सरूपाणामेकशेष एकविभक्तौ
भूमिका– वैयाकरणमूर्धन्येन भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः
अजन्तपुंलिङ्गप्रकरणे सूत्रमिदं वर्तते। षट्प्रकारकेषु सूत्रेषु इदं विधिसूत्रम्।
सूत्रार्थः– सूत्रेऽस्मिन् पदत्रयं विद्यते। सरूपाणाम् एकशेषः
एकविभक्तौ इति सूत्रगतपदच्छेदः। सरूपाणाम् इति षष्ठ्येकवचनान्तं पदम्। समानं रूपं
येषां ते सरूपाः, तेषां सरूपाणाम् इति बहुव्रीहिसमासः। एकेशेषः इति
प्रथमैकवचनान्तम्। एकश्च असौ शेषश्च इति कर्मधारयः। एका चासौ विभक्तिश्च इति
एकविभक्तिः, तस्याम् इति एकविभक्तौ इति कर्मधारयसमासनिष्पन्नं सप्तम्यन्तं पदम्।
एव इति प्रकृतसूत्रे अनुवर्तते। एकविभक्तौ सरूपाणाम् एकः एव शेषः इति पदयोजना।
एवञ्च एकस्मिन् विभक्तौ समानरूपाणां शब्दानाम् एक एव अवशिष्यते अन्ये लुप्यन्ते
इत्यर्थः फलति। तदुक्तं दीक्षितेन – ‘एकविभक्तौ यानि सरूपाणि एव दृष्टानि तेषाम् एक एव शिष्यते’ इति।
उदाहरणम्– रामौ इति। ‘प्रत्यर्थं शब्दाभिनिवेशः’ इति न्यायेन
प्रातिपदिकार्थगतद्वित्वविवक्षायां रामशब्दस्य द्विः प्रयोगे ‘राम राम’ इति स्थिते प्रस्तुतसूत्रेण
एकशेषे प्रक्रियया रामौ इति रूपं सिद्ध्यति।
व्याख्या– एकविभक्तौ अर्थात् समानविभक्तौ परतः सारूप्यं येषां
दृष्टं न वैरूप्यं तेषाम् एव एकशेष इति व्याख्यानात् जननीवाचिनः मातृशब्दस्य
परिच्छेतृवाचिनः मातृशब्दस्य च न एकशेषः। यतोहि भ्यामादिप्रत्यये परे यद्यपि
मातृभ्याम् इत्यादिषु सारूप्यम् अस्ति तथापि औप्रत्यये परे मातरौ मातारौ इति
वैरूप्यदर्शनात् न एकशेषः।
ननु सरूपाणामेक एकविभक्तौ इत्येव सूत्रम् अस्तु, शेषग्रहणं मास्तु इति चेत्,
न। तथा सति – सरूपाणां स्थाने एकः अन्तरतमः आदेशो भवतीति सूत्रार्थः स्यात्। ततश्च
अश्वश्च अश्वश्च इत्यत्र उदात्तद्वयवतः स्थाने उदात्तद्वयवान् आदेशः प्रसज्येत।
एवम् एकशेषः इत्यत्र एकग्रहणात् द्विबहूनां शेषो न भवति इति शम्।
No comments:
Post a Comment