आद्यन्तौ टकितौ
भूमिका– शाब्दिकचूडामणिना भट्टोजिदीक्षितेन विरचिताया
वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरणे इदं सूत्रं विलसति।
संज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्॥ इति
षट्प्रकारकेषु सूत्रेषु इदं परिभाषासूत्रम्।
सूत्रार्थः– सूत्रेऽस्मिन् पदद्वयं वर्तते।आदिश्च अन्तश्च इति आद्यन्तौ इति
इतरेतरद्वन्द्वसमासः। टश्च क् च इति टकौ इति इतरेतरद्वन्द्वसमासः। टकौ इतौ ययोः तौ
इति टकितौ इति बहुव्रीहिसमासः। द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते
इति रीत्या इत् प्रत्येकमन्वेति। एवञ्च टकितौ इत्यस्य टित्कितौ इति अर्थः फलितः।
ततः “यथासङ्ख्यमनुदेशः समानाम्” इति परिभाषया क्रमशः अन्वये टित्कितौ क्रमाद् आद्यन्तावयवौ भवतः इत्यर्थो
लभ्यते। कस्य आद्यन्तावयवौ इति चेद् उच्यते यत् यस्य विहितौ। एवञ्च यस्य टित्कितौ
विहितौ तस्य क्रमशः आद्यन्तावयवौ भवतः इति सूत्रार्थः फलति। तदेव निगदितं
दीक्षितेन सिद्धान्तकौमुद्यां –“टित्कितौ यस्यौक्तौ तस्य
क्रमाद् आद्यन्तावयवौ स्तः” इति।
सोदाहरणं व्याख्यानम्– अनियमे नियमकारिणी हि परिभाषा। तथाहि – भू तास् आ इति स्थिते “आर्धधातुकस्येड् वलादेः” इति सूत्रेण
इडागमो भवेत्, परन्तु आर्धधातुकस्य तासः स्थाने स्यात् उत आद्यावयवः स्यात्
आहोस्वित् अन्तावयवः स्यात् इति अनियमे प्राप्ते टित् आद्यावयवः भवति इति नियमयति “आद्यन्तौ टकितौ” इति सूत्रम्। ततश्च आद्यावयवे
प्रक्रियया भविता इति इष्टं रूपं सिद्ध्यति। एवं प्राङ् षष्ठः इति स्थिते “ङणोः कुक्टुक् शरि” इति सूत्रेण ङकारस्य कुगागमः
प्राप्तः, कस्य स्थाने भवेद् इति अनियमे प्राप्ते कित् अन्तावयवः भवति इति नियमयति
प्रकृतसूत्रम्। ततः अन्तावयवे कृते प्राङ्क्षष्ठः इति इष्टं रूपं सिद्ध्यति।
“चरेष्टः”, “गापोष्टक्” इत्यादिषु इदं सूत्रं न प्रवर्तते इति
विशेषः इति शम्।
No comments:
Post a Comment