व्याकरणस्य प्राचीनपरम्परा पाणिनीयपरम्परा च
१. प्रस्तावना
यद्यपि
व्यवहारेणैव भाषाज्ञानं सम्पद्यते तथापि व्याकरणे सुवर्णे सुगन्धारोपं करोति इति
निश्चप्रचं वक्तुं शक्यते। तत्र संस्कृतभाषा व्याकरणपरिरक्षिता इत्यतः एव अधुनापि अपभ्रंशतामनापन्ना।
अत एव वेदादिसकलग्रन्थाः पठितुं शक्यन्ते, अर्थाश्च अवगन्तुं शक्यन्ते। एवं
भाषासाधुत्वरक्षकस्य व्याकरणस्य इतिहासं वयमत्र पठामः।
२. उद्देश्यानि
अमुं पाठं पठित्वा
भवती–
Ø व्याकरणशब्दस्य अर्थं जानीयात्।
Ø व्याकरणस्य आरम्भः कुतो जातः इति ज्ञातुं शक्नुयात्।
Ø व्याकरणपरम्परायां प्रसिद्धानाम् आचार्याणां परिचयं
प्राप्नुयात्।
Ø व्याकरणस्य प्रसिद्धान् ग्रन्थान् जानीयात्।
३. व्याकरणनिर्वचनम्
व्याक्रियन्ते व्युत्पाद्यन्ते शब्दाः
प्रकृतिप्रत्ययविभागेन इति व्याकरणम्। वि-आङ्-इत्युपसर्गद्वयपूर्वकात् कृधातोः
ल्युटि प्रत्यये व्याकरणशब्दो व्युत्पद्यते। इदं व्याकरणं वेदपुरुषस्य मुखम्
इत्युच्यते–
छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ
पठ्यते।
ज्योतिषामयनं चक्षुः निरुक्तं
श्रोत्रमुच्यते॥
शिक्षा घ्राणं तु वेदस्य मुखं
व्याकरणं स्मृतम्।
तस्मात् साङ्गमधीत्यैव ब्रह्मलोके
महीयते॥
४. व्याकरणपरम्परा
पुरा बृहस्पतिः इन्द्राय व्याकरणं
पाठितवान् इति महाभाष्याद् ज्ञायते–
बृहस्पतिः
इन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच नान्तं
जगाम। बृहस्पतिश्च प्रवक्ता इन्द्रश्च अध्येता, दिव्यं वर्षसहस्रम् अध्ययनकालः, न
चान्तं जगाम इति।
तैत्तिरीयसंहितायामपि श्रूयते–
वाग्वै
परावागव्याकृतावदत्। ते देवा इदमब्रुवन् इमां नो वाचं व्याकुर्विति... तामिन्दो
मध्यतोऽवक्रम्य व्याकरोत्। ...तामखण्डां वाचं मध्ये विच्छिद्य
प्रकृतिप्रत्ययविभागं सर्वत्राकरोत्।
ऋक्तन्त्रप्रातिशाख्ये व्याकरणपरम्परा
इत्थं प्रकटिता–
ब्रह्मा
बृहस्पतये प्रोवाच, बृहस्पतिः इन्द्राय, इन्द्रो भरद्वाजाय, भरद्वाज ऋषिभ्यः, ऋषयः
ब्राह्मणेभ्यः, तं खलु इमम् अक्षरसमाम्नायम् इत्याचक्षते।
इयमासीत् ऐन्द्रपरम्परा। महेश्वरात्
लब्धानि चतुर्दशसूत्राणि आदाय अपरायाः माहेश्वरपरम्परायाः प्रवृत्तिः। प्रवर्तकः च
भगवान् पाणिनिः। पाणिनिं मध्ये संस्थाप्य व्याकरणपरम्परां त्रिधा विभाजयितुं
शक्यते–
- पाणिनेः पूर्ववर्तिनः
- पाणिनिः
- पाणिनेः परिवर्तिनः
पाणिनेः पूर्ववर्तिनां वैयाकरणानां
नाममात्रं श्रूयते, पाणिनिग्रन्थे केचन उल्लिखिताश्च दृश्यन्ते। तेषां कृतयः अधुना
नोपलभ्यन्ते। तेषु केचन यथा–
- गार्ग्यः (अङ् गार्ग्यगालवयोः)
- गालवः (अङ् गार्ग्यगालवयोः)
- शाकल्यः (लोपः शाकल्यस्य)
- आपिशलिः (वा सुप्यापिशलेः)
- काश्यपः (तृषिमृषिकृषेः काश्यपस्य)
- शाकटायनः (त्रिप्रभृतिषु शाकटायनस्य)
- चाक्रवर्मणः (ई चाक्रवर्मणस्य)
- भारद्वाजः (ऋतो भारद्वाजस्य)
- स्फोटायनः (अवङ् स्फोटायनस्य)
तत्रभवान् भगवान् पाणिनिः चतुर्दशमाहेश्वरसूत्रं
समाश्रित्य अष्टाध्यायीं रचितवान्। पाणिनेः परिचयः तावत्–
·
पिता – पणिनः
·
माता – दाक्षी
·
जन्मस्थानम् – तक्षशिलायाः
शालातुरग्रामे
·
कालः – ५०० ख्री.पू., २९००
ख्री.पू. इति युधिष्ठिरमीमांसको मन्यते।
·
