अनेकाल्शित्सर्वस्य
भूमिका– शाब्दिकचूडामणिना भट्टोजिदीक्षितेन विरचिताया
वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरणे इदं सूत्रं विलसति।
संज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्॥ इति
षट्प्रकारकेषु सूत्रेषु इदं परिभाषासूत्रम्।
सूत्रार्थः–
सूत्रेऽस्मिन् पदद्वयं वर्तते। अनेकः अल् यस्य सः अनेकाल् इति बहुव्रीहिसमासः, श्
इत् यस्य सः शित् इति बहुव्रीहिः। ततः अनेकाल् च शित् च इति अनेकाल्शित् इति
समाहारद्वन्द्वनिष्पन्नं प्रथमैकवचनान्तं पदम्। सर्वस्य इति षष्ठ्येकवचनान्तम्।
आदेशः इति अध्याहारः। ततः यः अनेकाल् आदेशः स सर्वस्य स्थाने भवति, यश्च शित्
आदेशः सः अपि सर्वस्य स्थाने भवति इति सूत्रस्यार्थः।
सोदाहरणं
व्याख्यानम्–
अनेकालादेशस्य उदाहरणं यथा – रामैः इति। तथाहि – राम+भिस् इति स्थिते ‘अतो
भिस ऐस्’ इति सूत्रेण भिसः स्थाने अनेकाल् ऐस्-आदेशो
विधीयते, अतः तत्सर्वस्य स्थाने भवति, ततः प्रक्रियया रामैः इति रूपं सिद्ध्यति।
अन्यथा ‘अलोऽन्त्यस्य’ इति सूत्रेण
अन्त्यस्य स्थाने आदेशः प्राप्तः तं प्रबाध्य ‘आदेः परस्य’ इति सूत्रेण आदेः स्थाने आदेशः प्राप्तः तमपि प्रबाध्य प्रस्तुतसूत्रेण
सर्वस्य स्थाने भवति। शितः उदाहरणम् – इह इति। इदम्+ह इति स्थिते ‘इदम इश्’ इति सूत्रेण इशः शित्त्वात् सर्वस्य
इदंशब्दस्य स्थाने इकारादेशे प्रक्रियया इह इति रूपं सिद्ध्यति।
‘अलोऽन्त्यस्य’ इति सूत्रस्य अपवादसूत्रम् इदम् ‘अनेकाल्शित्सर्वस्य’ इति सूत्रम्। अतः उभयोः
प्रसक्तौ ‘अलोऽन्त्यस्य’ इत्यनेन
प्राप्तम् अन्त्यादेशं प्रबाध्य प्रस्तुतसूत्रेण सर्वादेशो विधीयते। अतः ‘अस्तेर्भूः’ इत्यनेन अस्-धातोः स्थाने विधीयमानो
भू-इत्यादेशः सर्वस्य स्थाने भवति, न तु अन्त्यस्य स्थाने इति बोद्ध्यम्। एवं सूत्रमिदम्
‘आदेः परस्य’ इति सूत्रमपि परत्वाद् बाधते।
अतः ‘अष्टाभ्य औश्’ इत्यनेन विधीयमान
आदेशः सर्वस्य स्थाने भवति, न तु आदेः स्थाने इति शिवम्॥
No comments:
Post a Comment