A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Thursday, November 18, 2021

History of Post-paninian Grammar | व्याकरणस्य पाणिनिपरवर्तिपरम्परा

 व्याकरणस्य पाणिनिपरवर्तिपरम्परा

HistoryofPost-paninianGrammar
क. प्रस्तावना

पूर्वस्मिन् पाठे व्याकरणस्य सामान्यपरिचयं पाणिनिपूर्ववर्तिपरम्परां पाणिनीयपरम्परां च पठितवन्तः। अस्मिन् पाठे पाणिनेः परिवर्तिनीं परम्परां पठामः। अर्वाचीनपरम्परा प्रायेण पाणिनिरचितसूत्राणि अनुकृत्य प्रक्रियाक्रमेण प्रवृत्ता। तेषु केषाञ्चित् लक्ष्यम् आसीत् शब्दलाघवम्, केषाञ्चित् स्वेष्टदेवनामानुगतं संज्ञाकरणम् उदाहरणनिवेशः इत्यादि। विस्तरेण पाठेऽस्मिन् तां परम्परां पठामः।

ख.उद्देश्यानि

अमुं पाठं पठित्वा भवती–

Ø  पाणिनेः परवर्तिनां वैयाकरणानां परिचयं जानीयात्।

Ø  पाणिनेः परवर्तिभिः वैयाकरणैः रचितं व्याकरणं कीदृशम् आसीदिति ज्ञातुं शक्नुयात्।

Ø  अष्टाध्याय्या सह अर्वाचीनव्याकरणानां पार्थक्यम् अवगच्छेत्।

Ø  अर्वाचीनवैयाकरणानाम् अनुयायिनः, तेषां कृतीश्च विजानीयात्।

 

ग.  पाणिनिपरवर्तिपरम्परा

१.    कातन्त्रपरम्परा

  • निर्वचनम् – ईषत् तन्त्रं कातन्त्रम्
  • नामान्तराणि– कलापः, कलापकं, कालापः, कालापकं, कौमारं, सारस्वतम्
  • रचयिता – शर्ववर्मा
  • सन्धिप्रकरणम्, नामप्रकरणम्, आख्यातप्रकरणं, कृत्प्रकरणम्
  • आख्यातप्रकरणं यावत् ८५५ सूत्राणि शर्ववर्मणा रचितानि, ५४५ सूत्रसमन्वितं कृत्प्रकरणं वररुचिना प्रणीतम्।
  • सिद्धः वर्णसमाम्नायः इति प्रथमं सूत्रम्
  • श्रीपतिदत्तः कातन्त्रपरिशिष्टं रचितवान्
  • विजयानन्देन कातन्त्रोत्तरम्, त्रिलोचनेन कातन्त्रोत्तरपरिशिष्टम्।
  • दुर्गसिंहः – दुर्गवृत्तिः
  • अङ्गवङ्गकलिङ्गकाश्मीरादिषु प्रसिद्धिः

२.    चान्द्रपरम्परा

  • बौद्धः आचार्यः चन्द्रगोमी इदं व्याकरणम् अरचयत्
  • षड् अध्यायाः सन्ति, प्रत्यध्यायं चत्वारः पादाः, ३०९९ सूत्राणि
  • असंज्ञाकं व्याकरणम्
  • सूत्रपाठः, वर्णसूत्रपाठः, धातुपाठः, गणपाठः, उणादिसूत्रपाठः, लिङ्गानुशासनम्, उपसर्गवृत्तिः, परिभाषापाठः, शिक्षासूत्रपाठः, कोषः इति दशाङ्गानि सन्ति।
  • धर्मदासस्य चान्द्रवृत्तिः
  • काश्मीर-तिब्बत-नेपाल-श्रीलङ्कादिषु प्रसिद्धिः
३.    जैनेन्द्रपरम्परा

  • जैनः आचार्यः देवनन्दी जैनेन्द्रव्याकरणं व्याकरणं रचितवान्
  • जिनेन्द्रेण प्रोक्तं जैनेन्द्रम्
  • पञ्च अध्यायाः, प्रत्यध्यायं पादचतुष्टयम्, ३०३६ सूत्राणि
  • लौकिकव्याकरणम्
  • एकशेषप्रकरणस्य परित्यागात् अनेकशेषव्याकरणमिति अभिधानम्
  • सूत्रपाठः, धातुपाठः, गणपाठः, परिभाषापाठः, उणादिपाठः, लिङ्गानुशासनम्
  • देवनन्दिकृतः जैनेन्द्रन्यासः, अभयनन्दी – महावृत्तिः, प्रभाचन्द्रः – शब्दाम्भोजभास्करन्यासवृत्तिः, श्रुतकीर्तिः – पञ्चवस्तुप्रक्रिया

