वरदराजाचार्यप्रणीता
लघुसिद्धान्तकौमुदी
॥अथ लघुसिद्धान्तकौमुद्यां हल्सन्धिः॥
६२. स्तोः श्चुना श्चुः (८.४.४०)॥ सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः। रामश्शेते। रामश्चिनोति। सच्चित्। शार्ङ्गिञ्जय॥
६३. शात् (८.४.४४)॥ शात्परस्य तवर्गस्य चुत्वं न स्यात्। विश्नः। प्रश्नः॥
६४. ष्टुना ष्टुः (८.४.४१)॥ स्तोः ष्टुना योगे ष्टुः स्यात्। रामष्षष्ठः। रामष्टीकते। पेष्टा। तट्टीका। चक्रिण्ढौकसे॥
६५. न पदान्ताट्टोरनाम् (८.४.४२)॥ पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट् ते। पदान्तात्किम्? ईट्टे। टोः किम्? सर्पिष्टमम्। अनाम्नवतिनगरीणामिति वाच्यम् (वार्त्तिकम्)। षण्णाम्। षण्णवतिः। षण्णगर्य्यः॥
६६. तोः षि (८.४.४३)॥ न ष्टुत्वम्। सन्षष्ठः॥
६७. झलां जशोऽन्ते (८.२.३९)॥ पदान्ते झलां जशः स्युः। वागीशः॥
६८. यरोऽनुनासिकेऽनुनासिको वा (८.४.४५)॥ यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात्। एतन्मुरारिः एतद् मुरारिः। प्रत्यये भाषायां नित्यम् (वार्त्तिकम्)। तन्मात्रम्। चिन्मयम्॥
६९. तोर्लि (८.४.६०)॥ तवर्गस्य लकारे परे परसवर्णः। तल्लयः। विद्वाँल्लिखति। नस्यानुनासिको लः॥
७०. उदः स्थास्तम्भोः पूर्वस्य (८.४.६१)॥ उदः परयोः स्थास्तम्भोः पूर्वसवर्णः॥
७१. तस्मादित्युत्तरस्य (१.१.६७)॥ पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्॥
७२. आदेः परस्य (१.१.५४)॥ परस्य यद्विहितं तत्तस्यादेर्बोध्यम्। इति सस्य थः॥
७३. झरो झरि सवर्णे (८.४.६५)॥ हलः परस्य झरो वा लोपः सवर्णे झरि॥
७४. खरि च (८.४.५५)॥ खरि झलां चरः स्युः। इत्युदो दस्य तः। उत्थानम्। उत्तम्भनम्॥
७५. झयो होऽन्यतरस्याम् (८.४.६२)॥ झयः परस्य हस्य वा पूर्वसवर्णः। नादस्य घोषस्य संवारस्य महाप्राणस्य तादृशो वर्गचतुर्थः। वाग्घरिः, वाग्हरिः॥
७६. शश्छोऽटि (८.४.६३)॥ झयः परस्य शस्य छो वाऽटि। तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते खरि चेति जकारस्य चकारः। तच्छिवः, तच्शिवः। छत्वममीति वाच्यम् (वार्त्तिकम्)। तच्छ्लोकेन॥
७७. मोऽनुस्वारः (८.३.२३)॥ मान्तस्य पदस्यानुस्वारो हलि। हरिं वन्दे॥
७८. नश्चापदान्तस्य झलि (८.३.२४)॥ नस्य मस्य चापदान्तस्य झल्यनुस्वारः। यशांसि। आक्रंस्यते। झलि किम्? मन्यते॥
७९. अनुस्वारस्य ययि परसवर्णः (८.४.५८)॥ स्पष्टम्। शान्तः॥
८०. वा पदान्तस्य (८.४.५९)॥ त्वङ्करोषि, त्वं करोषि॥
८१. मो राजि समः क्वौ (८.३.२५)॥ क्विबन्ते राजतौ परे समो मस्य म एव स्यात्। सम्राट्॥