आत्मीयाः – मातुलः – व्याडिः
(संग्रहस्य प्रणेता), भ्राता – पिङ्गलः (छन्दःसूत्रस्य रचयिता)
·
कृतयः – अष्टाध्यायी, पाणिनीयशिक्षा, गणपाठः, धातुपाठः, लिङ्गानुशासनम्, उणादिसूत्रम्, जाम्बवतीविजयम्
·
नामान्तराणि – पाणिनः, दाक्षीपुत्रः,पाणिनेयः, पणिपुत्रः, शालङ्किः, शालातुरीयः, आहिकः
अष्टाध्यायीपरिचयः–
ग्रन्थोऽयं सूत्रात्मकशैल्या रचितः।
सूत्रस्य लक्षणं तावत्–
अल्पाक्षरम् असन्दिग्धं
सारवद् विश्वतोमुखम्।
अस्तोभम् अनवद्यं च सूत्रं
सूत्रविदो विदुः॥
ग्रन्थेऽस्मिन् अष्टौ अध्यायाः सन्ति।
प्रत्यध्यायं चत्वारः पादाः इति साकल्येन द्वात्रिंशत् पादाः सन्ति। प्रतिपादं
सूत्राणि पठितानि। प्रायेण चतुःसहस्रं सूत्राणि सन्ति। ‘वृद्धिरादैच्’ इति आदिमं
सूत्रम्। ‘अ अ’ इत्यन्तिमं सूत्रम्। अस्या अष्टाध्याय्या अष्टकं, शब्दानुशासनं, वृत्तिसूत्रम् इत्यादीनि नामान्तराणि अपि वर्तन्ते।
कात्यायनपरिचयः–
- नामान्तराणि – कात्यः, वररुचिः, पुनर्वसुः, मेधाजित्, वाक्यकारः
- देशः – दाक्षिणात्यः
- कालः – ३०० ख्री.पू.
- कृतयः – वार्तिकम्, स्वर्गारोहणकाव्यम्
- आत्मीयः – पितामहः – याज्ञवल्क्यः
वार्तिकपरिचयः–
भाषा हि परिवर्तनशीला। अतः पाणिनिना नियमे कृतेऽपि
कालेन केचन नूतनाः प्रयोगाः समागताः, तेषाम् अनुक्तानाम् अंशानां पूरणाय, सूत्राणाम् अल्पाक्षरत्वेन क्वचित् दुरवबोधात् सुबोधाय उक्तानुक्तदुरुक्तान् संगृह्य
भगवता कात्यायनेन वार्तिकानि प्रणीतानि। वार्तिकस्वरूपं तावत् –
उक्तानुक्तदुरुक्तानां चिन्ता
यत्र प्रवर्तते।
तं ग्रन्थं वार्तिकं प्राहुः
वार्तिकज्ञा विचक्षणाः॥ इति।
कात्यायनविरचितानां वार्तिकानां कानिचन नामान्तराणि
अवाप्यन्ते। तानि हि – वाक्यं, व्याख्यानसूत्रं, भाष्यसूत्रम्, अनुतन्त्रम्, अनुस्मृतिः इत्यादि। एतदत्र
धेयं यत् पूर्वम् अनेके वार्तिककारा आसन्, किन्तु तेषां वार्तिकानि अधुना नोपलभ्यन्ते। कात्यायनस्य वार्तिकग्रन्थोऽपि
अधुना स्वतन्त्रतया नोपलभ्यते। किन्तु व्याख्यानार्थं पतञ्जलिना महाभाष्ये
उपात्तत्वेन तत्र उपलभ्यते। कात्यायनस्य प्रथमं वार्तिकं हि – ‘सिद्धे
शब्दार्थसम्बन्धे लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमो यथा
लौकिकवैदिकेषु’ इति।
पतञ्जलिपरिचयः–
- माता – गोणिका
- देशः – गोनर्दः
- कालः – १०० ख्री.पू.
- कृतिः – महाभाष्यम्, योगसूत्रम्
- नामान्तराणि – गोणिकापुत्रः, गोनर्दीयः, शेषाहिः, नागनाथः, अहिपतिः, चूर्णिकारः, फणिभृत्, शेषराजः
महाभाष्यपरिचयः –
सूत्रवार्तिकयोः अतिसंक्षिप्तत्वात्
पाणिनेः सूत्रं कात्यायनस्य च वार्तिकमादाय प्रसन्नगम्भीरशैल्या सुविस्तृतं
भाष्यम् अरचयत्। तत्र भाष्यस्य स्वरूपं तावत्–
सूत्रार्थो वर्ण्यते यत्र
पदैः सूत्रानुसारिभिः।
स्वपदानि च वर्ण्यन्ते
भाष्यं भाष्यविदो विदुः॥
ग्रन्थोऽयं ८४ आह्निकैः विभक्तः।
प्रथमाह्निकं भवति पस्पशाह्निकम्। इदम् उपोद्घातात्मकम्। अन्यत् सर्वं
सूत्रवार्तिकव्याख्यानात्मकम्। पाणिनि-कात्यायन-पतञ्जलिभिः त्रिमुनिभिः
प्रतिष्ठापितत्वात् इदं त्रिमुनि व्याकरणम् इत्युच्यते।
महाभाष्यस्य प्रसिद्धाः टीकाकाराः–
१. भर्तृहरिः – महाभाष्यदीपिका
२. कैयटः – प्रदीपः
a.
