वरदराजाचार्यप्रणीता
लघुसिद्धान्तकौमुदी
॥अथ लघुसिद्धान्तकौमुद्याम् अच्सन्धिः॥
१५. इको यणचि (६.१.७७)॥ इकः स्थाने यण् स्यादचि संहितायां विषये। सुधी उपास्य इति स्थिते॥
१६. तस्मिन्निति निर्दिष्टे पूर्वस्य (१.१.६६)॥ सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम्॥
१७. स्थानेऽन्तरतमः (१.१.५०)॥ प्रसङ्गे सति सदृशतम आदेशः स्यात्। सुध्य् उपास्य इति जाते॥
१८. अनचि च (८.४.४७)॥ अचः परस्य यरो द्वे वा स्तो न त्वचि। इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते॥
१९. झलां जश् झशि (८.४.५३)॥ स्पष्टम्। इति पूर्वधकारस्य दकारः॥
२०. संयोगान्तस्य लोपः (८.२.२३)॥ संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात्॥
२१. अलोऽन्त्यस्य (१.१.५२)॥ षष्ठीनिर्दिष्टस्यऽन्त्यस्याल आदेशः स्यात्। इति यलोपे प्राप्ते - यणः प्रतिषेधो वाच्यः (वार्त्तिकम्)। सुद्ध्युपास्यः। मद्ध्वरिः। धात्रंशः। लाकृतिः॥
२२. एचोऽयवायावः (६.१.७८)॥ एचः क्रमादय् अव् आय् आव् एते स्युरचि॥
२३. यथासंख्यमनुदेशः समानाम् (१.३.१०)॥ समसंबन्धी विधिर्यथासंख्यं स्यात्। हरये। विष्णवे। नायकः। पावकः॥
२४. वान्तो यि प्रत्यये (६.१.७९)॥ यकारादौ प्रत्यये परे ओदौतोः अव् आव् एतौ स्तः। गव्यम्। नाव्यम्। अध्वपरिमाणे च (वार्त्तिकम्)॥ गव्यूतिः॥
२५. अदेङ् गुणः (१.१.२)॥ अत् एङ् च गुणसंज्ञः स्यात्॥
२६. तपरस्तत्कालस्य (१.१.७०)॥ तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्॥
२७. आद्गुणः (६.१.८७)॥ अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्। उपेन्द्रः। गङ्गोदकम्॥
२८. उपदेशेऽजनुनासिक इत् (१.३.२)॥ उपदेशेऽनुनासिकोऽजित्संज्ञः स्यात्। प्रतिज्ञानुनासिक्याः पाणिनीयाः। लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा॥
२९. उरण् रपरः (१.१.५१)॥ ऋ इति त्रिंशतः संज्ञेत्युक्तम्। तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते। कृष्णर्द्धिः। तवल्कारः॥
३०. लोपः शाकल्यस्य (८.३.१९)॥ अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाऽशि परे॥
३१. पूर्वत्रासिद्धम् (८.२.१)॥ सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्। हर इह, हरयिह। विष्ण इह, विष्णविह॥
३२. वृद्धिरादैच् (१.१.१)॥ आदैच्च वृद्धिसंज्ञः स्यात्॥
३३. वृद्धिरेचि (६.१.८८)॥ आदेचि परे वृद्धिरेकादेशः स्यात्। गुणापवादः। कृष्णैकत्वम्। गङ्गौघः। देवैश्वर्यम्। कृष्णौत्कण्ठ्यम्॥
३४. एत्येधत्यूठ्सु (६.१.८९)॥ अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात्। उपैति। उपैधते। प्रष्ठौहः। एजाद्योः किम्? उपेतः। मा भवान्प्रेदिधत्। अक्षादूहिन्यामुपसंख्यानम् (वार्त्तिकम्)। अक्षौहिणी सेना। प्रादूहोढोढ्येषैष्येषु (वार्त्तिकम्)। प्रौहः। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः। ऋते च तृतीयासमासे (वार्त्तिकम्)। सुखेन ऋतः सुखार्तः। तृतीयेति किम्? परमर्तः। प्रवत्सतरकम्बलवसनार्णदशानामृणे (वार्त्तिकम्)। प्रार्णम्, वत्सतरार्णम्, इत्यादि॥
३५. उपसर्गाः क्रियायोगे (१.४.५९)॥ प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः। प्र परा अप सम् अनु अव निस् निर्दुस् दुर्वि आङ् नि अधि अपि अति सु उत् अभि प्रति परि उप - एते प्रादयः॥
