परनित्यान्तरङ्गापवादानाम् उत्तरोत्तरं बलीयः
शाब्दिककेसरिणा
भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरणे ‘स्वरितेनाधिकारः’ इति सूत्रस्य व्याख्यानावसरे इयं परिभाषा दीक्षितेन उपन्यस्ता।
परादीनां
मध्ये पूर्वपूर्वापेक्षया उत्तरमुत्तरं शास्त्रं बलवत्तरमिति परिभाषायाः
सामान्योऽर्थः। परापेक्षया नित्यान्तरङ्गापवादाः नित्यापेक्षया अन्तरङ्गापवादाः
अन्तरङ्गापेक्षया अपवादाः इत्येवं क्रमेण पूर्वपूर्वापेक्षया उत्तरोत्तरबलवत्त्वम्
इति भावः।
तत्रा
परापेक्षया नित्यस्य बलवत्त्वे उदाहरणं – तुदति इति। तुद्+ति इति स्थिते‘पुगन्तलघूपधस्य
च’ इति परसूत्रेण उकारस्य स्थाने गुणः प्राप्तः‘तुदादिभ्यः शः’ इत्यनेन शप्रत्ययः प्राप्तः।
कृतेऽकृते लघूपधगुणेशप्रत्ययः प्राप्नोति इति कृताकृतप्रसङ्गित्वात् ‘तुदादिभ्यः शः’ इति नित्यविधिः। अतः नित्यत्वात्
परमपि गुणं प्रबाध्य शप्रत्ययो भवति। कृते शप्रत्यये तस्य ङित्त्वात् गुणो न
प्रवर्तते। तेन च तुदति इति इष्टं रूपं सिद्ध्यति।
परापेक्षया
अन्तरङ्गस्य बलवत्त्वे उदाहरणम् – उभये देवमनुष्याः इति। अत्र प्रथमचरमेति परमपि
विकल्पं प्रबाध्य ‘सर्वादीनि सर्वनामानि’ इति सूत्रेणैव सर्वनामसंज्ञा
भवति, तस्य विभक्तिनिरपेक्षत्वेन अन्तरङ्गत्वात्। अल्पापेक्षं हि अन्तरङ्गम्।
अन्तरङ्गस्य बलवत्त्वे बीजम् – असिद्धं बहिरङ्गमन्तरङ्गे इति।
परापेक्षया
अपवादस्य बलवत्त्वे उदाहरणं – दध्ना इति। दधि+टा इति स्थिते ‘अस्थिदधि...’ इत्यादिसूत्रेण अनङ् विहितः, अनङ् च अनेकाल् अपि ङित् अपि, ततश्च
अनेकाल्त्वात् ‘अनेकाल्शित्सर्वस्य’
इत्यनेन सर्वादेशः प्राप्तः ‘ङिच्च’
इत्यनेन अन्त्यादेशः प्राप्तः, ततः ‘ङिच्च’ इति सूत्रस्य निरवकाशत्वेन अपवादत्वात् सर्वादेशं प्रबाध्य अन्त्यादेश एव
भवति।
नित्यापेक्षया
अन्तरङ्गस्य बलवत्त्वे उदाहरणं – ग्रामणिनि कुले इति। अत्र ‘इकोऽचि
विभक्तौ’ इति नित्यमपि नुमं प्रबाध्य ‘ह्रस्वो
नपुंसके प्रातिपदिकस्य’ इति सूत्रस्य विभक्तिनिरपेक्षत्वेन
अन्तरङ्गत्वात् ह्रस्व एव आदौ भवति, ततः नुमि इष्टं रूपं सिद्ध्यति।
अन्तरङ्गापेक्षया
अपवादस्य बलवत्त्वस्य उदाहरणं – दैत्यारिः इति। परमपि सवर्णदीर्घं बाधित्वा
अन्तरङ्गत्वाद् आद्गुणे प्राप्ते ‘अकः सवर्णे दीर्घः’ इति सवर्णदीर्घस्य निरवकाशत्वेन अपवादत्वात् सवर्णदीर्घ एव भवति। ततश्च
दैत्यारिः इति इष्टं रूपं सिद्ध्यति।
No comments:
Post a Comment