तस्मादित्युत्तरस्य
भूमिका– वैयाकरणचूडामणिना भट्टोजिदीक्षितेन
विरचिताया वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरणे सूत्रमिदं पठ्यते।
षट्प्रकारकेषु सूत्रेषु इदं परिभाषासूत्रम्।
सूत्रार्थः– सूत्रेऽस्मिन् त्रीणि पदानि सन्ति।
तस्माद् इति उत्तरस्य इति पदच्छेदः। तस्माद् इति पञ्चम्यन्तं पदम्। तच्च
पञ्चम्यन्तस्य अनुकरणम्। इति इति अव्ययम्। तस्मिन्निति निर्दिष्टे पूर्वस्य इति
सूत्रात् निर्दिष्टे इति सप्तम्येकवचनान्तं पदमनुवर्तते, तच्च पञ्चम्यन्ततया
विपरिणमते। उत्तरस्य इति षष्ठ्येकवचनम्। निर्दिष्टे इत्यस्य अव्यवहितोच्चारणे
इत्यर्थः। अव्यवधानम् अर्थात् वर्णान्तरकृतव्यवधानाभावः इति बोद्ध्यम्। ततश्च
सूत्रे पञ्चम्यन्तं पदम् अस्ति चेत्, तस्य यः अर्थः तस्मात् वर्णान्तरेण
अव्यवहितस्य परस्य कार्यं भवति इति बोद्ध्यम्। तदुक्तं दीक्षितेन – “पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्” इति।
उदाहरणम्– हलो यमां यमि लोपः इति सूत्रे हलः इति
पञ्चम्यन्तं पदम्। यमाम् इति षष्ठ्यन्तं पदम्। यमि इति सप्तम्यन्तं पदम्। लोपः इति
प्रथमान्तं पदम्। एवञ्च हलः इति पञ्चमीनिर्देशन लोपरूपं कार्यं क्रियमाणमस्ति
इत्यतः अतः प्रकृतपरिभाषा प्रवर्तते। ततः हलः परस्य कार्यं भवति। वर्णान्तरेण
अव्यवहितस्य कार्यं भवति। अर्थात् हलः अव्यवहितः परः यदि यम् स्यात् तर्हि यमः
लोपः भवति, यदि च अयं यम् यमः अव्यवहितः पूर्वः च स्यात् इति समुदितः अर्थः।
व्याख्या– सूत्रे उत्तरस्य इति पदं न उपात्तम्
इत्यतः अग्निमीळे इत्यत्र तिङ्ङतिङः इति सूत्रेण अत्रैव निघातो भवति, न ईळे
अग्निम् इत्यत्र। अव्यवहितेति कथनादेव उत् प्रस्थानम् इत्यत्र उदः स्थास्तम्भोः
पूर्वस्य इति पूर्वसवर्णो न भवति इति बोद्ध्यम् इति शम्।
No comments:
Post a Comment