सर्वादीनि सर्वनामानि
भूमिका– वैयाकरणमूर्धन्येन भट्टोजिदीक्षितेन विरचिताया वैयाकरणसिद्धान्तकौमुद्याः
अजन्तपुंलिङ्गप्रकरणे सूत्रमिदं वर्तते। षट्प्रकारकेषु सूत्रेषु इदं
संज्ञासूत्रम्।
सूत्रार्थः– सूत्रेऽस्मिन् पदद्वयं विद्यते। सर्वः आदिः येषां तानि
इति सर्वादीनि इति बहुव्रीहिसमासनिष्पन्नं प्रथमाबहुवचनान्तं संज्ञिपदम्।
सर्वनामानि इति प्रथमाबहुवचनान्तं संज्ञापदम्। शब्दस्वरूपम् इत्यध्याह्रियते।
ततश्च सर्वादीनि शब्दस्वरूपाणि सर्वनामसंज्ञकानि भवन्ति इति सूत्रार्थो लभ्यते।
तदुक्तं दीक्षितेन – ‘सर्वादीनि
शब्दस्वरूपाणि सर्वनामसंज्ञानि स्युः’ इति।
सोदाहरणं व्याख्यानम्– सर्व, विश्व, उभ, उभय प्रभृति
पञ्चत्रिंशत् शब्दाः सर्वादिगणे पठिताः। अतः प्रस्तुतसूत्रेण एतेषां सर्वनामसंज्ञा
भवति।
ननु सर्वादीनि इत्यत्र बहुव्रीहिसमासः, बहुव्रीहिसमासश्च अन्यपदार्थे भवति
इत्यतः सर्वशब्दस्य सर्वनामसंज्ञा न स्यात् इति चेन्न। द्विविधो हि बहुव्रीहिसमासः
– तद्गुणसंविज्ञानबहुव्रीहिः, अतद्गुणसंविज्ञानबहुव्रीहिः चेति। तत्र
तद्गुणसंविज्ञानबहुव्रीहौ वर्तिपदार्थस्य अपि बोधो भवति। सर्वादीनि इत्यत्र च
तद्गुणसंविज्ञानबहुव्रीहिः वर्तते इत्यतः वर्तिपदार्थस्य सर्वशब्दस्यापि सर्वनामसंज्ञा
स्यात्।
सर्वनामसंज्ञा महासंज्ञा। तेन सर्वशब्दः यदा सर्वार्थस्य वाचकः भवति तदैव
सर्वनामसंज्ञा भवति, परन्तु यदा कस्यापि नाम सर्वः भवति तदा तु सर्वशब्दस्य
सर्वनामसंज्ञा न भवति। अतः ‘संज्ञोपसर्जनीभूतास्तु न सर्वादयः’ इति वार्तिकम् अनपेक्षितम् इति शम्॥
No comments:
Post a Comment