स्थानेऽन्तरतमः
भूमिका– शाब्दिकचूडामणिना भट्टोजिदीक्षितेन विरचिताया
वैयाकरणसिद्धान्तकौमुद्याः परिभाषाप्रकरणे इदं सूत्रं विलसति।
संज्ञा च परिभाषा च विधिर्नियम एव च।
अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्॥ इति
षट्प्रकारकेषु सूत्रेषु इदं परिभाषासूत्रम्।
सूत्रार्थः–
सूत्रेऽस्मिन् पदद्वयं वर्तते। स्थाने इति सप्तम्येकवचनान्तम्। अन्तरतमः इति
प्रथमैकवचनान्तम्। स्थानम् इति शब्दस्य प्रसङ्गः इति अर्थः। अन्तरशब्दस्य सदृशः
अर्थः। अतिशयितोऽन्तरः अन्तरतमः अर्थात् सदृशतमः इति। एवञ्च प्रसङ्गे सति सदृशतमः
भवति इति फलितम्। एकस्य स्थानिनः अनेकादेशप्रसङ्गे सति यः सदृशतमः स एवादेशो भवति
इति निर्गलितार्थः। तदेवोक्तं दीक्षितेन –“प्रसङ्गे सति सदृशतम आदेशः
स्यात्” इति।
सोदाहरणं
व्याख्यानम्–
अनियमे नियमकारिणी हि परिभाषा। एकस्य स्थानिनः अनेकादेशप्रसङ्गे सति अनियमः
प्रसज्यते, तत्र इयं नियमयति यत् स्थान-अर्थ-गुण-प्रमाणतः स्थानिना सदृशतमः आदेश
एव भवतीति। अत्र स्थानशब्देन उच्चारणस्थानं विवक्षितम्। गुणशब्देन बाह्यप्रयत्नः।
प्रमाणशब्देन एकद्विमात्रादिपरिमाणम्। तत्र स्थानतो यथा – यदि+अपि = यद्यपि
इति।अत्र ‘इको यणचि’ इति सूत्रेण
इकारस्य स्थाने यण् प्राप्नोति, तत्र यकारो वा स्यात् वकारो वा रेफो वा लकारो वा
इति अनियमे प्राप्ते प्रस्तुतपरिभाषा नियमयति यत् तालुस्थानकस्य इकारस्य
तालुस्थानको यकारः। अर्थतो यथा – क्रोष्टा इति। क्रोष्टुशब्दस्य स्थाने
अर्थसाम्यात् क्रोष्टृशब्द एव तृजन्त आदेशो भवति। गुणतो यथा – वाग्+हरिः – वाग्घरिः।
अत्र हकारः स्थानी घोष-नाद-संवार-महाप्राणप्रयत्नवान्, तस्य हकारस्य स्थाने घकारो
भवति, घोष-नाद-संवार-महाप्राणप्रयत्नसाम्यात्। प्रमाणतो यथा –अमुम्, अमू इति। ‘अदसोऽसेर्दादु दो मः’ इति प्रमाणतो ह्रस्वस्य
ह्रस्वो दीर्घस्य दीर्घ उकारः। तमब्ग्रहणाच्च वाग्घरिः इत्यत्र महाप्राणसाम्यात् न
खकारः इति शिवम्।
No comments:
Post a Comment