पाणिनीयव्याकरणे प्रयुक्तानां पारिभाषिकशब्दानां व्युत्पत्तिः
आत्मनेपदी
आत्मने (आत्मोद्देश्यफलकं) पदम् इति आत्मनेपदम् इति चतुर्थीसमासः। समासविधायकं सूत्रं हि ‘चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः’ (अष्टा.- २.१.३६)। ‘वैयाकरणाख्यायां चतुर्थ्याः’ (अष्टा.- ६.३.७) इति सूत्रेण चतुर्थ्या अलुग्विधानात् चतुर्थ्याः लुक् न भवति। आत्मनेपदम् (प्रत्ययः) अस्य (धातोः) अस्ति इति विग्रहे ‘अत इनिठनौ’ (अष्टा.- ५.२.११५) इति सूत्रेण इनिप्रत्यये आत्मनेपदिन् इति स्थिते सुप्रत्यये आत्मनेपदी।
परस्मैपदी
परस्मै (परोद्देश्यफलकं) पदम् इति परस्मैपदम् इति चतुर्थीसमासः। समासविधायकं सूत्रं हि ‘चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः’ (अष्टा.- २.१.३६)। ‘वैयाकरणाख्यायां चतुर्थ्याः’ (अष्टा.- ६.३.७) इति सूत्रेण चतुर्थ्या अलुग्विधानात् चतुर्थ्याः लुक् न भवति। परस्मैपदम् (प्रत्ययः) अस्य (धातोः) अस्ति इति विग्रहे ‘अत इनिठनौ’ (अष्टा.- ५.२.११५) इति सूत्रेण इनिप्रत्यये परस्मैपदिन् इति स्थिते सुप्रत्यये परस्मैपदी।
No comments:
Post a Comment