A PLATFORM FOR SANSKRIT ACADEMICIANS

॥महामहनीय! मेधाविन्! त्वदीयं स्वागतं कुर्मः॥

Namaste. I, Dr. Srimanta Bhadra, Head & Assistant Professor, PG Department of Sanskrit, Raja Narendra Lal Khan Women's College (Autonomous), will share various study materials here related to Sanskrit language, literature and scripture especially Sanskrit Grammar. Let me know your feedback in the comments. It will encourage me and do not forget to comment your favourite topics which you want to read in future.
अवनितलं पुनरवतीर्णा स्यात् संस्कृतगङ्गाधारा
Thanks & Regards
Dr. Srimanta Bhadra

Sunday, May 17, 2020

वैयाकरणसिद्धान्तकौमुदी | अजन्तपुंलिङ्गप्रकरणम् | अर्थवदधातुरप्रत्ययः प्रातिपदिकम् | सूत्रव्याख्या | Sanskrit Kutir | Srimanta Bhadra


अर्थवदधातुरप्रत्ययः प्रातिपदिकम्

भूमिका– वैयाकरणमूर्धन्येन भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः अजन्तपुंलिङ्गप्रकरणे सूत्रमिदं वर्तते। षट्प्रकारकेषु सूत्रेषु इदं संज्ञासूत्रम्।
सूत्रार्थः– सूत्रेऽस्मिन् पदचतुष्टयं विद्यते। अर्थवद् अधातुः अप्रत्ययः प्रातिपदिकम् इति सूत्रगतपदच्छेदः। अर्थः अस्यास्तीति अर्थवद् इति प्रथमैकवचनान्तं पदम्। शब्दस्वरूपमिति विशेष्यम् अध्याह्रियते। न धातुः अधातुरिति नञ्तत्पुरुषः। तस्य च धातुभिन्नम् इत्यर्थः। न प्रत्ययः अप्रत्ययः इत्यपि नञ्तत्पुरुषः। अप्रत्ययः इति आवर्तते। तत्र प्रथमस्य प्रत्ययभिन्नम् इत्यर्थः, द्वितीयस्य च तदन्तविधौ प्रत्ययान्तभिन्नम् इत्यर्थो भवति। ततश्च धातुभिन्नं प्रत्ययभिन्नं प्रत्ययान्तभिन्नम् अर्थवत् शब्दस्वरूपम् प्रातिपदिकसंज्ञकं भवति इति सूत्रार्थः फलति। तदुक्तं दीक्षितेन– धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात् इति।
सोदाहरणं व्याख्यानम्– अव्युत्पन्ना डित्थादयः शब्दा अस्य उदाहरणानि। ते हि न धातवः, न वा प्रत्ययाः, न वा प्रत्ययान्ताः अर्थवन्तश्च विद्यन्ते, अतः प्रकृतसूत्रेण प्रातिपदिकसंज्ञा सिद्ध्यति, ततः सुबुत्पत्त्या डित्थः, कपित्थः इत्यादीनि इष्टरूपाणि सिद्ध्यन्ति।
अर्थवदिति सूत्रे किमर्थं गृहीतमिति चेदुच्यते धनं वनम् इत्यादौ प्रतिवर्णं प्रातिपदिकसंज्ञा यथा न स्यात् इत्येतदर्थम्। तथाहि– धकारादयो न धातवो न प्रत्यया न वा प्रत्ययान्ताः इत्यतः प्रातिपदिकसंज्ञा स्यात्, दत्ते च अर्थवत्पदे तेषाम् अर्थवत्त्वाभावात् न प्रातिपदिकसंज्ञा।
अधातुरिति पदं किमर्थम्? तत्रोच्यते यत् हन् धातोः लङि तिपि अहन् इति रूपं भवति, तस्य च अर्थवत्त्वात्, प्रत्ययभिन्नत्वात् प्रत्ययस्य लुप्तत्वेन प्रत्ययान्तभिन्नत्वात् च स्यात् प्रातिपदिकसंज्ञा, तद्वारणाय तस्य ग्रहणम्। गृहीते च तस्य धातुत्वात् न प्रातिपदिकसंज्ञा।
अप्रत्ययः इति किमर्थम्? हरिषु इत्यादिषु सुपः अर्थवत्त्वात्, धातुभिन्नत्वात् प्रत्ययान्तभिन्नत्वात् च स्यात् प्रातिपदिकसंज्ञा, तद्वारणाय तत्पदम्। गृहीते च तस्य प्रत्ययत्वात् न प्रातिपदिकसंज्ञा।
प्रत्ययान्तभिन्नत्वार्थकरणेन हरिषु इत्यादिषु प्रकृतिप्रत्ययसमुदायस्य अर्थवत्त्वात् धातुभिन्नत्वात प्रत्ययभिन्नत्वात् च स्यात्प्रातिपदिकसंज्ञा, तद्वारणाय तथार्थप्रदर्शनम्। कृते च समुदायस्य प्रत्ययान्तत्वात् न प्रातिपदिकसंज्ञा इति शम्।

No comments:

Post a Comment