पूर्वसूत्रेण सिद्धे समासग्रहणं नियमार्थम्। यत्र सङ्घाते
पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव। तेन वाक्यस्य न।
भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्या अजन्तपुंलिङ्गप्रकरणे ‘कृत्तद्धितसमासाश्च’
इति सूत्रव्याख्यानावसरे समासग्रहणप्रयोजननिरूपणाय प्रसङ्गोऽयं समुपागतः।
‘कृत्तद्धितसमासाश्च’ इति सूत्रेण कर्त्रादीनां
कृदन्तानाम् औपगवादीनां तद्धितान्तानां राजपुरुषादीनां समासानां च
प्रातिपदिकसंज्ञा विधीयते। ननु राजपुरषादिसमासस्थलेषु राजपुरुषादीनाम् अर्थवत्त्वात्
धातुभिन्नत्वात् प्रत्ययभिन्नत्वात् प्रत्ययान्तभिन्नत्वाच्च ‘अर्थवदधातुरप्रत्ययः प्रातिपदिकम्’ इति
पूर्वसूत्रेणैव प्रातिपदिकसंज्ञायाः सिद्धिर्भवति इति समासस्य
प्रातिपदिकत्वसिद्धये पुनरिह समासग्रहणं व्यर्थम्। न च उत्तरपदोत्तरलुप्तप्रत्ययं
प्रत्ययलक्षणेन समाश्रित्य राजपुरुषादिशब्दस्य प्रत्ययान्तत्वात् न पूर्वसूत्रेण
सिद्धिरिति वाच्यम्, उत्तरपदमात्रस्य प्रत्ययान्तत्वेऽपि प्रत्ययग्रहणे यस्मात्स
विहितस्तदादेरेव ग्रहणेन समुदायस्य प्रत्ययान्तत्वाभावात्, ‘न
ङिसम्बुद्ध्योः’ इति निषेधद्वारेण प्रत्ययलक्षणेन प्रत्ययान्तत्वं
समाश्रयितुं न शक्यते इति ज्ञापनाच्च।
एवं समासग्रहणं व्यर्थमिति चेन्न। पूर्वसूत्रेणैव सिद्धे पुनः समासग्रहणं
नियमाय इह कल्पते। नियमशरीरं तावत् – ‘यत्र सङ्घाते पूर्वो भागः पदं तस्य चेद्भवति तर्हि समासस्यैव’ इति। येषु अर्थवत्समुदायेषु पूर्वो भागः पदं तेषु समासस्यैव
प्रातिपदिकसंज्ञा भवति इति तदर्थः। पूर्वो भागः पदम् इत्युपलक्षणम्। उत्तरभागस्तु
प्रत्ययो न इत्यपि धेयम्। अन्यथा जन्मवान् इत्यादौ प्रातिपदिकत्वं न स्यात्,
‘स्वादिष्वसर्वनामस्थाने’ इति सूत्रेण
पूर्वभागस्य पदत्वात्। न च कृत्तद्धितसूत्रे तद्धितग्रहणादेव स्यात्
प्रातिपदिकसंज्ञेति वाच्यम्, दाक्षिरित्यादौ तद्धितग्रहणस्य चरितार्थत्वात्। उत्तरभागस्य
च प्रत्ययत्वात् नियमकोटौ नास्य प्रवेशः इति न क्लेशः। पूर्वो भागः पदम्
इत्यनुक्तौ तु बहुपटवः इत्यत्र बहुज्विशिष्टस्य प्रातिपदिकसंज्ञा न स्यात्। ततश्च
बहुपटवः इत्यत्र टकारादुत्तरस्य अकारस्य उदात्तत्वं न स्यात्, जसः स्यात्। तच्च
नेष्टम्। अतस्तद्ग्रहणम्। नियमस्य फलमाह दीक्षितः – ‘तेन
वाक्यस्य न’ इति। वाक्यस्यापि प्रातिपदिकत्वे तु ‘देवदत्त गामभ्याज शुक्लां दण्डेन’ इत्यत्र
सुब्लुगापत्तिः स्यात् इति शम्॥
No comments:
Post a Comment