४.   शाकटायनपरम्परा

  • जैनः आचार्यः पाल्यकीर्तिः (शाकटायनः) इदं व्याकरणम् अरचयत्
  • चत्वारः अध्यायाः, षोडश पादाः, ३२३६ सूत्राणि
  • वैदिकलौकिकोभयविधशब्दानुशासनम्
  • सूत्रपाठः, गणपाठः, धातुपाठः, लिङ्गानुशासनम्, उणादिसूत्रपाठः
  • पाल्यकीर्तिरचिता अमोघवृत्तिः, प्रभाचन्द्रः – अमोघवृत्तिन्यासः, यक्षवर्मा - चिन्तामणिः

५.   सरस्वतीकण्ठाभरणपरम्परा

  • विदुषामाश्रयदाता महाराजस्य सिन्धुलस्य पुत्रः महाराजस्य जयसिंहस्य पिता परमारवंशीयः धारानृपतिः भोजदेवः सरस्वतीकण्ठाभरणाख्यं व्याकरणग्रन्थं प्रणिनाय।
  • अस्य व्याकरणस्य आधारभूतं पाणिनीयव्याकरणं चान्द्रव्याकरणं च।
  • अष्टौ अध्यायाः, प्रत्यध्यायं चत्वारः पादाः, ६४११ सूत्राणि
  • आद्यसप्ताध्यायेषु लौकिकशब्दानाम् अन्वाख्यानम्, अन्तिमे च वैदिकप्रक्रिया अन्वाख्याता।
  • धातुपाठः, गणपाठः, लिङ्गानुशासनम्, वार्तिकम् इत्यादिकं सर्वं सूत्रे एव अन्तर्भावितम्
  • दण्डनाथनारायणभट्टकृता हृदयहारिणी लघुवृत्तिः उल्लेखयोग्या।

६.   सिद्धहैमशब्दानुशासनपरम्परा

  • मीढाख्यवैश्यवंशजः पाहिनीचाचिङ्गयोः सुपुत्रः चन्द्रदेवसूरिशिष्यः धुन्धुकाग्रामनिवासी जैनाचार्यः कलिकालसर्वज्ञः हेमचन्द्रसूरिः गुर्जरदेशाधिपस्य सिद्धराजस्यादेशेन सिद्धहैमशब्दानुशासनाख्यं सर्वाङ्गपरिपूर्णं व्याकरणं विरचितवान्।
  • संस्कृतप्राकृतोभयभाषयोः इदं व्याकरणम्
  • अष्टौ अध्यायाः, प्रत्यध्यायं चत्वारः पादाः।
  • आद्यसप्ताध्यायेषु ३५६६ सूत्रैः संस्कृतभाषायाः अनुशासनं क्रियते, अन्तिमे अष्टमे अध्याये १११९ सूत्रैः महाराष्ट्री-शौरसेनी-मागधी-पैशाची-चूलिकापैशाची-अपभ्रंशप्रभृतीनां प्राकृतभाषाणाम् अनुशासनम् अवलोक्यते।
  • ग्रन्थोऽयं पञ्चावयवसंयुतः। सूत्रपाठ-धातुपाठ-गणपाठ-उणादिसूत्रपाठ-लिङ्गानुशासनासि यथास्थानं सन्निवेशितानि।
  • हेमचन्द्रेण हैमशब्दानुशासनस्य लघ्वीं वृत्तिं, मध्यवृत्तिं, बृहतीं बृत्तिं च रचितवान्।
  • हेमचन्द्रेण कुमारपालचरिताख्यं अष्टाविंशतिसर्गविशिष्टं संस्कृतप्राकृतभाषाद्वयाश्रयम् ऐतिहासिकमहाकाव्यम् अपि रचितम्। अस्य महाकाव्यस्य आद्यविंशतिसर्गेषु संस्कृतव्याकरणस्य अन्तिमेषु अष्टसु सर्गेषु प्राकृतव्याकरणस्य च उदाहरणानि प्रदत्तानि।
  • अस्याः परम्परायाः अनुयायिनः आसन् लघुन्यासस्य रचयिता रामचन्द्रः, हैमपदव्याख्यायाः प्रणेता देवन्द्रः, न्यासोद्धारस्य कर्ता कनकप्रभः, बृहद्वृत्तिदीपिकाकारः विद्याधरः इत्यादयः।

