तस्मिन्निति निर्दिष्टे पूर्वस्य
भूमिका– वैयाकरणचूडामणिना भट्टोजिदीक्षितेन विरचिताया
वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरणे सूत्रमिदं पठ्यते। षट्प्रकारकेषु
सूत्रेषु इदं परिभाषासूत्रम्।
सूत्रार्थः– सूत्रेऽस्मिन् चत्वारि पदानि सन्ति।
तस्मिन् इति निर्दिष्टे पूर्वस्य इति पदच्छेदः। तस्मिन् इति तत्सर्वनाम्नः
सप्तम्येकवचनम्। तच्च सप्तम्यन्तस्य अनुकरणम्। इति इति अव्ययम्। निर्दिष्टे इति
सप्तम्येकवचनम्। निरिति नैरन्तर्ये। दिशिरुच्चारणे। एवञ्च निर्दिष्टे इत्यस्य
अव्यवहितोच्चारणे इत्यर्थः। अव्यवधानम् अर्थात् वर्णान्तरकृतव्यवधानाभावः इति
बोद्ध्यम्। पूर्वस्य इति षष्ठ्येकवचनम्। ततश्च सूत्रे सप्तम्यन्तं पदं अस्ति चेत्
तस्य यः अर्थः तस्मात् वर्णान्तरेण अव्यवहितस्य पूर्वस्य कार्यं भवति। तदुक्तं
दीक्षितेन – “सप्तमीनिर्देशेन विधीयमानं कार्यं
वर्णान्तरेण अव्यवहितस्य पूर्वस्य बोध्यम्” इति।
उदाहरणम्– इकःस्थाने यण्कार्यविधायके इको यणचि इति सूत्रे अचि इति
सप्तमीनिर्दिष्टं पदम्। सप्तमीनिर्देशेन कार्यं विधीयते। तस्य अर्थः स्वराः इति।
अतः अनया परिभाषया अचः वर्णान्तरेण अव्यवहितस्य पूर्वस्य कार्यं भवति। अर्थात् अचः
अव्यवहितपूर्वं यदि इक् स्यात् तर्हि इकः स्थाने यण् भवति इति समुदितः अर्थः। यथा
– सुधी+उपास्य इत्यत्र उकाररूपस्वरवर्णात् पूर्वम् ईकाररूपः इक् अस्ति इति हेतोः
यण् भवति, ततः सुध्युपास्यः इति रूपं सिद्ध्यति। वर्णान्तरेण अव्यवहितस्य
इत्युक्तम्। अतः सकारोत्तरस्य उकारस्य न यण्, धकार-ईकारेण व्यवधानात्।
व्याख्या– यद्यपि सूत्रे सप्तम्यन्तं पदं चेद् इयं परिभाषा प्रवर्तते
इति उक्तं तथापि अतिशायने तमप्, कर्तृकर्मणोः कृति, कर्मणि द्वितीय इत्यादिस्थलेषु
यत्र सप्तम्यन्तं पदं न स्वरूपपरं, नापि सप्तम्यन्तस्य अर्थे परे पूर्वस्य उक्तं
कार्यं सम्भवति तत्र इयं परिभाषा न प्रवर्तते इति शम्॥
No comments:
Post a Comment