८२. हे मपरे वा (८.३.२६)॥ मपरे हकारे परे मस्य मो वा। किम् ह्मलयति, किं ह्मलयति। यवलपरे यवला वा (वार्त्तिकम्)। किय्ँ ह्यः, किं ह्यः। किव्ँ ह्वलयति, किं ह्वलयति। किल्ँ ह्लादयति, किं ह्लादयति॥
८३. नपरे नः (८.३.२७)॥ नपरे हकारे मस्य नो वा। किन् ह्नुते, किं ह्नुते॥
८४. आद्यन्तौ टकितौ (१.१.४६)॥ टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः॥
८५. ङ्णोः कुक्टुक् शरि (८.३.२८)॥ वा स्तः। चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम् (वार्त्तिकम्)। प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः। सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः॥
८६. डः सि धुट् (८.३.२९)॥ डात्परस्य सस्य धुड्वा। षट्त्सन्तः, षट् सन्तः॥
८७. नश्च (८.३.३०)॥ नान्तात्परस्य सस्य धुड्वा। सन्त्सः, सन्सः॥
८८. शि तुक् (८.३.३१)॥ पदान्तस्य नस्य शे परे तुग्वा। सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः॥
८९. ङमो ह्रस्वादचि ङमुण्नित्यम् (८.३.३२)॥ ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्। प्रत्यङ्ङात्मा। सुगण्णीशः। सन्नच्युतः॥
९०. समः सुटि (८.३.५)॥ समो रुः सुटि॥
९१. अत्रानुनासिकः पूर्वस्य तु वा (८.३.२)॥ अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा॥
९२. अनुनासिकात् परोऽनुस्वारः (८.३.४)॥ अनुनासिकं विहाय रोः पूर्वस्मात्परोऽनुस्वारागमः॥
९३. खरवसानयोर्विसर्जनीयः (८.३.१५)॥ खरि अवसाने च पदान्तस्य रेफस्य विसर्गः। संपुंकानां सो वक्तव्यः (वार्त्तिकम्)। सँस्स्कर्ता, संस्स्कर्ता॥
९४. पुमः खय्यम्परे (८.३.६)॥ अम्परे खयि पुमो रुः। पुँस्कोकिलः, पुंस्कोकिलः॥
९५. नश्छव्यप्रशान् (८.३.७)॥ अम्परे छवि नान्तस्य पदस्य रुः ; न तु प्रशान्शब्दस्य॥
९६. विसर्जनीयस्य सः (८.३.३४)॥ खरि। चक्रिँस्त्रायस्व, चक्रिंस्त्रायस्व। अप्रशान् किम् ? प्रशान् तनोति। पदस्येति किम् ? हन्ति॥
९७. नॄन् पे (८.३.१०)॥ नॄनित्यस्य रुर्वा पे॥
९८. कुप्वोः ≍क≍पौ च (८.३.३७)॥ कवर्गे पवर्गे च विसर्गस्य ≍क ≍पौ स्तः, चाद्विसर्गः। नॄँ ≍पाहि, नॄँः पाहि, नॄं≍ पाहि नॄंः पाहि। नॄन्पाहि॥
९९. तस्य परमाम्रेडितम् (८.१.२)॥ द्विरुक्तस्य परमाम्रेडितम् स्यात्॥
१००. कानाम्रेडिते (८.३.१२)॥ कान्नकारस्य रुः स्यादाम्रेडिते। काँस्कान्, कांस्कान्॥
१०१. छे च (६.१.७३)॥ ह्रस्वस्य छे तुक्। शिवच्छाया॥
१०२. पदान्ताद्वा (६.१.७६)॥ दीर्घात्पदान्ताच्छे तुग् वा। लक्ष्मीच्छाया, लक्ष्मीछाया॥विसर्जनीयस्य सः (लघुकौमुदी-९६)॥ खरि। विष्णुस्त्राता॥
Thank you Sir
ReplyDeleteThanks for your comment
Delete