A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Tuesday, April 6, 2021

Nitishatakam Text

भर्तृहरिप्रणीतं नीतिशतकम्

NitishatakamText


दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्त्तये।

स्वानुभूत्येकमानाय नम: शान्ताय तेजसे॥१॥

 

यां चिन्तयामि सततं मयि सा विरक्ता

साऽप्यन्यमिच्छति जनं स जनोऽन्यसक्त:।

अस्मत्कृते तु परितुष्यति काचिदन्या

धिक् तां च तं च मदनं चमां च मां च॥२॥

 

अज्ञ: सुखमाराध्य: सुखतरमाराध्यते विशेषज्ञ:।

ज्ञानलवदुर्विदग्धं ब्रह्माऽपि तं नरं न रञ्जयति॥३॥

 

प्रसह्यमणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात्

मुद्रमपिसन्तरेत्प्रचलदूर्मिमालाकुलम्।

भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेन्

तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्॥४॥

 

लभेत सिकतासु तैलमपि यत्नत: पीडयन्

पिबेच्चमृगतृष्णिकासु सलिलं पिपासार्दित:।

कदाचिदपि पर्यटञ्छशविषाणमासादयेन्

तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत्॥५॥

 

व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते

छेत्तुं वज्रमणिञ्छिरीषकुसुमप्रान्तेन संनह्यते।

माधुर्यं मधुबिन्दुनारचयितुं क्षाराम्बुधेरीहते

नेतुं वाञ्छति य: खलान्पथि सतां सूक्तै: सुधास्यन्दिभि:॥६॥

 

स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञताया:।

विशेषत: सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्॥७॥

 

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्ध: समभवं

तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मन:।

यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतं

तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगत:॥८॥

 

कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं

निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम्।

सुरपतिमपि श्वा पार्श्वस्थं विलोक्य न शङ्कते

न हि गणयति क्षुद्रो जन्तु: परिग्रहफल्गुताम्॥९॥

 

शिर: शार्वं स्वर्गात्पशुपतिशिरस्त: क्षितिधरं

महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम्।

अधोऽधो गङ्गेयं पदमुपगता स्तोकमथवा

विवेकभ्रष्टानां भवति विनिपात: शतमुख:॥१०॥

 

शक्यो वारयितुं जलेन हुतभुक्छत्रेण सूर्यातपो

नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ।

व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं

सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम्॥११॥

 

साहित्यसङ्गीतकलाविहीन: साक्षात्पशु: पुच्छविषाणहीन:।

तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम्॥१२॥

 

येषां न विद्या न तपो न दानं

ज्ञानं न शीलं न गुणो न धर्म:।

ते मर्त्यलोके भुवि भारभूता

मनुष्यरूपेण मृगाश्चरन्ति॥१३॥

 

वरं पर्वतदुर्गेषु भ्रान्तं वनचरै: सह।

न मूर्खजनसम्पर्क: सुरेन्द्रभवनेष्वपि॥१४॥

 

शास्त्रोपस्कृतशब्दसुन्दरगिर: शिष्यप्रदेयागमा

विख्याता: कवयो वसन्ति विषये यस्य प्रभोर्निर्धना:।

तज्जाड्यं वसुधाधिपस्य कवयोऽप्यर्थं विनापीश्वरा:

कुत्स्या: स्यु: कुपरीक्षका हि मणयो यैरर्घत: पातिता:॥१५॥

 

हर्त्तुर्याति न गोचरं किमपि शं पुष्णाति यत्सर्वदा

ह्यर्थिभ्य: प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम्।

कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं

येषां तान्प्रति मानमुज्झत नृपा: कस्तै: सह स्पर्धते॥१६॥

 

अधिगतपरमार्थान्पण्डितान्मावमंस्था-

स्तृणमिव लघु लक्ष्मीर्नैव तान्संरुणद्धि।

अभिनवमदलेखाश्यामगण्डस्थलानां

भवति विसतन्तुर्वारणं वारणानाम्॥१७॥

 

अम्भोजिनीवननिवासविलासमेव

हंसस्य हन्ति नितरां कुपितो विधाता।

न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां

वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थ:॥१८॥

 

केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला

न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजा:।

वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते

क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम्॥१९॥

 

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं

विद्या भोगकरी यश:सुखकरी विद्या गुरूणां गुरु:।

विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं

विद्या राजसु पूजिता न तु धनं विद्याविहीन: पशु:॥२०॥

*******

No comments:

Post a Comment