७.  जौमरपरम्परा

  • क्रमदीश्वरः पाणिनीयव्याकरणं सिद्धहैमशब्दानुशासनं च आधारीकृत्य संक्षिप्तसाराख्यं व्याकरणं रचितवान्। तस्य ग्रन्थस्य रसवतीनाम्नीं वृत्तिमपि रचितवान्।
  • प्रारम्भभागे संस्कृतभाषायाः व्याकरणम्, अन्तिमे च प्राकृतभाषाव्याकरणं वर्तते।
  • परवर्तिकाले महाराजाधिराजः जुमरनन्दी क्रमदीश्वरकृतस्य रसवतीवृत्तिसहितस्य संक्षिप्तसारव्याकरणस्य संशोधनं कृतवान्। ततः आरभ्य संक्षिप्तसारव्याकरणं लोके समादृतम् अभूत्। ततः इदं व्याकरणं जुमरनन्दिनः नाम्ना जौमरव्याकरणरूपेण प्रसिद्धं गतम्।
  • जौमरव्याकरणे अष्टौ अध्यायाः सन्ति। अस्मिन् व्याकरणे अध्यायः पादनाम्ना अभिहितः। प्रत्यध्यायं भागचतुष्टयात्मकम्। प्रारम्भेषु सप्तसु अध्यायेषु संस्कृतव्याकरणम्, अन्तिमे अष्टमे प्राकृतव्याकरणमन्वाख्यातम्। साकल्येन ५१८४ सूत्राणि सन्ति।
  • उत्कलप्रदेशे अस्य महती प्रसिद्धिरासीत्।

८.    सारस्वतपरम्परा

  • नरेन्द्राचार्येण आदौ ७०० सूत्रमितं सारस्वतव्याकरणम् अरचयत्। ततः अनुभूतिस्वरूपाचार्यः कानिचन सूत्राणि संयोज्य १२७४ सूत्रमितं सारस्वतव्याकरणं व्यवस्थापितवान्। ततः रामचन्द्राश्रमेण इतोऽपि सूत्राणि संयोज्य व्याख्यानं च विधाय सारस्वतव्याकरणकलेवरस्य पूर्णता प्रापिता। रामचन्द्राश्रमेण संशोधितस्य ग्रन्थस्य सारस्वतचन्द्रिका इति नाम्ना प्रसिद्धिः। सारस्वतचन्द्रिकायां च २२३७ इति सूत्राणि सन्ति।
  • त्रिभिः वृत्तिभिः विभक्तम्।
  • सारस्वतव्याकरणस्य धातुतरङ्गिणीवृत्तिसहितः हर्षकीर्तिप्रोक्तः धातुपाठः, चन्द्रिकानामटीकासंयुतः गणपाठः उणादिपाठश्चोपलभ्यते।
  • व्याकरणस्यास्य बहवः टीकाः दृश्यन्ते। तासु क्षेमेन्द्रविरचितं टिप्पणम्, अमृतभारतीविरचिता सुबोधिनी, पुञ्जराजस्य प्रक्रिया इत्यादयः प्रसिद्धाः सन्ति। अनुभूतिस्वरूपाचार्यस्य सारस्वतप्रक्रिया टीकापि प्रसिद्धा।
  • उत्कल-गुजराट-काशी-काश्मीर-नेपालप्रभृतिषु देशेषु अस्य पठनपाठनादिकम् आसीत्।

९.    मुग्धबोधपरम्परा

  • वङ्गदेशीयः महादेवपौत्रः केशवपुत्रः धनेश्वरशिष्यः वैयाकरणाचार्यः वोपदेवः मुग्धबोधाख्यं व्याकरणं रचितवान्।
  • मुग्धान् अल्पबुद्धिजनान् बोधयति इति मुग्धबोधं व्याकरणम्।
  • व्याकरणम् इदम् अधिकारद्वयेन विभक्तं– प्रथमः स्याद्यन्ताधिकारः, द्वितीयः त्याद्यन्ताधिकारः। तत्र प्रथमाधिकारे सुबन्तपदसम्बन्धिविचारः, द्वितीये तिङन्तपदसम्बन्धिविचारः।
  • प्रत्यधिकारम् अध्यायचतुष्टयेन विभक्तम्। साकल्येन अष्टौ अध्यायाः सन्ति। १३१६ सूत्राणि सन्ति।
  • ॐ नमः शिवाय इति अस्य व्याकरणस्य प्रथमं सूत्रम्।
  • अस्य ग्रन्थस्य एकविंशतिः टीकाः आसन् इति श्रूयते। तेषु केचन– मधुसूदनस्य मधुमतीटीका, गङ्गाधरतर्कवागीशस्य सेतुसंग्रहटीका, राधावल्लभपञ्चाननस्य सुबोधिनीटीका।