३६. भूवादयो धातवः (१.३.१)॥ क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः॥
३७. उपसर्गादृति धातौ (६.१.९१)॥ अवर्णान्तादुपसर्गादृकारादौ धातौ परे वृद्धिरेकादेशः स्यात्। प्रार्च्छति॥
३८. एङि पररूपम् (६.१.९४)॥ आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात्। प्रेजते। उपोषति॥
३९. अचोऽन्त्यादि टि (१.१.६४)॥ अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात्। शकन्ध्वादिषु पररूपं वाच्यम् (वार्त्तिकम्)। तच्च टेः। शकन्धुः। कर्कन्धुः मनीषा। आकृतिगणोऽयम्। मार्त्तण्डः॥
४०. ओमाङोश्च (६.१.९५)॥ ओमि आङि चात्परे पररूपमेकादेशः स्यात्। शिवायों नमः। शिव एहि॥
४१. अन्तादिवच्च (६.१.८५)॥ योऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्। शिवेहि॥
४२. अकः सवर्णे दीर्घः (६.१.१०१)॥ अकः सवर्णेऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात्। दैत्यारिः। श्रीशः। विष्णूदयः। होतॄकारः॥
४३. एङः पदान्तादति (६.१.१०९)॥ पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्। हरेऽव। विष्णोऽव॥
४४. सर्वत्र विभाषा गोः (६.१.१२२)॥ लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते। गोअग्रम्, गोऽग्रम्। एङन्तस्य किम्? चित्रग्वग्रम्। पदान्ते किम्? गोः॥
४५. अनेकाल्शित्सर्वस्य (१.१.५५)॥ इति प्राप्ते॥
४६. ङिच्च (१.१.५३)॥ ङिदनेकालप्यन्त्यस्यैव स्यात्॥
४७. अवङ् स्फोटायनस्य (६.१.१२३)॥ पदान्ते एङन्तस्य गोरवङ् वाऽचि। गवाग्रम्, गोऽग्रम्। पदान्ते किम् ? गवि॥
४८. इन्द्रे च नित्यम् (६.१.१२४)॥ गोरवङ् स्यादिन्द्रे। गवेन्द्रः॥
४९. दूराद्धूते च (८.२.८४)॥ दूरात्सम्बोधने वाक्यस्य टेः प्लुतो वा॥
५०. प्लुतप्रगृह्या अचि नित्यम् (६.१.१२५)॥ एतेऽचि प्रकृत्या स्युः। आगच्छ कृष्ण३ अत्र गौश्चरति॥
५१. ईदूदेद्द्विवचनं प्रगृह्यम् (१.१.११)॥ ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात्। हरी एतौ। विष्णू इमौ। गङ्गे अमू॥
५२. अदसो मात् (१.१.१२)॥ अस्मात्परावीदूतौ प्रगृह्यौ स्तः। अमी ईशाः। रामकृष्णावमू आसाते। मात्किम्? अमुकेऽत्र॥
५३. चादयोऽसत्त्वे (१.४.५७)॥ अद्रव्यार्थाश्चादयो निपाताः स्युः॥
५४. प्रादयः (१.४.५८)॥ एतेऽपि तथा॥
५५. निपात एकाजनाङ् (१.१.१४)॥ एकोऽज् निपात आङ्वर्जः प्रगृह्यः स्यात्। इ इन्द्रः। उ उमेशः। वाक्यस्मरणयोरङित्; आ एवं नु मन्यसे। आ एवं किल तत्। अन्यत्र ङित् ; आ ईषदुष्णम् ओष्णम्॥
५६. ओत् (१.१.१५)॥ ओदन्तो निपातः प्रगृह्यः स्यात्। अहो ईशाः॥
५७. सम्बुद्धौ शाकल्यस्येतावनार्षे (१.१.१६)॥ सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति॥
५८. मय उञो वो वा (८.३.३३)॥ मयः परस्य उञो वो वाऽचि। किम्वुक्तम्, किमु उक्तम्॥
५९. इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च (६.१.१२७)॥ पदान्ता इको ह्रस्वा वा स्युरसवर्णेऽचि। ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः। चक्रि अत्र, चक्र्यत्र। पदान्ता इति किम्? गौर्यौ -
६०. अचो रहाभ्यां द्वे (८.४.४६)॥ अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। गौर्य्यौ। न समासे (वार्त्तिकम्)। वाप्यश्वः॥
६१. ऋत्यकः (६.१.१२८)॥ ऋति परे पदान्ता अकः प्राग्वद्वा। ब्रह्म ऋषिः, ब्रह्मर्षिः पदान्ताः किम् ? आर्च्छत्॥
No comments:
Post a Comment