मिदचोऽन्त्यात्परः
भूमिका– वैयाकरणचूडामणिना भट्टोजिदीक्षितेन
विरचिताया वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरणे सूत्रमिदं पठ्यते।
षट्प्रकारकेषु सूत्रेषु इदं परिभाषासूत्रम्।
सूत्रार्थः– सूत्रेऽस्मिन् चत्वारि पदानि सन्ति। मित्
अचः अन्त्यात् परः इति पदच्छेदः। मित् इति प्रथमान्तं पदम्। मकारः इत् यस्य स मित्
इति बहुव्रीहिसमासः। अचः इति षष्ठ्येकवचनान्तं पदम्। अत्र इयं षष्ठी निर्धारणे।
अन्त्यात् इति पञ्चम्येकवचनान्तं पदम्। परः इति प्रथमैकवचनान्तं पदम्। आद्यन्तौ टकितौ
इति सूत्रात् अन्तशब्दः अनुवर्तते। ततश्च अचां मध्ये यः अन्त्यः तस्मात् परः मित्
स्यात् इति सूत्रार्थः फलति। यस्य समुदायस्य मिद् विहितः तस्य अचां मध्ये यः
अन्त्यः तस्मात् परः, तस्य समुदायस्य अन्तावयवो भवति इति निष्कर्षः। तदुक्तं
दीक्षितेन – “अचां मध्ये योऽन्त्यः तस्मात् परः तस्यैव
अन्तावयवो मित् स्याद्” इति।
उदाहरणम्– टुनदि इति धातोः इत् अर्थात् इकारः
इत्संज्ञकः अस्ति। नद् इति शिष्यते। ततः नद् इति इदित् धातुः अस्ति इति हेतोः
इदितो नुम् धातोः इति सूत्रेण नुम् विहितः। स च मित्। नद् इति वर्णसमुदाये नकारात्
परः अकारः अच् अस्ति। स एक एव अच् अस्ति। अतः स एव अचां मध्ये अन्त्यः अच् अस्ति।
नद् इति समुदायम् उद्दिश्य विहितः अस्ति नुम्। तस्य प्रयोगः अकारात् परं भवति। अतः
‘न् अ न् द्’ इति स्थितिः भवति। ततः परं
प्रक्रियया नकारस्य अनुस्वारः, अनुस्वारस्य परसवर्णः च भवति। तेन नन्द् इति
निष्पद्यते। नन्दति इत्यादिरूपाणि भवन्ति।
व्याख्या– स्थानेयोगत्वस्य प्रत्ययपरत्वस्य च इयं
परिभाषा अपवादः अस्ति। अस्याः बाध्यसामान्यचिन्तापक्षः अस्ति। अर्थात् मद्विषये
यद् यत् प्राप्तं तत् सर्वं मया बाध्यम् इति शिवम्॥
No comments:
Post a Comment