर्घः श्यनि परे इति सूत्रार्थः भवति।
ततश्च शम् य ति इति अवस्थायां “शमामष्टानां दीर्घः श्यनि” इति सूत्रेण अकारस्य स्थाने दीर्घेशाम्यति इति इष्टं रूपं सिद्ध्यति।
अन्यथा शकारस्य स्थाने स्यात् उत अकारस्य स्थाने आहोस्वित् मकारस्य स्थाने इति
अनियमः स्यात्। एवं श्रीपा+सु इत्यवस्थायां “ह्रस्वो नपुंसके
प्रातिपदिकस्य” इत्यनेन आकारस्य स्थाने ह्रस्वे श्रीपम् इति
इष्टं रूपं सिद्ध्यति। तथैव “वाक्यस्य टेः प्लुत उदात्तः”इत्यनेन टिभागस्य अनः यः अच् तस्य प्लुते एहीन्द्रवर्म३न् इति इष्टं रूपं
सिद्ध्यति।
ह्रस्वदीर्घप्लुतशब्दैः यत्र
विधानं तत्रैव अचः इति उपतिष्ठते इति व्याख्यानात् “दिव उत्” “अष्टन आ विभक्तौ” इत्यादिषु अचः इति न उपतिष्ठते इति
शिवम्।
No comments:
Post a Comment