१०.                       सुपद्मपरम्परा

  • मैथिलिब्राह्मणः पद्मनाभदत्तः वङ्गप्रदेशे पाणिनीयव्याकरणम् अधिकृत्य वङ्गलिप्या सुपद्माख्यं संक्षिप्तव्याकरणम् एकं विरचयामास।
  • इदं पञ्चाध्यायविशिष्टम्। प्रत्यध्यायं पादचतुष्टयं विद्यते। संपूर्णे व्याकरणे २८०० सूत्राणि सन्ति।
  • प्रक्रियाक्रमेण रचितम्।
  • केवलं लौकिकशब्दानाम् अनुशासनं दृश्यते।
  • जसोर-खुलना-नैहाटी-भाटपाडाप्रभृतिषु नगरेषु अस्य महान् प्रचारः आसीत्।

११.                        वैष्णवव्याकरणपरम्परा

  • प्रप्रथमं श्रीरूपगोस्वामिना लघुहरिनामामृतव्याकरणं रचितम्। परं संस्कृतभाषार्थम् अपेक्षिताः सर्वे विधयः अत्र नाभूवन् इत्यतः तस्य परिपूर्त्यै श्रीजीवगोस्वामिना बृहदाकारेण ३१९२ सूत्रैः संकलितं श्रीहरिनामामृतव्याकरणं लिखितम्।
  • अस्मिन् व्याकरणे संज्ञात्वेन भगवतः नाम, उदाहरणत्वेन च भगवद्विषयकवाक्यानि एव प्रदत्तानि इति अस्य व्याकरणस्य प्रमुखं वैशिष्ट्यम्।
  • हरिनामामृतव्याकरणस्य आचार्यहरेकृष्णप्रणीता बालतोषणीटीका, गोपीचरणदासस्य तद्धितोद्दीपनीटीका प्रसिद्धा।

इतोऽपि काश्चन परम्परा वर्तन्ते, परं तासां लोकप्रियताभावात् ता अधुना नाममात्रशेषाः। एतासु परम्परासु प्रसिद्धां परम्परामाश्रित्यैव व्याकरणस्य नवविधत्वम् उद्घोषयन्ति विद्वांसः–

                     ऐन्द्रं चान्द्रं काशकृत्स्नं कौमारं शाकटायनम्।

                     सारस्वतं चापिशलं शाकलं पाणिनीयकम्॥ इति।

सर्वेष्वपि व्याकरणेषु लौकिकवैदिकोभयविधशब्दसाधकतया सर्वाङ्गपूर्णतया च पाणिनीयव्याकरणस्यैव श्रेष्ठत्वमिति बोध्यम्।

*****


 

लघुप्रश्नाः

१.     कातन्त्रशब्दस्य निर्वचनं किम्?

२.     कातन्त्रव्याकरणस्य प्रथमं सूत्रं किम्?

३.     कातन्त्रपरिशिष्टस्य रचयिता कः?

४.     असंज्ञाकं व्याकरणमिति कस्य अभिधानम्?

५.     चान्द्रवृत्तेः प्रणेता कः?

६.     अनेकशेषव्याकरणमिति कस्य अभिधानम्?

७.     पाल्यकीर्तिः कस्य सम्प्रदायस्य आचार्यः?

८.     अमोघवृत्तेः रचयिता कः?

९.     दण्डनाथभट्टकृतायाः वृत्तेः नाम किम्?

१०. सरस्वतीकण्ठाभरणे कति सूत्राणि सन्ति?

११. रसवतीवृत्तेः प्रणेता कः?

१२. जौमरव्याकरणे अध्यायः केन नाम्ना अभिधीयते?

१३. जौमरपरम्परायाः कुत्र महती प्रसिद्धिरासीत्?

१४. सुपद्मव्याकरणे कति अध्यायाः सन्ति?

१५. लघुहरिनामामृतव्याकरणं कः रचितवान्?

उत्तराणि

१. ईषत् तन्त्रम्। २. सिद्धः वर्णसमाम्नायः। ३. श्रीपतिदत्तः। ४. चान्द्रव्याकरणस्य। ५. धर्मदासः। ६. जैनैन्द्रव्याकरणस्य। ७. शाकटायनस्य। ८. पाल्यकीर्तिः। ९. हृदयहारिणी। १०. ६४११। ११. क्रमदीश्वरः। १२. पादनाम्ना। १३. उत्कलप्रदेशे १४. पञ्च। १५. रूपगोस्वामी।

No comments:

Post a Comment