नागेशः – प्रदीपोद्द्योतः
b.
शिवरामेन्द्रसरस्वती –
रत्नप्रकाशः
c.
ईश्वरानन्दसरस्वती – विवरणम्
d.
प्रवर्तकोपाध्यायः -
महाभाष्यप्रदीपप्रकाशिका
३. धनेश्वरः - प्रक्रियाचिन्तामणिः
४. सदाशिवः - महाभाष्यगूढार्थदीपिनी
अनन्तरं सूत्रवार्तिकयोः
अतिसंक्षिप्तत्वात् भाष्यस्य च अतिविस्तृतत्वात् सूत्रार्थप्रधानग्रन्थानां
वृत्तीनाम् आविर्भावो जातः। तेषु प्रसिद्धानां तालिका प्रस्तूयते–
१.
वामनजयादित्यौ
– काशिका (अष्टाध्यायीक्रमेण)
क.
जिनेन्द्रबुद्धिः
– न्यासः
ख.
हरदत्तः –
पदमञ्जरी
२. धर्मकीर्तिः – रूपावतारः (प्रक्रियाक्रमेण)
३. श्रीकृष्णलीलाशुकमुनिः – प्रक्रियारत्नम्
४. विमलसरस्वती – रूपमाला
५. रामचन्द्रः – प्रक्रियाकौमुदी
क. शेषकृष्णः – प्रकाशः
ख. विट्ठलः - प्रसादः
६. भट्टोजिदीक्षितः – वैयाकरणसिद्धान्तकौमुदी
क. वासुदेवदीक्षितः – बालमनोरमा [वैयाकरणसिद्धान्तकौमुदीव्याख्या]
ख. ज्ञानेन्द्रसरस्वती – तत्त्वबोधिनी
ग. भट्टोजिदीक्षितः – प्रौढमनोरमा
a. हरिदीक्षितः – लघुशब्दरत्नम् [प्रौढमनोरमाव्याख्या]
b.
नागेशः – लघुशब्देन्दुशेखरः
c.
नागेशः - बृहच्छब्देन्दुशेखरः
घ. नीलकण्ठवाजपेयी – सुखबोधिनी
७. नारायणभट्टः – प्रक्रियासर्वस्वम्
८. वरदराजः– मध्यसिद्धान्तकौमुदी, लघुसिद्धान्तकौमुदी, सारसिद्धान्तकौमुदी
व्याकरणदर्शनकाराः
१. भर्तृहरिः – वाक्यपदीयम्
२. कौण्डभट्टः – वैयाकरणभूषणम्, वैयाकरणभूषणसारः
३. नागेशः – परमलघुमञ्जूषा, सिद्धान्तलघुमञ्जूषा
******
लघुप्रश्नाः–
१.
व्याकरणशब्दस्य व्युत्पत्तिं लिखत।
२.
वेदस्य चक्षुः किम् अस्ति?
३.
इन्द्रः कस्माद् अधीतवान्
४.
कात्यायनस्य अपरं नाम किम्?
५.
पतञ्जलिः किं रचितवान्?
६.
महाभाष्ये कति आह्निकानि सन्ति?
७.
योगसूत्रं कः रचितवान्?
८.
वाक्यकारः कः?
९.
पदकारः कः?
१०.
जिनेन्द्रबुद्धिना को ग्रन्थः प्रणीतः?
११.
प्रसादकारः कः?
१२.
वैयाकरणसिद्धान्तकौमुद्याः रचयिता कः?
१३.
प्रौढमनोरमां कः रचितवान्?
१४.
ज्ञानेन्द्रसरस्वती किं लिखितवान्?
१५.
कौण्डभट्टः किं लिखितवान्?
१. वि-आङ्+कृ+ल्युट्। २. ज्यौतिषम्। ३. बृहस्पतेः। ४. वररुचिः। ५. महाभाष्यम्। ६. ८४। ७. पतञ्जलिः। ८. कात्यायनः। ९. पतञ्जलिः। १०. न्यासः। ११. विट्ठलः। १२. भट्टोजिदीक्षितः। १३. भट्टोजिदीक्षितः। १४. तत्त्वबोधिनीम्। १५. वैयाकरणभूषणम्, वैयाकरणभूषणसारम्।
*****
No comments:
Post a Comment